________________
• मांसदेरभक्ष्यतोपदर्शनम् •
४६१ मिति दर्शयति । तदुक्तं श्रीविनयविजयगणिवरेण कल्पसूत्रसुबोधिकावृत्तौ → यद्यपि मधु-मद्य-मांसनवनीतवर्जनं यावज्जीवं (साधूनां) अस्त्येव तथाप्यत्यन्ताऽपवाददशायां बाह्यपरिभोगार्थं कदाचिद् ग्रहणेऽपि चतुर्मास्यां सर्वथा निषेधः - (क.सू.९/१७ वृ.) इति ।
यदपि → इमं अववादुसग्गियं 'बहुअट्ठियं पोग्गलं अणिमिसं वा बहुकंटयं' एवं अववादतो गिण्हंतो भणाति ‘मंसं दल, मा अट्ठियंत्ति - इति निशीथचूर्णिकारेण (नि.भा.५२३७ चू.) उक्तं तदपि विधानं अस्थि-कण्टकादिपरिहारपरं बोध्यं, न तु मांसग्रहणापेक्षया । अत एव बहूज्झनधर्मक-पिण्डग्रहणनिषेधावसरे → 'बहुअट्टियं पुग्गलं अणिमिसं वा बहुकंटकयं' - (द.वै.५/१/७३) इति दशवैकालिकसूत्रस्य वृत्तौ श्रीहरिभद्रसूरिभिः → बह्वस्थि पुद्गलं = मांसं, अनिमिषं वा = मत्स्यं वा बहुकण्टकं, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः । अन्ये त्वभिदधति 'वनस्पत्यधिकारात्तथाविधफलाभिधाने एते' - इति प्रोक्तम् । अत्र “कालाद्यपेक्षया = अत्यन्ताऽपवादकालादिविवक्षया बाहुल्येन बाह्यपरिभोगापेक्षयैव न तु भोजनापेक्षया ग्रहणे = मांसादिग्रहणप्राप्ते प्रतिषेधः = बहूज्झनधर्मकमांसादिग्रहणनिषेध” इतिश्रीहरिभद्रसूरितात्पर्यम् । अन्यमते तु स्पष्टं फलाभिधानव्याख्यानमिति नात्रापि व्यामोहः कार्यः । पूज्यास्तु प्रकृते मांसपदं मिष्टान्नादिगरिष्ठाऽशनपरतया मत्स्यपदं च पक्वौदनादिपरतया व्याख्येयमिति प्राहुः ।
भोजनविधिनिरूपणेऽपि → 'तत्थ से भुंजमाणस्स अट्ठिअं कंटओ सिआ' + (द.वै. ५/१/ ८४) इति दशवैकालिकसूत्रे यदुक्तं तत्रापि → “तत्र = कोष्ठकादौ से = तस्य साधोः भुञानस्य अस्थि, कण्टको वा स्यात्, कथञ्चिद् गृहिणां प्रमाददोषात् । 'कारणगृहीते पुद्गल एवे'त्यन्ये” • (द.वै.५/१/८४ वृत्ति) इति व्याख्यातम् । स्पष्टमेव हरिभद्रसूरिभिः स्वमते गृहस्थप्रमादापेक्षया व्यञ्जनादौ सम्पाताऽऽयातकण्टकोल्लेखोऽकारि । कारणगृहीतपुद्गलान्तर्गतकण्टकनिर्देशकान्यमतेऽपि भोजनविधिनिरूपणे गृहीतपिण्डौषधाधुपयोगसाम्येन तन्निर्देशोऽवगन्तव्यः, निर्जराद्वादशभेदनिरूपणे आर्त्त-रौद्रादिध्यानप्रकारचतुष्कप्रदर्शनवत् । न ह्यार्त्त-रौद्रध्याने निर्जरात्वेनाभिमते । तद्वत्प्रकृतेऽप्यवगन्तव्यम् ।
मांसादेरभक्ष्यत्वं तु → जे यावि भुंजन्ति तहप्पगारं, सेवंति ते पावमजाणमाणा। मणं न एयं कुसलं करन्ती वायावि एसा बुईया उ मिच्छा ।। 6 (सूत्रकृ.श्रु.२, अ.६, गा.३८) इति सूत्रकृताङ्गवचनात्, → भुंजमाणे सुरं मंसं परिवुढे परंदमे ।। अचकक्कर भोई य, तुंदिल्ले चियलोहिए ! आउयं नरए कंखे, जहा एस व एलए।। 6 (उत्तरा.अ.७, गा.६/७) इति, → हिंसे बाले मुसावाई, माईल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेयमेयंति मन्नई ।। 6 (उत्तरा.अ.५, गा.९) इति, → तुहं पियाई જણાવેલ છે. પ્રસ્તુતમાં ઉપરોક્ત બે પ્રકારમાંથી એક પણ પ્રકાર સંભવતો ન હોવાથી વિરોધને કોઈ અવકાશ નથી. તે આ રીતે (૧) માંસભક્ષણનો ઉત્સર્ગથી નિષેધ કરી માંસગ્રહણનું વિધાન ઉત્સર્ગથી નહિ પણ અપવાદથી કરવામાં આવેલ છે. આપવાદિક વિધાન માંસભક્ષણનું નથી પણ માંસગ્રહણનું છે.
તથા (૨) રત્નત્રયના પાલન માટે ઉત્સર્ગથી માંસભક્ષણનો નિષેધ કરેલ અને અપવાદથી માંસગ્રહણાદિનું વિધાન કરવામાં આવેલ છે તે પણ રત્નત્રયના પાલન માટે જ કરવામાં આવેલ છે. (ज्ञानाद्युपकारकत्वात्) भाटे श्री. रे ५९५ विरो५ मा संभवतो नथी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org