________________
४६४
• कुर्कुट-मार्जारादिपदानां वनस्पतिविशेषवाचकता • द्वात्रिंशिका-७/७ कपोतवल्ली = सूक्ष्मैला ८ (द्र. को.पृ.३९) इति द्रव्यगुणकोशवचनमप्यत्रावधेयम् ।
भावप्रकाशनिघण्टौ भावमिश्रेण हरितक्यादिवर्गे अस्थिमती-गजपिष्पली-मत्स्यशकलाऽश्वगन्धा-पारापतपदी-कापोतादीनां, कर्पूरादिवर्गे कुक्कुट-कपोतचरणादीनां, गडूच्यादिवर्गे सिंहिका-मर्कटी-मांसरोहिणीकन्या-पारापत-मत्स्याक्षी-गोजिह्वादीनां, फलवर्गे गोस्तन्यादीनां, वटादिवर्गे अश्वकर्णाऽजकर्ण-कच्छपादीनां शाकवर्गे च शकरी-कुर्कुटक-शिख्यादीनां शब्दानां वनस्पत्यौषधि-पुष्प-फल-शाकादिवाचकत्वमावेदितम् ।
जीवाजीवाभिगमे अपि → अस्सकण्णी-सीहकण्णी-सीऊंढि-मुसुंढि 6 (जीवा.१/सू.२१ पृ.२७) इत्यादिरूपेणाऽश्वकर्पोदीनां पदानां 'अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी'ति न्यायेन वनस्पतिविशेषवाचकत्वमावेदितम् । वैद्यकशब्दसिन्धु- (पृ.८६)सुश्रुतनिदानस्थान- (अ.१५/पृ.१७४)भावप्रकाशनिघण्टु(वटादिवर्ग पृ.५२०)प्रभृतावपि तथैव तत्प्रसिद्धेः । मार्जार-विरालिका-विडालिका-बिडालिकादिपदानां वनस्पतिविशेषवाचकत्वं दशवैकालिकवृत्तौ (द.वै.५।३।१८), आचाराङ्गसूत्रवृत्तौ (आ.सू.४५/पृ.३४८), प्रज्ञापनासूत्रवृत्तौ (प्र.सू.वल्लीपद-१/गा.४४), शब्दार्थचिन्तामणिकोशे (श.चि.को.पृ.-६०१) हेमचन्द्रसूरिकृतनिघण्टुशेषे (गा.३२,३६,६७, १३९,१४०) वैद्यकशब्दसिन्धौ (वै.श.सि.पृ.८१७) च प्रसिद्धमेव । पारावतपदीपदस्य प्रचीबला-मालकङ्गन्यादिवाचकत्वं धन्वन्तरिनिघण्टौ (४/२० पृ.१८६) बृहनिघण्टुरत्नाकरे (अनेकार्थनामवर्ग-पृष्ठ-७५२) च दृश्यते । तस्याः पित्तादिशामकत्वं भावप्रकाशनिघण्टौ (गुडूच्यादिवर्गे पृ.४४१) प्रसिद्धमेव ।
कुर्कुट-कुक्कुट-कुर्कुटी-कुक्कुटी-मधुकुक्कुटीपदानां वनस्पतिविशेषवाचकत्वं भगवतीसूत्रवृत्तौ (भ.सू. १५/५५८) कलिकालसर्वज्ञोपज्ञ-निघण्टुसङ्ग्रहे, निघण्टुरत्नाकरे (नि.रत्ना.जै.स.प्र.क.४३), वैद्यकबृहन्निघण्टौ कौटिल्यार्थ-शास्त्रे (१४/३/१४८-भेषजयोग) निघण्टुशेषे (नि.शे.६७) वैद्यकशब्दसिन्धौ च प्रसिद्धम्। प्रकृते मार्जारपदेन अगस्त्यवृक्षग्रहणमपि युज्यत एव, तस्य पित्तादिनाशकत्वात् । तदुक्तं मदनपालनिघण्टौ → अगस्त्यः पित्त-कफजिच्चातुर्थिकहरो हिमः । तत् पयःपीनसश्लेष्मा पित्तनाक्त्याऽऽन्ध्यनाशनम् ।। 6 (मद.नि. ५/७१) इति । मार्जारपदवाच्यस्य अगस्त्यस्य मुनि-वङ्ग-सेनकादयः पर्यायशब्दाः । त्रिदोषनाशकतया तद्ग्रहणमप्यत्र युज्यत एव। तदुक्तं शालिग्रामनिघण्टुभूषणे → मुनिशिम्बी सरा प्रोक्ता बुद्धिदा रुचिदा लघुः । पाककाले तु मधुरा तिक्ता चैव स्मृतिप्रदा ।। त्रिदोष-शूल-कफहृत् पाण्डुरोगविषापनुत् । श्लेष्म-गुल्म-हरा प्रोक्ता सा पक्वा रूक्षपित्तला ।। - (शा.नि.भू.पुष्पवर्ग-पृ.५२३) इति । आयुर्वेदीयकोशे मार्जारपदस्य चित्रकवनस्पतिवाचकत्वमपि दृश्यते । तद्ग्रहणमप्यत्र युज्यते, तस्याऽपि ज्वरनाशकत्वात् । तदुक्तं राजनिघण्टुकोशे → कालो व्यालः कालमूलोऽपि दीप्यो मार्जारोऽग्निदाहकः पावकश्च । चित्राङ्गोऽयं रक्तचित्रो महाङ्गः स्याददाहश्चित्रकोऽन्यगुणाढ्यः ।। 6 (रा.नि.वर्ग-६/४६ पृ.१४३) इति ध्येयम् । कुक्कुटपदेन सुनिषण्णो वृक्षोऽपि गृहीतुं युज्यतेऽत्र । तदुक्तं निघण्टुशेषे श्रीहेमचन्द्रसूरिभिः → सुनिषण्णे सूचिपत्रः स्वस्तिकः शिखिवारकः ।। (नि.शे.३५१) श्रीवारकः शितिवरो वितुन्नः कुक्कुटः शिखी - (नि.शे.३५२) इति । तदुक्तं भावप्रकाशनिघण्टौ शाकवर्गे → शितिवारः शितिवरः स्वस्तिकः सुनिषण्णकः । श्रीवारकः सूचिपत्रः पर्णकः
(૪) તેમ જ માંસ ભક્ષણ વગેરે અત્યંત દુષ્ટ હોવાથી જ તેને ગ્રહણ કરવામાં સાધુએ માયા કરવી પડે તેવી સંભાવના સૂત્રમાં બતાવેલ છે. જો રોટલી, દાળ, ભાત વગેરેનું જેટલી સહેલાઈથી ગ્રહણ થઈ શકે છે તેટલી સરળતાથી માંસગ્રહણ થઈ શકતું હોય તો તેના માટે માયા કરવી ન પડે. પણ માયા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org