SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ • प्रोक्षितपलादनप्रतिपादनम् वैदिकमन्त्राऽभ्युक्षितं भक्षयेत् = प्रोक्षितमिति । प्रोक्षितं पिशितं अश्नीयाद् मांसं ब्राह्मणानां च काम्यया' = इच्छया = द्विजभुक्तावशेषं प्रति तदनुज्ञया विधिः न्यायो यत्र यागश्राद्ध-प्राघूर्णकादौ प्रक्रिया तस्याऽनतिक्रमेण यथाविधि । तत्र यागविधिः 'पशुमेधाऽश्वमेधादिशास्त्रसिद्धः । श्राद्धविधिस्तु 'द्वौ मासौ मत्स्यमांसेन' (मनु. ३/२६८) इत्यादिप्रसिद्धः । वल्यां→ प्रोक्षितं भक्षयेदिति परिसङ्ख्या वा स्यान्नियमविधिर्वा स्यात्तत्र परिसङ्ख्यात्वे 'प्रोक्षितादन्यन्न भक्षणीयमि'ति वाक्यार्थः स्यात् । स चानुपाकृतमांसानीत्यनेनैव निषेधात् प्राप्तस्तस्मान्मन्त्रकृतप्रोक्षणाख्यसंस्कारयुक्तयज्ञहुतपशुमांसभक्षणमिदं यज्ञाङ्गं विधीयते । अत एवाऽसंस्कृतान्पशून्मन्त्रैरित्यस्यानुवादं वक्ष्यति । ब्राह्मणानां च यदा कामना भवति तदावश्यं मांसं भोक्तव्यमिति तदा ( ? द ) पि नियमत एकवारं भक्षयेत्, ‘सकृद् ब्राह्मणकाम्यये ति ( ) यमवचनात् । तथा श्राद्धे च मधुपर्के च ' समांसो मधुपर्क' ( ) इति गुह्यवचनान्नियुक्तेन नियमान्मांस भक्षणीयमिति । अत एव नियुक्तस्तु यथान्यायमित्यक्रमदोषं वक्ष्यति। प्राणात्यये चाहारान्तराभावनिमित्तके व्याधिहेतुके वा नियमतो मांसं भक्षयेत् ← ( म. स्मृ. ५/ २७ म.मु.) इत्युक्तम् । तदुक्तं कूर्मपुराणे अपि प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया । यथाविधि नियुक्तं च प्राणानामपि चाऽत्यये ।। ← ( कू.पु. उपरि १७/३९) इति । = श्रीजिनेश्वरसूरिभिस्तु प्रकृतकारिकाव्याख्याने अष्टकप्रकरणवृत्तौ प्रोक्षितं वैदिकमन्त्राभ्युक्षितं भक्षयेत् अश्नीयात् मांसं पिशितं ब्राह्मणानां = द्विजानां, 'चशब्दो' विशेषणसमुच्चये, काम्यया इच्छया, द्विजभुक्तावशेषं प्रति तदनुज्ञया, 'विधि' ययः, या यत्र याग - श्राद्ध - प्राघूर्णकादौ प्रक्रिया तस्याSनतिक्रमेण यथाविधि । तत्र यागविधिः पशुमेधाश्वमेधादिविधायकशास्त्रविहितः । श्राद्धविधिस्तु मांसविशेषापेक्षोऽयम् “औरभ्रेणेह चतुरः, शाकुनेन तु पञ्च वै ।। षण्मासांश्छागमांसेन, पार्षतीयेन सप्त वै । अष्टावेणस्य मांसेन, शौकरेण नवैव तु ।। दश मासांस्तु तृप्यन्ति, वराह - महिषामिषैः । कूर्मशशकमांसेन, मासानेकादशैव तु ।। संवत्सरं तु तृप्यन्ति, पयसा पायसेन तु । ” ( मनुस्मृति ३ / २६८-७१) प्राघूर्णकविधिस्तु याज्ञवल्क्योक्तोऽयं, “ महोक्षं वा महाजं वा, श्रोत्रियाय प्रकल्पयेत्,” (याज्ञवल्क्यस्मृति-१/१७९) इति । तथा नियुक्तस्तु = गुरुभिर्व्यापारित एव नियुक्तशब्दस्य वा यथाविधीि विशेषणम्, तुशब्द एवकारार्थः । तथा प्राणानामेव इन्द्रियादीनामेव, न तु द्रव्यादीनाम्, 'का' शब्दः पक्षान्तरद्योतकः, अत्यये = विनाशे, उपस्थिते इति शेषः, मांसं भक्षयेदित्यनुवर्तते, आत्मा हि रक्षणीयः, यदाह “ सर्वत्र एवात्मानं गोपयेत्, ” ( ) ← (अ.प्र.१८/५ वृ.) इत्थमुक्तम् । = श्राद्धविधिस्तु द्वौ मासौ मत्स्यमांसेने त्यादिप्रसिद्धः । तत्प्रसिद्धिश्च साम्प्रतं मनुस्मृती → द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ।। ટીકાર્થ :- વેદમાં જણાવેલા મંત્રોથી સંસ્કારિત થયેલું = પ્રોક્ષિત માંસ ખાવું જોઈએ. બ્રાહ્મણોએ ખાઈ લીધા પછી બચેલ પ્રોક્ષિત માંસને બ્રાહ્મણોની સંમતિથી વિધિમુજબ ખાવું. વિધિ શબ્દનો અર્થ છે યજ્ઞ, શ્રાદ્ધ, પ્રાથૂર્ણક વગેરેની પ્રક્રિયા સ્વરૂપ ન્યાય. તેમાં યજ્ઞની વિધિ તો પશુમેધ, અશ્વમેધ યજ્ઞ વગેરે શાસ્ત્રમાં પ્રસિદ્ધ છે. શ્રાદ્ધવિધિ તો ‘બે માસ સુધી માછલીના માંસથી પિતરોને તૃપ્તિ થાય છે.... ઈત્યાદિરૂપે મનુસ્મૃતિ (૩/૨૬૮) વગેરેમાં પ્રસિદ્ધ છે. .१. हस्तादर्शे 'काम्येच्छया' इत्यशुद्धः पाठः । २ हस्तादर्शे 'या' इति पाठः । ३. हस्तादर्शे 'पश्वश्व..' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org ४७६ = = = = = · द्वात्रिंशिका-७/१३ = =
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy