________________
• यज्ञवैविध्योपदर्शनम् •
४८५ अन्यथा ‘पर्वतो वह्निमान् पर्वतत्वादि'त्यतोऽपि पर्वतेऽनलसिद्धिप्रसङ्गात् । न च प्रकृते पक्षतावच्छेदकता न शास्त्रविहितत्वस्य किन्तु शास्त्रविहितमांसभक्षणत्वस्यैव, हेतुता च शास्त्रविहितत्वस्येति न तयोरैक्यमिति वाच्यम्, गौरवात्, ‘सविशेषणौ हि विधि-निषेधौ विशेषणे सङक्रामतः सति विशेष्यबाधे' इति न्यायेनावश्यक्लृप्ततया शास्त्रविहितत्वस्यैव पक्षतावच्छेदकत्वकल्पनौचित्याच्च ।
वस्तुतस्तु पूर्वमीमांसाया अपि तात्पर्यं पशुहिंसाऽऽविलयज्ञादौ नास्त्येव । अत एव मीमांसासूत्रे अपि → पशुचोदनायामनियमोऽविशेषात् (३०) छागो वा मन्त्रवर्णात् (३१) न चोदनाविरोधात् (३२) आर्षेयवदिति चेत् (३३) न, तत्र ह्यचोदितत्वात् (३४) नियमो वैकार्थ्यं ह्यर्थभेदाद् भेदः पृथक्त्वेनाभिधानात् (३५) अनियमो वाऽर्थान्तरत्वादन्यत्वं व्यतिरेकशब्दभेदाभ्याम् (३६) न वा प्रयोगसमवायित्वात् (३७) रूपालिंगाच्च (३८) छागेन कर्माख्या रूपलिङ्गाभ्याम् (३९) रूपान्यत्वान्न जातिशब्दः स्यात् (४०) विकारो नौत्पत्तिकत्वात् (४१) स नैमित्तिकः पशोर्गुणस्याचोदितत्वात् (४२) जाते; तत्प्राय-वचनार्थवत्त्वाभ्याम् - (मी.सू.६/८-३२-४३) इत्युक्तम् । → पशून् पाहि 6 (ऋ.वे. ) इति ऋग्वेद-वचनं, → गौः मा हिंसी, अविः मा हिंसी, मा हिंसीरेकशफम् + (यजु.१३/४८) इति यजुर्वेदवचनमपि पशुहिंसानिषेधमेव समर्थयतीत्यवधेयम् । यथोक्तं ब्रह्माण्डपुराणे अपि ललितोपाख्याने → पापानामधिकं पापं हननं जीवजातीनाम् - (ब्र.पु.३।४।७।५-१ पृष्ठ-१७१) इति ।।
प्रकारान्तरेण वा स्व-स्वयोग्यता-साधनाद्यनुसारेण सर्वेषामेव वर्णानां क्षत्रियादीनां स्वभूमिकोचितविहितोद्यम-पराक्रम-त्राणादिरूपेण यज्ञाः सम्भवन्ति । एतेन → आरम्भयज्ञाः क्षत्राश्च हविर्यज्ञा विशः स्मृताः । परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजास्तथा ।। 6 (म.भा.शांतिपर्व-२६७/१२) इति महाभारतवचनमपि व्याख्यातम् । मनुस्मृत्यनुसारेणापि (३/७०-७५) यज्ञः स्वाध्याय-तर्पणाऽतिथिसत्कारादिलक्षणः, महाभारतानुसारेण स्ववर्णाश्रमकर्तव्यपालनात्मकः, भगवद्गीतानुसारेण (२/४७) च निष्कामभावेन स्वस्वकर्माभिरतिस्वरूपो वक्ष्यमाणाऽपुनर्बन्धकाद्यपेक्षया यथातन्त्रमनुयोज्यः । → अहिंसा परमो यज्ञः 6 (म.भा.अनुशा.११६/२९) इति महाभारतवचनमप्यत्रानुसन्धेयम् ।
किञ्च मांसभक्षणाद्युद्देशेन मृगादिवधे यत् प्रायश्चित्तं गौतमीयधर्मसूत्रे → क्रव्यादांश्च मृगान् हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान् वत्सतरीमुष्टं हत्वा तु कृष्णगाम् ।। - (गौ.ध.सू.२/१), वशिष्ठधर्मशास्त्रे → गाञ्चेद् हन्यात् तस्याश्चर्मणाऽऽट्रैण परिवेष्टितः षण्मासान् कृच्छ्रे तप्तकृच्छ्रे वा तिष्ठेत् 6 (व.ध.शा.१८), संवर्तस्मृतौ → टिट्टिभं जालपादञ्च कोकिलं कुक्कुटं तथा । एषां वधे नरः कुर्यादेकरात्रमभोजनम् ।। - (सं.स्मृ.१४८), पराशरस्मृतौ च → बलाका-टिट्टिभानाञ्च शुक-पाराજ હેતુ બનાવવામાં આવે તો જો કે વિશેષ્યઅંશવ્યર્થતાનો દોષ નહિ આવે, કારણ કે “ભૂતપ્રવૃત્તિવિષયત્વ સ્વરૂપ વ્યર્થ વિશેષ્ય જ કાઢી નાંખેલ છે. પણ ફલતઃ = પરિણામે પક્ષતાઅવચ્છેદક અને હેતુ એક થઈ જવાની આપત્તિ આવશે. આશય એ છે કે પ્રસ્તુતમાં અનુમાનપ્રયોગ એવો થશે કે વિહિતમાંસભક્ષણ નિર્દોષ છે, કારણ કે તે વિહિત છે. અન્ય વિહિત પ્રવૃત્તિની જેમ. અહીં પક્ષતાનું અવચ્છેદક વિહિતત્વ છે અને હેતુ પણ વિહિતત્વ છે. આમ અનુમિતિરૂપ ફલની અપેક્ષાએ ઉપરોક્ત બાબત દોષરૂપે અનિવાર્ય હોવાથી માત્ર વિહિતત્વને હેતુ બનાવી શકાય નહિ. (મતલબ કે જેમ “પર્વતો વદ્વિમાન પર્વતત્વાત' આવો અનુમાનપ્રયોગ જેમ થઈ શકતો नथी, तभ 'विहितमांसभक्षणं निर्दोषं, विहितत्वात्' मावो अनुमानप्रयो॥ ५९॥ २६ शत नथी. ॥२९॥ ન્યાયપરિભાષામુજબ હેતુ સપક્ષ-વિપક્ષવ્યાવૃત્ત હોવાથી અસાધારણદોષથી ગ્રસ્ત બને છે)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org