________________
४६८
लङ्कावतारसूत्र-कामसूत्रादितोऽपि मांसाऽभक्ष्यतासिद्धिः •• द्वात्रिंशिका - ७/८
त्' (अष्टकवृत्ति-१७/८ उद्धृत) इत्यादिग्रन्थेन च वोऽपि = युष्माकमपि लङ्कावतारसूत्रादौ तद् = मांसभक्षणं वारितं निषिद्धमादिना शीलपटलादिशास्त्रपरिग्रहः, इत्येतद् वृथोदितं परेण ||८|| अधिकृतार्थ एव वाद्यन्तरमतनिरासायोपक्रमते
मांसभक्ष्यत्वं'
इत्थमनेकान्तवादिनामस्माकं मते मांसभक्षणमुत्सर्गतो दुष्टमेवेत्युपदर्थ्याऽधुना ' म्लेच्छस्य हि म्लेच्छभाषयैव म्लेच्छद्वारैव वोत्तरं देयमिति न्यायेन सौगतमतानुसारेणाऽपि मांसभक्षणस्य दुष्टत्वमाविष्कर्तुमुपक्रमते 'नेति । शेषचूर्णमिति । 'शङ्खचूर्णमिति पाठान्तरम् । लङ्कावतारसूत्रे ऽष्टमाध्याये बहूनि मांसभक्षणनिषेधपराणि सूत्राण्युपलभ्यन्ते । तथाहि सर्वभूतात्मभूतायागन्तुकामेन सर्वजन्तुप्राणिभूतसम्भूतं मांसं कथमिव भक्ष्यं सम्बुद्धधर्मकामेन बोधिसत्त्वेन महासत्त्वेन ← (लं. ८/१); खरोष्ट्राश्वबलीवर्दमानुषमांसादीनि हि महामते ! लोकस्याऽभक्ष्याणि मांसानि ← (लं. ८/२); शुक्रशोणितसम्भवादपि शुचिकामतामुपादाय बोधिसत्त्वस्य मांसमभक्ष्यम् ← (लं.८/३); “अनार्यजनजुष्टं दुर्गन्धकीर्त्तिकरत्वादपि महामते ! आर्यजनविवर्जितत्वात्तु मांसमभक्ष्यम्” (लं. ८/५ ) “ शुचिकामस्य योगिनः सर्वं मांसमभक्ष्यम्” (लं.८/७); “महामते ! स्व- परात्महितकामस्य मांसं सर्वमभक्ष्यम्” (लं. ८/८); “पुत्रमांसभैषज्यवदाहारं देशयंश्चाहं महामते ! कथमिवाऽनार्यजनसेवितमार्यजनविवर्जितमेवमनेकदोषावहमनेकगुणविवर्जितमनृषिभोजनप्रणीतमकल्प्यं मांसरुधिराहारं शिष्येभ्योऽनुज्ञापयामि ?” (लं. ८/९); " न च महामते ! अकृतमकारितमसङ्कल्पितं नाम मांसं कल्प्यमस्ति” (लं. ८/१० ); "महामते ! मम श्रावकाः प्रत्येकबुद्धाः बोधिसत्त्वाश्च नामिषाहाराः प्रागेव तथागताः ” (लं. ८/११); “ मांसानि च पलाण्डुश्च मद्यानि विविधानि च। गृञ्जनं लशुनं चैव योगी नित्यं विवर्जयेत् ।। ” ← (लं. ८/११-५) इति । तदुक्तं धम्मपदेऽपि सूत्रपिटकान्तर्गते → सुखकामानि भूतानि यो दण्डेन विहिंसति । अत्तनो सुखमेसानो पेच्च सो न लभते सुखं ।। ← (ध.प.१० / ३) इति । ततश्च मांसभक्षणनिर्दोषतासाधनं बौद्धानां घट्टकुटीप्रभातन्यायमनुपतति। इत्थञ्च बौद्धशास्त्रसिद्धव्यवस्थातोऽपि मांसादिभक्षणस्य निषेध्यताऽनाविलैवेति द्यम् । दुक्तं वात्स्यायनेनापि कामसूत्रे लौकिकत्वाद् दृष्टार्थत्वाच्च मांसभक्षणादिभ्यः शास्त्रादेव निवारणं धर्मः ← (का. सू. २/७ ) इति । मज्झिमनिकायेऽपि
•
=
=
न मच्छं, न मांसं न सुरं, न मेरयं, न थुसोदकं पिवामि सो एकागारिको वा होमि ← (म.नि. महासिंहनादसूत्र -१/२/२/१५५, पृ. १११ ) इत्युक्तमिति प्राण्यङ्गत्वहेतुकमांसभक्ष्यत्वसाधकानुमानं 'स्वशस्त्रं स्ववधाये 'ति न्यायेन बौद्धस्याऽपसिद्धान्त - बाधादिदोषापादकमिति मांसभक्ष्यत्वं वृथोदितं परेण सौगतेन । 'मांसभक्षणं वृथोदितं' इति पाठान्तरस्यापि समचीनत्वमवसेयम् ।।७ / ८ ।। વચન દ્વારા તમારા બૌદ્ધ લોકોના લંકાવતાર સૂત્ર, શીલપટલ વગેરે શાસ્ત્રમાં માંસભક્ષણનો નિષેધ કરેલ છે.માટે પૂર્વોક્ત અનુમાનપ્રયોગ દ્વારા બૌદ્ધ વિદ્વાને માંસને ભક્ષ્ય જણાવ્યું તે ફોગટ જાણવું.(૭/૮)
વિશેષાર્થ :- બૌદ્ધ લોકોના લંકાવતાર સૂત્ર, શીલપટલ, વિનયપિટક, મર્ઝિમનિકાય વગેરે ગ્રંથોમાં માંસભક્ષણ વગેરેનો નિષેધ કરેલ છે. માટે તાર્કિક બૌદ્ધ વિદ્વાનોએ પૂર્વે અનુમાનપ્રયોગ દ્વારા માંસને ખાવા લાયક ઠરાવવાનો પ્રયાસ કર્યો તે અપસિદ્ધાંત વગેરે દોષથી ગ્રસ્ત છે. (૭/૮)
આ રીતે બૌદ્ધમતનું નિરાકરણ કરીને ગ્રન્થકારશ્રી માંસભક્ષણ અંગે જ અન્ય વાદીના મતનું
=
१. हस्तादर्शे 'मांसभक्षणं' इति पाठान्तरम् । २ मुद्रितप्रतौ 'वृथोपितं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org