________________
४४०
• सम्यक्त्वदीपकगुणद्योतनम् • द्वात्रिंशिका-६/२९ उन्नतिः स्यात्, कारणाऽनुरूपत्वात्कार्यस्य। तदाह
यस्तून्नतौ यथाशक्ति सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह तदेवाप्नोत्यनुत्तमम् ।। प्रक्षीणतीव्रसङ्क्लेशं प्रशमादिगुणान्वितम् । निमित्तं सर्वसौख्यानां तथा सिद्धिसुखाऽऽवहम् ।।
(अष्टक २३/३-४) ।।२९।। अष्टकप्रकरणे → कर्तव्या चोन्नतिः सत्यां शक्ताविह नियोगतः । प्रधानं कारणं ह्येषा तीर्थकृन्नामकर्मणः ।। (अ.प्र.२३/८) इति । अवशिष्टश्च स्पष्टप्रायः टीकार्थः । सम्यग्दर्शनोत्पत्तौ कारिकायुग्मेन अष्टकसंवादमाह- 'य' इति, 'प्रक्षीणे'ति च। तद्वृत्तिस्त्वेवम् → यस्तु = यः पुनः प्राणी, उन्नती = प्रभावनायां, शासनस्येति वर्त्तते, यथाशक्ति = सामर्थ्यानुरूपम्, वर्त्तते इत्यनुवर्त्तते, तत्र साधुः प्रावचनिकत्वादिना शासनोन्नतौ वर्त्तते । यदाह “पावयणी' धम्मकही२, वादी नेमित्तिओ तवस्सी य। विज्जा सिद्धोय कवी', अद्वेव पभावगा भणिया ।।” (प्रवचनसारोद्धार-९३४, संबोधप्रकरण ३/६८) श्रावकस्तु कार्पण्यपरिहारतो विधिमता जिनबिम्बस्थापन-यात्राकरणेन जिनभवनगमन-जिनपूजनादिना साधुसाधर्मिककृपणाधुचितकरणपुरस्सरभोजनादिना वेति, सोऽपि शासनप्रभावकः प्राणी, न केवलं शासनमालिन्यकारी स्वव्यापारानुरूपं फलमासादयति शासनप्रभावकोऽपि स्वव्यापारानुरूपमेव फलमवाप्नोतीत्यपिशब्दार्थः, सम्यक्त्वहेतुतां = शासनोन्नतिकरणेन सम्यग्दर्शनलाभस्य निमित्तभावं, अन्येषां = आत्मव्यतिरिक्तप्राणिनां समुपजनितशासनपक्षपातानां, प्रतिपद्य = स्वीकृत्य इह इत्यस्मिन् जन्मनि तदेव = सम्यक्त्वं, न तु मिथ्यात्वं, आप्नोति = आसादयति अनुत्तमं = सर्वोत्तमं क्षायिकमित्यर्थः (अ.प्र.२३/३ वृत्ति) इति ।
सम्यक्त्वस्वरूपमाह - प्रक्षीणः = निःसत्ताकतां गतः तीव्रः = उत्कटः संक्लेशोऽनन्तानुबन्धिकषायोदयलक्षणो यस्मिंस्तत्तथा, यतोऽनन्तानुबध्युदये तन्न भवतीति, यदाह ‘पढमिल्लुयाण उदए नियमा संजोयणाकसायाणं । सम्मदंसणलंभं भवसिद्धीया वि न लहंति ।।' (आवश्यकनियुक्ति १०८) प्रशमादिगुणान्वितं = प्रशम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्यलक्षणसङ्गतम् । यदाष ‘उवसम-संवेगो वि य निव्वेओ तह य होइ अणुकम्पा। अत्थिक्कं चिय एए भवन्ति, सम्मत्तलिंगाइं ।।” (पञ्चलिङ्गिप्रकरण-गा.२) भवन्ति च सम्यग्दृष्टेः सद्बोधसामर्थ्यात् प्रशमादयो गुणा विशिष्टक्रोधादीनामभावात् । आह च तन्नास्य विषयतृष्णा प्रभवत्युच्चैर्न दृष्टिसम्मोहः। अरुचिर्न धर्मपथ्ये न च पापा क्रोधकण्डूतिः ।।"(षोडशक ४/९) __ आदिशब्दादन्येषामपि जिनशासनकुशलतादिगुणानां परिग्रहः । तथाहि “जिणसासणे कुसलया पभाસ્વતઃ = આપમેળે સમ્યગ્દર્શન ઉત્પન્ન થાય છે અને બીજા જીવોને જિનશાસનપ્રશંસાનિમિત્તે સમકિતની પ્રાપ્તિ થાય છે. તથા બીજા જીવોને સમકિત પમાડવાથી તે આરાધકને તીર્થંકરપદની પ્રાપ્તિ સુધીનો ઉદય થાય છે, કારણ કે કાર્ય હંમેશા કારણને અનુરૂપ હોય છે. પ્રસ્તુતમાં જિનશાસનની ઉન્નતિ કારણ છે અને આત્મોન્નતિ કાર્ય છે. તેથી બન્ને પરસ્પર અનુરૂપ છે. અષ્ટકજીમાં જણાવેલ છે કે કે “જે જીવ શક્તિ અનુસાર જિનશાસનની ઉન્નતિ કરે છે તે બીજા જીવોને સમકિતની પ્રાપ્તિમાં નિમિત્ત બનવાથી અહીં તે જ શ્રેષ્ઠ સમકિતને પ્રાપ્ત કરે છે. સમ્યગ્દર્શન તીવ્ર-સંકલેશશૂન્ય હોય છે, પ્રશમ વગેરે ગુણથી સંપન્ન होय छे, सर्व प्रा२न। सुमन नमित्त होय. छे तथा भोक्षसुपने दावार होय .' - (६/२८) १. हस्तादर्श ...नुत्तरम्' इति पाठः ।
Jain Education international-
..
-.
For Private & Personal Use Only
www.jainelibrary.org