________________
• वैधाऽवैधपलाऽदनपरामर्शः •
४७७
प्राघूर्णकविधिस्तु याज्ञवल्क्योक्तोऽयं 'महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेदिति (या. स्मृ. अ.१ श्लोक-१७९) ।
तथा नियुक्तस्तु = गुरुभिर्व्यापारित एव तथा प्राणानामेव इन्द्रियादीनामेव चात्यये = विनाशे' उपस्थिते इति शेषः, आत्मा हि रक्षणीयः । यदाह 'सर्वत्र एवात्मानं गोपयेत्' ( ) इति ।। १३ ।। नैतन्निवृत्त्ययोगेन तस्याः प्राप्तिनियन्त्रणात् । प्राप्ते तस्याः निषेधेन यत एतदुदाहृतम् ।। १४ । षण्मासांश्छागमांसेन पार्षतेन च सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ।। दशमासांस्तु तृप्यन्ति वराह - महिषामिषैः । शश- कूर्मयोस्तु मांसेन मासानेकादशैव तु ।। संवत्सरं तु गव्येन पयसा पायसेन च । वार्षीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी । ← (म.स्मृ.३/२६८-२६९-२७०-२७१) इत्थमवगन्तव्या । प्राघूर्णकविधिस्तु याज्ञवल्क्योक्तोऽयं 'महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेदिति । साम्प्रतमुपलभ्यमानायां याज्ञवल्क्यस्मृतौ 'सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ।। ← ( या. व. स्मृ. आचारप्रकरणे-गृहस्थधर्मप्रकरण- १७९) इति कारिकोत्तरार्द्धः । इन्द्रियादीनामेव च विनाशे समुपस्थिते । तदुक्तं बृहत्पराशरस्मृती' भक्ष्यं प्राणात्यये मांसं श्राद्धयज्ञोत्सवेष्वपि ' ← (बृ.परा. ६/३२३) इति । तदुक्तं मनुस्मृती महाभारते च आत्मानं सततं रक्षेत् ← (मनु. ७/२१२, म.भा.आदिपर्व-१५७/२७, म.भा. उद्योग. ३७/१८ ) इति । प्रकृते आत्मनि रक्षिते सर्वं रक्षितं भवति ← (चा. सू. ८४ ) इति चाणक्यसूत्रमपि स्मर्तव्यम् । तदुक्तं बार्हस्पत्यसूत्रे अपि शरीरं सर्वदा रक्षेच्च ← (बा.सू.१/९३) इति । 'न हिंस्यात् सर्वभूतानि' (छांदो.अ.८, कू.पु.२/१६/१, प.पु.१/५५/१, म.भा.शांति.२८४/६) इति छान्दोग्योपनिषत्-कूर्मपुराण- पद्मपुराण-महाभारतदर्शितः तु उत्सर्गः दुर्बलत्वाद् बाध्यतेऽत्र, ‘अपवादैरुत्सर्गा बाध्यन्त' इति न्यायादिति भावः ।
'प्रोक्षितं भक्षयेदिति मनुस्मृतिवचनान्यथानुपपत्त्या शास्त्रबाह्यमांसभक्षणं प्रतीत्य जन्मलक्षणो दोषः 'मां स भक्षयिता' इति मनुस्मृतिवचनादवगन्तव्यो न तु वैधाऽवैधमांसभक्षणमाश्रित्येति । इत्थमेव “ नाSद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः । जग्ध्वा ह्यविधिना मांसं प्रेत्य तैरद्यतेऽवशः || ” ( म. स्मृ. ५/३३) इति मनुस्मृतिवचनसङ्गतेरिति । कृत्वा च विधिवच्छ्राद्धं पश्चात्तत्स्वयमश्नुते । नाद्यादविधिना मांसं मृत्युकालेऽपि धर्मवित् ।। ← (बृ.परा. ६ / ३२४ ) इति बृहत्पराशरस्मृतिवचनाच्छास्त्रबाह्यપ્રાપૂર્ણકવિધિ તો યાજ્ઞવલ્ક્યસ્મૃતિમાં આ મુજબ જણાવેલ છે કે ‘મોટા બળદ અથવા મોટા બકરાને શ્રોત્રિય બ્રાહ્મણ માટે રાંધવો' તથા ગુરુઓ વડે આદેશ કરાયેલ વ્યક્તિએ જ તે ખાવું. તથા ઈન્દ્રિય વગેરે પ્રાણોનો જ વિનાશ જો ઉપસ્થિત થયો હોય તો માંસ ખાવું. કારણ કે ‘સર્વ પ્રકારે આત્માની રક્ષા કરવી' આ શાસ્ત્રોક્તિથી જણાય છે કે આત્મા ખરેખર રક્ષા કરવા લાયક જ છે. (૭/૧૩)
વિશેષાર્થ :- ઉપરોક્ત શાસ્રવચનો દ્વારા માંસભક્ષણનું વિધાન થાય છે. માટે એવું ફલિત થાય છે } वेदशास्त्रसंस्डारयुक्त भांसलक्षानुं विधान 'न मांसभक्षणे दोषः' द्वारा थाय छे. तथा 'मां स भक्षयिता' ઈત્યાદિ દ્વારા અશાસ્ત્રીય માંસભક્ષણનો નિષેધ થાય છે. (૭/૧૩) હવે ગ્રંથકારશ્રી જવાબ આપે છે. * પૂર્વપક્ષીના તાત્પર્યમાં અસંગતિનું પ્રદર્શન #
ગાથાર્થ :- આ વાત બરાબર નથી. કેમ કે તે રીતે માંસભક્ષણની નિવૃત્તિ અસંભવ છે. આનું કારણ १. हस्तादर्शे ' ..शयेप..' इत्यशुद्धः पाठः । २. हस्तादर्शे 'गोपाये' इति पाठ: । ३. हस्तादर्शे 'प्राप्तायास्य' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org