________________
मुमुक्षुणाऽग्निहोत्रादेरनुपादेयता
४८७
बुद्धि:
पत्नी,... स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः, ओङ्कारो युवः, आशा = रशना, मनः पशुः केशाः
= रथः,, कामः
दर्भाः, बुद्धीन्द्रियाणि
हवींषि,
यज्ञपात्राणि, कर्मेन्द्रियाणि
=
अहिंसा ' = इष्टयः, त्यागः = दक्षिणा ← ( प्राणा. ४ / १) इत्यादि । सम्मतञ्चेदं यथातन्त्रं तात्पर्यवृत्त्याऽस्माकमपि । एतेन आत्मा = यजमानः, बुद्धिः पत्नी,.. लोभादयः = पशवः, धृतिः दीक्षा, सन्तोषश्च बुद्धीन्द्रियाणि यज्ञपात्राणि कर्मेन्द्रियाणि हवींषि ← ( गर्भो . ५ ) इत्यादि गर्भोपनिषद्वचनमपि तात्पर्यार्थापेक्षयाऽस्माकं सम्मतमिति सूचितम् । तदुक्तं उत्तराध्ययनसूत्रे अपि तवो जोई, जीवो जोइठाणं, जोगा सुया, सरीरं कारिसंगं । कम्मं एहा, संजयजोग सन्ती, होमं हुणामि इसिणं पसत्थं ।। ← ( उत्त. १२/ ४४) इति । तदुक्तं कृष्णगीतायामपि आत्मैव सत्ययज्ञोऽस्ति ज्ञानाग्निस्तत्र वर्तते । कामपशुर्हविस्तत्र जायते सत्यभावतः ।। आत्मयज्ञे परब्रह्मसाक्षात्कारः प्रजायते । आत्मयज्ञस्य कर्तारो जैनाः स्युरधिकारिणः ।। ← (कृ.गी. ११४/११५ ) इति । प्रकृते यज्ञशब्देन पूजाया अर्थो बोध्यो महाजनैः । आर्यवेदेषु यज्ञस्य पूजार्थं सूचना कृता ।। ← (महा.गी. ५/४१०) इति महावीरगीतावचनमपि यथातन्त्रमनुयोज्यम् । यदपि गणेशोत्तरतापिन्युपनिषदि अश्वमेधसहस्राणि वाजपेयशतानि च । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ।। ← ( गणे. उत्त. १ / १ ) इत्युक्तं यच्चापि महाभारते अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः । गोसहस्रफलं विद्यात् कुलञ्चैव समुद्धरेत् ।। ← ( म.भा.वनपर्व.८४/४२) इत्युक्तं तदप्यत्र यथातन्त्रमनुयोज्यम् ।
→ देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम्।। ← ( महाभा. ) इति महाभारतोक्तिस्तु स्पष्टमेव यज्ञीयहिंसानिषेधिका । एतेन देवतार्थे च पित्रर्थे तथैवाभ्यागते गुरौ । महदागमने चैव हन्यान् मेध्यान् पशून् द्विजः ।। ← ( ब्र. पु. ललितोपाख्यान-३/४/ ४/७/५-पृष्ठ-१७१) इति ब्रह्माण्डपुराणवचनं निरस्तम् । तदुक्तं महाभारते यो मां सर्वगतं ज्ञात्वा न च हिंस्यात्कदाचन । तस्याऽहं न प्रणश्यामि स च मे न प्रणश्यति ।। ← ( म.भा. शांतिपर्व )। अधर्मसंश्रितो धर्मो विनाशयति राघव ! ← (वा.रा.८३/३०) इति वाल्मीकिरामायणवचनमप्यत्र न विस्मर्तव्यम् । यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैर्माष्टुमर्हति ।। ← (भाग १ / ८ / ५२ ) इति भागवतवचनमपि प्रकृते यथाधिकारमनुयोज्यम्। तदुक्तं ब्रह्मसूत्रभाष्ये आनन्दगिरिणा अपि अग्निहोत्रादीनामपि पुण्यान्तरवद् विनाश्यत्वात् पङ्कक्षालनन्यायापातादारुरुक्षुणापि तानि नानुष्ठेयानि ← ( ब्र.सू.भा.४/१/१६) ।
उपनयनोत्तरकालं तु विशेषतो मांसादिभक्षणं विप्रतिषिद्धं ब्राह्मणानाम् । तदुक्तं संवर्तस्मृती उपनीतो द्विजो नित्यं गुरवे हितमाचरेत् । स्रुग्गन्ध - मधु-मांसानि ब्रह्मचारी विवर्जयेत् ।। (सं. स्मृ. ५) ब्रह्मचारी तु योऽश्नीयान्मधु मांसं कथञ्चन । प्राजापत्यं तु कृत्वाऽसौ मौञ्जीहोमेन शुध्यति ।। ← (सं.स्मृ. २५) इति। उपनयनोत्तरकालं कथञ्चिद् मांसादिभक्षणे पुनः तत्संस्काराऽऽधानमुपदिष्टम् । तदुक्तं बोधायनगृह्यसूत्रे मधुमांस - श्राद्ध - सूतकान्नमन्तर्दशाऽहं सण्डिनीक्षीरं क्षत्राक - निर्यासौ विलयनं गणान्नं गणिकान्नमित्येतेषु पुनः संस्कारः ← (बो.गृ.सू. ) इति । ततश्च मांसादिभक्षणमनुचितमेवेति स्थितम् । → मांसात् प्रजायते मोहः ← (पारमात्मिकोपनिषद्वृत्त्युद्धृतः ) इति वचनमप्यत्र स्मर्तव्यम् । विष्णुधर्मोत्तरे तु
अहिंसा परमो धर्मः सत्यमेव द्विजोत्तमाः ! । लोभाद् वा मोहतो वाऽपि यो मांसान्यत्ति मानवः । । निर्घृणः स तु मन्तव्यः सर्वधर्मविवर्जितः । स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
*
=
=
=
=
=