________________
• धर्मानन्दमतप्रत्याख्यानम् •
४६३ एतेन प्रकृतभगवतीसूत्रप्रघट्टकमवलम्ब्य धर्मानन्देन श्रीमहावीरस्य मांसभक्षकत्वमावेदितं तन्निरस्तम्, उष्णवीर्ये रक्तपित्तजनके मांसे गोशालकप्रक्षिप्ततेजोलेश्याजनितदाह-पित्तज्वराद्युपशामकत्वाऽसम्भवात्, → स्निग्धमुष्णं गुरु रक्त-पित्तजनकं वातहरं च, सर्वं मांसं ( ) इति वचनात् । कपोतशरीरपदेन कुष्माण्डाभिधानवनस्पतिशरीरनिर्मितपाकविशेषग्रहणस्यैव न्याय्यत्वात्, तस्यैव तादृशदाहपित्तज्वराद्युपशामकत्वात्, → कुष्माण्डं शीतलं वृष्यं स्वादु पाकरसं गुरु । हृद्यं रुक्षं रसस्यन्दि श्लेष्मलं वात-पित्तजित् ।। कुष्माण्डशाकं गुरु सन्निपात-ज्वराऽऽमशोफाऽनिल-दाहहारि - (कैय.नि.) इति कैयदेवनिघण्टुवचनप्रामाण्यात्, → पित्तघ्नं तेषु कुष्माण्डं 6 (सु.सं.५६ फलवर्गे) इति सुश्रुतसंहितावचनप्रामाण्यात्, → कुष्माण्ड बृंहणं वृष्यं गुरु पित्तास्त्रं वातनुत् । बालं पित्तापहं शीतं मध्यमं कफकारकम् ।। - (भा.प्र.नि. शाकवर्ग-५४) इति भावप्रकाशनिघण्टुवचनप्रामाण्यात्, → मातुलिङ्गस्य वातजित् बृंहणं मधुरं मांसं वातपित्तहरम् + (अ.ह.६/१३२) इति अष्टाङ्गहृदयकारवृद्धवाग्भट्टवचनप्रामाण्याच्च । प्रकृते 'वर्णतद्वतोरभेद' इति न्यायेन कुष्माण्डफलस्य कपोतपदवाच्यता युज्यत एव, अन्यथा शब्दानामनेकार्थताऽनङ्गीकारे तु प्रयाणावसरे 'सैन्धवमानय' इत्युक्तो लवणमानयेत् ।
प्रकृते मांसशब्दस्य आचाराङ्ग-निशीथ-सूर्यप्रज्ञप्त्यादौ आमिषशब्दस्य च ललितविस्तरा-सम्बोधप्रकरण(१९०)-धर्मरत्नकरण्डकादौ घृतपक्वमिष्टान्नार्थवाचकत्वं प्रसिद्धमेव । अत्र च मांसपदं वनस्पतिफलकटाहपरमेवाऽवसेयं मार्जार-कुर्कुटकादिशब्दानां च वनस्पतिविशेषपरत्वम्, शब्दानामनेकार्थत्वात् । रक्तकुर्कुटकस्यौषधिविशेषवाचकत्वं शालिग्रामनिघण्टुभूषणे (पुष्पवर्ग-पृ.५१८), श्वेतकापोतिकापदस्य कृष्णसर्पाकारवनस्पतिवाचकत्वं कल्पद्रुमकोशे (क.५९१-२), कपोतशब्दस्य वनस्पतिविशेषवाचकत्वं सुश्रुतसंहितायां, कपोतिकाशब्दस्य श्वेतकुष्माण्डवाचकत्वं निघण्टुरत्नाकरे (नि.र.जै.सा.प्र.क्र.४३), पारावतपदस्य परुषकफलवाचकत्वं चरकसंहितायां (अध्याय-२६) वैद्यकशब्दसिन्धौ (पृ.६६१) कैयदेवनिघण्टौ (औषधिवर्ग पृ.७३) च, महापारावतपदस्य च कपोताण्डतुल्यफलविशेषवाचकत्वं अभिधानसङ्ग्रहनिघण्टौ (अ.सं.नि. १३९-१४०) प्रसिद्धमेव ।।
मार्जारपदस्य अगस्त्यवृक्षवाचकत्वं वैजयन्त्यां → अगस्त्य मुनि-मार्जारावगस्तिर्वङ्गसेनकः - (वैज.भूमिकाण्ड-वनअध्याय.१५६) इत्येवं, हिङ्गोटवृक्षवाचकत्वं च श्रीकलिकालसर्वज्ञोपज्ञे निघण्टुशेषे → इगुद्यां तापसतरुर्मार्जारः कष्टकीटकः - (नि.शे.७४) इत्येवं प्रसिद्धम्।
मार्जारपदस्य चित्रकवनस्पतिवाचकत्वं सोढलनिघण्टौ (१/३३८/३३६), रक्तचित्रकवनस्पतिवाचकत्वं राजनिघण्टौ (६/४६ पृ.१४३) वैद्यकशब्दसिन्धौ (पृ.८१७) च, पित्तज्वरनाशकवनस्पतिवाचकत्वञ्च शब्दसिन्धुकोशे प्रोक्तम् । प्रकृते → साराम्लकः सारफलो रसालश्च पारावतः । कपोताण्डोपमफलो महापारावतोऽपरः।। - (कै.नि.औषधिवर्ग-पृ.६२ गा.३२५) इति कैयदेवनिघण्टुवचनमप्यवश्यमनुस्मर्तव्यम् । एवमेव → कपोता, कपोती = सर्पाक्षयादिगणे रसौषधिविशेषः; कपोतवेगा = ब्राह्मी સ્વરૂપ ભક્ષણ = આંતરપરિભોગ પણ અભિમત છે. જ્યારે માંસની બાબતમાં એવું નથી. આ બાબત જ એમ સૂચવે છે કે આધાકર્મદોષવાળી ગોચરી કરતાં પણ માંસભક્ષણ વધુ દોષવાળું છે. માટે જ અપવાદપદે પણ માત્ર તેના બાહ્ય પરિભોગનું જ વિધાન અભિમત છે, નહિ કે અપવાદપદે માંસને આરોગવાનું. માટે જ માંસભક્ષણ અપવાદસૂત્ર દ્વારા પણ નિર્દોષ સાબિત થતું નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org