SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ४८६ • हिंसादूषितयज्ञादेस्त्याज्यता • द्वात्रिंशिका-७/१६ पतावपि । आटीनाञ्च वकानां च शुध्यतेऽनक्तभोजनात् । - (प.स्मृ. ६/३) इत्यादिरूपेणोपदर्शितं ततोऽपि मांसभक्षणस्य सदोषताऽपराकार्येव । ननु → मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते - (सं.स्मृ. ) इति संवर्तस्मृतिवचनात् न दर्शितस्मृतिविषयोऽभ्युपगम्यत इति चेत् ? मैवम्, मनुनैव → समुत्पत्तिं च मांसस्य वध-बन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ।। - (म.स्मृ.५/४९) इत्यत्र सर्वपदान्तर्भावन निवृत्तेः प्रतिपादनात् 'मां स भक्षयिता' इत्यत्र मांसत्वावच्छेदेनैव दुष्टत्वविधानमभ्युपगन्तुमर्हति, सङ्कोचकरणे मानाभावादिति 'न मांसभक्षणे दोषः' (म.स्मृ.५/५६) इति मनुस्मृतेरप्रमाणत्वमेव । एतेन → यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञस्य भृत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।। औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ।। क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा । देवान्पितॄश्चार्चयित्वा खादन्मांसं न दुष्यति ।। 6 (मनु.५/३९-४०-३२) इति मनुस्मृतिवचनानि निरस्तानि, तदुक्तं मनुस्मृतौ एव → अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् - (म.स्मृ.२/१५९) इति । यथोक्तं तैत्तिरीयब्राह्मणे बौधायनधर्मसूत्रे च → न मांसमश्नीयात्, न स्त्रियमुपेयात् + (तै.ब्रा.१/१/९, बौ.ध.१/११/२१/२०) इति । तदुक्तं महाभारते धर्मस्मृतौ अपि → अमेध्यं यदभक्ष्यत्वाद् मानुषैरपि वर्जितम् । दिव्योपभोगान् भुजन्ति मांसं देवा न भुञ्जते ।। देवानामग्रतः कृत्वा घोरं प्राणिवधं नराः । ये भक्षयन्ति मांसं च ते व्रजन्त्यधमां गतिम् ।। - (महा.शान्तिपर्वणि ब्राह्मणाधिकारे, ध.स्मृ.१८) इति । गौतमीयधर्मसूत्रे अपि → मूल-फल-पुष्पौषध-मधु-मांस-तृणोदकाऽपथ्यानि 6 (गौ.ध.सू.१२) इत्यादिना या मधु-मांसादेरविक्रयता ब्राह्मणानामुपदिष्टा ततोऽपि मांसभक्षणस्य दुष्टत्वमेव ज्ञायते । प्रकृते → अस्थिन वसति रुद्रश्च मांसे वसति केशवः । शुक्रे वसति ब्रह्मा च तस्मान्मांसं न भक्षयेत् ।। (म.भा. ध स्मृ.६९) इति महाभारत-धर्मस्मृतिवचनमपि स्मर्तव्यम् । तदुक्तं विष्णुधर्मोत्तरे → वर्जको मधु-मांसस्य तस्य तुष्यति केशवः ।। वाराह-मत्स्यमांसानि यो नाऽत्ति भृगुनन्दन !| विरतो मद्यपानाच्च तस्य तुष्यति केशवः ।। 6 (वि.धर्मो.खण्ड-१/अध्या.५८ पृष्ठ.३४) इति । सत्यप्येतादृशे शास्त्रप्रबन्धे मांसभक्षणादेः निर्दोषत्वभ्रमः परेषां मण्डूकवसाऽक्ताऽक्षाणां वंशेषूरगभ्रमन्यायेनोत्पद्यते महामोहोदयेनेत्यवधेयम् । किञ्च यज्ञार्थनिधनप्राप्तस्योत्तमगत्यङ्गीकारेऽश्वमेधादिवत् पितृ-पुत्रमेधादेरपि कर्तव्यत्वापत्तेः । वस्तुतस्तु ततस्स्वर्गादिप्राप्तिरपि न सम्भवति । तदुक्तं विष्णुपुराणे → निहतस्य पशोर्यज्ञे स्वर्गप्राप्तिर्यदीष्यते । स्वपिता यजमानेन किं नु तस्मान्न हन्यते ।। 6 (वि.पु.अंश-३/अध्याय-१८/श्लो.२७) इति । युक्तञ्चैतत् । न हि जीवहिंसा शस्यते । यथोक्तं मनुस्मृतौ एव → नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधस्स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ।। 6 (मनु.५/४८) इति । मनुस्मृतावित्थं बढ्यः सूक्तयः सन्ति परं माषराशिप्रविष्टमषीगुडिकान्यायेन ता विनष्टा इत्यवधेयम् । तदुक्तं धर्मस्मृतौ → ध्रुवं प्राणिवधो यज्ञे नास्ति यज्ञस्त्वहिंसकः । ततोऽहिंसात्मकः कार्यः सदा यज्ञो युधिष्ठिर !।। इन्द्रियाणि पशून् कृत्वा वेदी कृत्वा तपोमयीम् । अहिंसामाहुतिं कृत्वा आत्मयज्ञं यजाम्यहम् ।। ध्यानाग्नौ जीवकुम्भं खेदमारुतदीपिते । सत्कर्मसमित्क्षेपैः अग्निहोत्रं कुरूत्तमाः !।। यूपं कृत्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरके केन गम्यते? ।। 6 (ध.स्मृ.४-७) इत्यादि । यथोक्तं भावयज्ञस्वरूपं प्राणाग्निहोत्रोपनिषदि → आत्मा = यजमानः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy