SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ • प्रयोगविशेषबलात्तीर्थकृतो मांसभक्षकत्वाऽसम्भवः • ४६७ ‘न प्राण्यङ्गसमुत्थं' चेत्यादिना वोऽपि वारितम् । लङ्काऽवतारसूत्रादौ तदित्येतद्वृथोदितम् ||८|| नेति । 'न प्राण्यङ्गसमुत्थ' मित्यादिना च = 'न प्राण्यङ्गसमुत्थं मोहादपि शेषचूर्णमश्नीया← ( वा.प.२/३१७-३१८) इति । किञ्च प्रायः प्रशस्तभोजनप्रकरणे 'उवक्खडिया' इत्यादिप्रयोगो दृश्यते । तदुक्तं व्याख्याप्रज्ञप्ती → विउले असणे पाणे खाइमे साइमे उवक्खडाविए... ← ( व्या. प्र. १२/१/५३१ ) इत्यादि । मांसाद्यप्रशस्तभोजनप्रकरणे तु ‘भज्जिए तलिए' इत्यादिशब्दप्रयोग उपासकदशाङ्ग - विपाकसूत्रादौ समुपलभ्यते । तदुक्तं उपासकदशाङ्गे महाशतकाधिकारे बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भज्ज य... ← (उपा. अध्य.८/ सू.५० ) इति । यथोक्तं विपाकसूत्रे अपि वसभाण य ऊहेहि य थहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कन्नेहि य अच्छिहि य नासाहि य जिभाहि य उहि य कंबलेहि य सोल्लेहि य तलिएहि य भज्जिएहि य... ← (वि. सू. श्रुतस्कं. १ / अ. २/ सू. १३) इत्यादि । अत एव तेजोलेश्योपसर्गोत्तरकालीनौषधोपयोगप्रकरणे कपोतशरीरादिपदेन कुष्माण्डपाकप्रभृतिग्रहणं सङ्गच्छतेतराम् । किञ्चैकरात्रिमात्रपर्युषितपक्वभोजनदर्शनार्थं प्रायः 'पज्जुसिए' पदं प्रयुज्यते न तु 'परियासिए' इति पदम्। नानारात्रिपर्युषितमांसस्य तु रोगादिवृद्धिकारित्वेन तादृशपित्तज्वराद्युपशामकत्वाऽसम्भवात् चरमतीर्थकृताऽनुपादेयतैव प्रसज्येत । किञ्च व्याख्याप्रज्ञप्तौ अष्टमे शतके पञ्चमोद्देशके 'आजीवकैरपि मांस-मद्यपान- कन्दमूलादीनामभक्ष्यत्वाऽपेयत्वाऽग्राह्यत्वाऽङ्गीकारेण निर्ग्रन्थश्रमणैस्तु सुतरां तत्परिहारः कार्य' इत्येवं स्वशिष्यादीन् प्रत्युपदिष्टवतः श्रीमहावीरस्य तीर्थकृतो मांसभक्षकत्वकल्पनमपि स्वप्नेऽपि नैव सङ्गच्छते । व्याख्याप्रज्ञप्तिपाठस्त्वेवम् → दुवालसमाजीवियवासगा अरिहंतदेवतागा अम्मापिउसुस्सूसगा पंचफलपडिक्कंता, तं जहा - उंबरेहिं, वडेहिं, बोरेहिं, सतरेहिं, पिलंखूहिं, पलंडु-ल्हसण - कंदमूलविवज्जागा अणिल्लंछिएहिं अणक्कभिन्नेहिं गोणेहिं तसपाणविवज्जिएहिं चित्तेहिं वित्तिं कप्पेमाणा विहरंति, एए वि ताव एवं इच्छंति, किमगं पुण जे इमे समणोवासगा भवंति जेसिं नो कप्पंति इमाई पन्नरस कम्मादाणाई सयं करेत्तए वा कारवेत्तए वा करेंतं वा अन्नं न समणुजाणेत्तए ← (व्या. प्र.श. ८ / उ. ५ ) इति । न हि केवलं जैनसाधवः किन्तु जैनश्रावका अपि मांस-मद्यादिकं परिहरन्ति; जीवसंसक्तत्वात् । तदुक्तं सम्बोधसप्ततिकायां → मज्जे महुंमि मंसंमि, नवणीयंमि चउत्थए । उप्पज्जंति अणंता, तव्वण्णा तत्थ जंतुणो ।। ← (सं. स. ६४) इति । अत एव देहाद्यतिरिक्तात्मसिद्धिकृते श्रावकादिभिः इहरहा हि मज्ज-मंसं परिहरामो उववासं करेमो णिरत्थयं चेव ← (सू.चू. पृष्ठ - ३१६ ) इत्येवं नास्तिकान् प्रत्युक्तमिति व्यक्तं सूत्रकृताङ्गचूर्णो दृढतरं भावनीयमेतत्तत्त्वमागमपरमार्थवेदिभिः ।।७ / ७ ।। આ બૌદ્ધમતે પણ માંસ અભક્ષ્ય 牵 ગાથાર્થ :– તમારા બૌદ્ધોના પણ લંકાવતારસૂત્ર વગેરેમાં ‘પ્રાણીના અંગમાંથી ઉત્પન્ન થયેલ માંસ ન ખાવું' આ રીતે નિષેધ કરેલ છે. માટે માંસભક્ષણનું વિધાન કરનારું અનુમાન તમે ફોગટ બતાવ્યું.(૭/૮) ટીકાર્થ :- ‘મોહના લીધે પણ પ્રાણીના અંગમાંથી ઉત્પન્ન થયેલ શંખચૂર્ણ-શેષચૂર્ણ ખાવું નહિ.’ આવા Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy