________________
४८८
• यज्ञीयहिंसाया धूर्तप्रवर्तितत्वम् • द्वात्रिंशिका-७/१६ 6 (वि.धर्मो .खंड-३/अ.२६८/१२-१३) इत्येवं स्पष्टमेव मांसभक्षणस्य सदोषता दर्शिता ।
एतेन → श्वेतं वायव्यमजमालभेत भूतिकामः - (श.प.बा.) इति शतपथब्राह्मणवचनमपि निरस्तम्, निषेध्यगोचरवधविधानकरणेन 'न हिंस्यात्सर्वभूतानि' (छान्दो.८) इति पूर्वोक्त(पृ.९५+४७७) छान्दोग्योपनिषदादिवचनव्याघातापत्तेश्च। तदुक्तं महाभारते अपि → मांसं मधु सुरा मत्स्या आसवं कृसरौदनम् । धूर्तेः प्रवर्तितं ह्येतद् नैतद् वेदेषु कल्पितम् ।। कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम् । - (म.भा.शांतिपर्व-२५७/९+१०) इति । ततश्च यज्ञीयहिंसाया निर्दोषता तु कफोणिगुडायितन्यायमेवानुसरति । समयसारे श्रीदेवानन्दसूरिभिरपि → पंचिंदियवह-मंसाहार-बहुआरंभ-पहिग्गहा नेरइआउस्स - (स.सा.३/ १०) इत्येवं मांसाहारस्य नरकसाधनतोक्तेत्यवधेयम् । → मत्स्य-मांसादिबहुलं यद्गृहे पच्यते भृशम् । तद्गृहं वर्जयेद् भिक्षुर्यदि भिक्षां समाचरेत् ।। (वि.स्मृ. ) इति विश्वामित्रस्मृतिवचनादपि मांसादेर्गर्हणीयता सिध्यत्येव ।
अत एव → माऽश्नीयाद् ब्राह्मणो मांसमनियुक्तः कथञ्चन । क्रतौ श्राद्धे नियुक्तो वा अनश्नन् पतति द्विजः ।। द्विजो जग्ध्वा वृथा मांसं हत्वाऽप्यविधिना पशून् । निरयेष्वयं वासमाप्नोत्याचन्द्रतारकम् ।। (परा. स्मृ.५५-५६) इति पराशरस्मृतिवचने अपि अर्धजरतीयन्यायमनुसरतः इति स्थितम् । → क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् । मद्य-मांसानुरक्तानां दूरे तिष्ठति शङ्करः।। - (स्क.पु.४/३/६०) इति च स्कन्दमहापुराणोक्तेरपि मांसभक्षणस्य देवप्रीत्यर्थकत्वं निषिध्यते। यथोक्तं वायुपुराणे अपि → दुष्टमांसानि यैः पापैक्षितानि द्विजन्मभिः। क्षुधार्तास्ते निजं कायं भक्षयन्त्यत्र संस्थिताः।। - (वा.पु.६/२६४) इति । वैदिकैरपि → अन्धे तमसि मज्जामः पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति ।। 6 (उत्तरमीमांसा) इति पठ्यते । सम्मतञ्चेदमस्माकमपि । तदुक्तं सूत्रकृताङ्गे → तमातो ते तमं जंति मंदा आरंभनिस्सिया - (सू.कृ.१/१/१/१४) इति । प्रकृते → रुहिरकयस्स वत्थस्स रुहिरेणं चेव पक्खालिज्जमाणस्स णत्थि सोही - (ज्ञात.क.१/५) इति ज्ञाताधर्मकथासूक्तितात्पर्यमपि योज्यं सिद्धान्तरहस्यकोविदैः ।
बौद्धानामपि सम्मतमिदम् । अत एव संयुक्तनिकाये कौसलसंयुक्ते यज्ञसूत्रे→ अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गलहं । महायजा महारम्भा, न ते होन्ति महप्फला ।। अजेलका च गावो च, विविधा यत्थ हझरे । न तं सम्मग्गता यऑ, उपयन्ति महेसिनो ।। ये च या निरारम्भा यजन्ति अनुकुलं सदा । अजेलका च गावो च, विविधा नेत्थ हझरे ।। एतं सम्मग्गता यजं, उपयन्ति महेसिनो । एतं यजेथ मेधावी, एसो यज्ञो महप्फलो ।। एतहि यजमानस्स, सेय्यो होति, न पापियो। यो च विपुलो होति, पसीदन्ति च देवता ।।
6 (सं.नि. १/१/१२०,पृ.९३) इत्युक्तं सुगतेनेति भावनीयम् । पूर्वं त्रयो रोगा आसन् पशुवधाद् रोगाणामष्टानवतिः सञ्जातेति सुगतमतम् । तदुक्तं सुत्तनिपाते → तयो रोगा पुरे आसुं इच्छा अनसनं जरा । पसूनं च समारभ्यो अट्ठानबुतिमागमुं ।। (सु.नि.२/१९/२८) इत्यप्यवधातव्यमत्र । साम्प्रतं तु हिंसाबाहुल्याद् रोगाः शतशः सञ्जाताः इति वदन्ति । इत्थञ्च यज्ञीयहिंसाऽपि त्याज्यैव । न हि वरविघाताय कन्योताहो भवतीति न्यायोऽपि लब्धप्रसरोऽत्र ।
यत्तु तथागतेन विनयपिटके (६/४/२) भिक्षूनुद्दिश्य मनुष्य-गजाश्व-कुक्कुर-सर्प-सिंह-व्याघ्रादिमांसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org