________________
४६६
• कुर्कुटपक्षिमांसादेर्दर्शनान्तरेऽप्यभक्ष्यता • द्वात्रिंशिका-७/७ भल्लातकस्य त्वग् = मांसं बृहणं स्वादु शीतलम् - (अ.सं.८/१६८) इत्येवं मांसपदार्थो दर्शित इत्यप्यवधेयम् । प्रकृते → उष्णवात-कफ-श्वास-कास-तृष्णा-वमिप्रणुत्, तस्य त्वक् कटु तिक्तोष्णा गुर्वी स्निग्धा च दुर्जरा ।। कृमि-श्लेष्माऽनिलहरं मांसं स्वादु हिमं गुरु । बृंहणं श्लेष्मलं स्निग्धं पित्त-मारुतनाशनम् ।।
6 (कै.नि.औषधिवर्ग-२५५/२५६) इति कैयदेवनिघण्टुवचनस्मरणमौषधिवर्गमनुसृत्य कर्तव्यं विज्ञैः ।
ननु → कवोयसरीरा - (भ.श.१५/५५८/पृ.६८६) इति भगवतीसूत्रोक्तौ शरीरपदोपादानेन कपोतपदस्य पञ्चेन्द्रियप्राणिवाचकत्वमेव सिध्यति, न तु वनस्पतिफलवाचकत्वमिति चेत् ? न, शरीरपदस्यैकेन्द्रियादावपि प्रयोगदर्शनात् । तदुक्तं सूत्रकृताङ्गे → पुढवीसरीरं, आउसरीरं, तेउसरीरं, वाउसरीरं, वणस्सईसरीरं - (सू.कृ.२/३/३६) इति ।
'दुवे कवोयसरीरा, अन्ने' (भ.सू.१५/५५७ पृ.६८६) इत्येवं पुल्लिङ्गप्रयोगदर्शनेन तादृशफलविशेषपाक एव तत्र ग्राह्यः । पक्षिशरीरनिर्देशे तु 'दोण्णि कवोयसरीराणि, अन्नाणि' इत्येवं नपुंसकलिङ्गनिर्देशः स्यात् । किञ्च विपाकसूत्रादौ मांसाहारवर्णनप्रसङ्गे शरीरपदप्रयोगो न दृश्यते । वनस्पतिकायवाचकत्वेनैव कायस्थाने शरीरपदनिवेशनमपि सङ्गच्छते ।
किञ्च जैनप्रवचने प्राणिवाचकपदोत्तरं शरीरपदप्रयोगो न दृश्यते किन्तु वनस्पति-तत्फलादिवाचकपदोत्तरमेव, यथा सूर्यप्रज्ञप्ती नक्षत्रभोजनप्रकरणे → पुव्वाहिं आसाढाहिं आमलगसरीरे भोच्चा कज्जं साधेति (सू.प्र.नक्ष. ८/१८) इति । न च सूर्यप्रज्ञप्तौ → रोहिणीहिं ससमंसं भोच्चा कज्जं साधेति, संठाणाहिं मिगमंसं भोच्चा कज्जं साधिंति... - (सू.प्र.नक्ष.८/२-३) इत्यादिना मांसाहारविधानमुपलभ्यत इति तस्य भक्ष्यताऽनाविलैवेति शङ्कनीयम्, यतः शशमांसपदेन लोध्रनिर्मितपक्वान्नं, मृगमांसपदेन च मृगनाभिमलभिलितपक्वान्नमभिमतमित्यादिकं व्यक्तमुक्तं कल्याणविजयगणिना मानवभोज्यमीमांसायाम् (मा.भो.मी. अध्याय-३/पृ.१६३) ।
किञ्च कुर्कुटपक्षिमांसं तु दर्शनान्तरेऽपि अभक्ष्यतया व्यवस्थापितं किमुत स्वदर्शने । तदुक्तं उज्ज्वलाभिधानायां आपस्तम्बीयधर्मसूत्रवृत्ती → पादाभ्यां विकीर्य कीटधान्यादि ये भक्षयन्ति ते मयूरादयो विकिराः, तेषां मध्ये कुक्कुटो न भक्ष्यः - (आ.ध.सू.१/१७/३२ वृ.) इति । गौतमीयधर्मसूत्रे अप्येवमेव तदभक्ष्यत्वं सम्मतम् । किञ्च मार्जारपशुनाऽऽघ्रातमन्नमप्यभोज्यं किमुत तदाहतकुर्कुटपक्षिमांसम् । तदुक्तं → मनुष्यैरन्यैर्वा मार्जारादिभिरवघ्रातमन्नमभोज्यम् (आपस्तम्बीय.ध.सू.१/१७/५) इति । इत्थमन्यपदसंसर्गप्रकरणादिनैवाऽनभिप्रेताऽनिष्टार्थव्यवच्छेदेन सुनिश्चितार्थग्रहणमभिमतं वैयाकरणादीनामपि । तदुक्तं वाक्यपदीये→ संसों विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्याऽन्यस्य सन्निधिः ।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।। વિધાન નથી કરતું, પણ પાણી ગાળવાનું વિધાન કરે છે, તેમ ઉપરોક્ત વાત જાણવી.
તથા (૭) ગ્લાન વગેરેના કાર્ય માટે જ માંસગ્રહણ વગેરે વાત અપવાદપદે જણાવેલ છે. આ હકીકત પણ એમ સૂચવે છે કે માંસભક્ષણ સદોષ જ છે. માટે ઉપરોક્ત આપવાદિક સૂત્રો અને માંસની समक्ष्यत। - मा पथ्ये शो ४ विरो५ भावतो नथी. (७/७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org