________________
• सामानाधिकरण्येनान्वयतात्पर्यविमर्शः •
४७१
निषेध इति । ननु शास्त्रबाह्ये मांसभक्षणे निषेधोऽस्तु, निरुक्तबलप्राप्तनिषेधे' विध्यर्थोऽन्वेतु, विधिश्च शास्त्रीयगोचरः वचनोक्तमांसभक्षणविषयोऽस्तु ।
=
एवं विशेषतात्पर्याद् विधि - निषेधवाक्यार्थयोर्विधेय-निषेध्ययोः सामानाधिकरण्येनाऽन्वये तात्पर्याद् न दोषः = 'न मांसभक्षणे दोष' (मनु. ५/५६) इत्यत्र मांसभक्षणसामान्ये दोषाऽभावबाधलक्षणः । → ‘मांस भक्षयिता..' ← (मनु. ५/५५ ) इति वचनस्य पश्चादुक्ताद् न मांसभक्षणे दोषः ' ← (मनु.५/५६) इति वचनाद् दुर्बलत्वेन मांस भक्षयिता' ← (मनु. ५/ ५५ ) इति वचनस्यार्थे सङ्क्षेपकरणात् शास्त्रबाह्ये = वेदशास्त्राऽविहिते मांसभक्षणे निषेधोऽस्तु । अस्यैवार्थमाह - निरुक्तबलप्राप्तनिषेधे = 'मां स भक्षयिताऽमुत्र' (म.स्मृ. ५/५५) इति मनुस्मृतिदर्शितमांसशब्दनिरुक्तितः तात्पर्यबलेन प्राप्ते शास्त्रबाह्यमांसभक्षणप्रतियोगिकनिषेधे विध्यर्थः बलवदनिष्टाननुबन्धीष्टसाधनत्वादिलक्षणो विधिप्रत्ययार्थः अन्वेतु ।
ननु 'न मांसभक्षणे दोष:' इति विधिवाक्येन मांसभक्षणं विधीयते 'मां स भक्षयिता' इति निषेधवाक्येन च मांसभक्षणं निषिध्यत इत्येकमेव मांसभक्षणं विहितं निषिद्धञ्चेति विधेय-निषेध्ययोः मांसभक्षणत्वावच्छेदेनान्वये कक्षीक्रियमाणे 'न मांसभक्षणे दोष:' इति वचनं बाधितं स्यात्, तदभावप्रकारकनिश्चयस्य तत्प्रकारकज्ञानं प्रति प्रतिबन्धकत्वादिति चेत् ? न, वैधमांसभक्षण एव विध्यर्थान्वयस्येष्टत्वादित्याशयेन पूर्वपक्षी प्राह - विधिश्च शास्त्रीयगोचरः = 'प्रोक्षितं भक्षयेन्मांसमिति (म.स्मृ.५/२७) वक्ष्यमाणमनुस्मृतिवचनोक्तमांसभक्षणविषयोऽस्तु ।
मनुमांसत्वसामानाधि
एवं 'वैधमांसभक्षणं निर्दोषतयाऽभिमतमवैधमांसभक्षणञ्च दुष्टमिति विशेषतात्पर्यात् स्मृतिवचनतात्पर्यविशेषोन्नयनात् विधेय-निषेध्ययोः मांसभक्षणयोः सामानाधिकरण्येन मांसैकदेशेन अन्वये तात्पर्यात् = मनुतात्पर्याभ्युपगमात् 'न मांसभक्षणे दोषः ' इत्यत्र मांसभक्षणत्वलक्षणधर्मितावच्छेदकविनिर्मोकेण मांसभक्षणसामान्ये दोषाभावबाधलक्षणः निर्दोषत्वबाधात्मको
करण्येन
=
=
=
=
=
Jain Education International
=
दोषः न = नैवास्ति । यथा 'वृक्षः कपिसंयोगी', 'वृक्षो न कपिसंयोगी 'ति वचनद्वयार्थयोः वृक्षत्वावच्छेदेनान्वयतात्पर्ये बाधदोषसत्त्वेऽपि शाखावच्छिन्नवृक्षे कपिसंयोगान्वयमभ्युपगम्य मूलावच्छिन्नवृक्षे कपिसंयोगाभावान्वयाभ्युपगमे बाधदोषो न विद्यते तथैवात्रापि 'अवैधमांसभक्षणे दोषः, वैधमांसभक्षणे न दोषः ' इत्यन्वयतात्पर्ये नैव बाधसम्भवः 1
=
* પૂર્વપક્ષના
અભિપ્રાયથી વિરોધપરિહાર.
टीडार्थ :- शास्त्रजाय मांसभक्षाने उद्देशाने निषेध थाव. अर्थात् 'मां स भक्षयिता...' त्याहि માંસશબ્દની નિરુક્તિના બળથી અશાસ્ત્રીયમાંસભક્ષણનો નિષેધ પ્રાપ્ત થાય છે. તેમાં વિધ્યર્થનો વિધિપ્રત્યયના અર્થનો = બલવદ્ અનિષ્ટ અનનુબંધી ઈષ્ટસાધનતાનો અન્વય થાવ. મતલબ કે શાસ્ત્રબાહ્ય માંસભક્ષણની નિવૃત્તિ ઉપરોક્ત ઈષ્ટસાધનતાથી સંપન્ન છે - એવો નિષેધવાક્યનો અર્થ થાય છે. તથા 'न मांसभक्षणे दोष:' इत्याहि द्वारा ४ विधान थाय छे तेनो विषयभां शास्त्रोक्त मांसभक्षण भानो. આ રીતે વિધિવાક્યના અર્થનો અને નિષેધવાક્યના અર્થનો ક્રમશઃ વિધેયમાં અને નિષેધ્યમાં સામાનાધિકરણ્યથી એકદેશથી અન્વય કરવામાં શાસ્ત્રકારોનું તાત્પર્ય માનવાથી કોઈ દોષ નહિ આવે.
१. हस्तादर्शे 'निषेधवि' इति पाठः ।
=
For Private & Personal Use Only
www.jainelibrary.org