________________
• ज्ञानगर्भवैराग्यलक्षणावल्यावेदनम् •
४३३ फलतो ज्ञानत्वात् ।।२५।। त्वात् । इदमेवाभिप्रेत्य पञ्चाशके → गुरुपारतंतं नाणं - (पञ्चा.११/७) इत्युक्तम् । “गुरुपारतन्त्र्यं = ज्ञानाधिकाचार्याऽऽयत्तत्वं यत् तत् ज्ञानं = बोधो विशिष्टज्ञानविकलानामपि, गुरुपारतन्त्र्यस्य ज्ञानफलसाधकत्वात्" (पञ्चा.११/७ वृ.) इति तद्वृत्तिलेशः । षोडशकेऽपि → यो निरनुबन्धदोषात् श्राद्धोऽनाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः।। चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ।। 6 (षो.१२/ ३-४) इत्युक्तम् । यथा चैतत्तथा स्पष्टीभविष्यति दीक्षाद्वात्रिंशिकावृत्तौ (पृ.१९०२)। मुख्यं तु ज्ञानगर्भ वैराग्यं तत्त्वसंवेदनज्ञानवतामेव, तत्परतन्त्रस्य तूपचारत एव धनञ्जयन्यायेन कर्मक्षयक्षमम् । यथा परमते वासुदेवनिहतं कौरवकुलं धनञ्जयो निहन्ति तथेदं यथातन्त्रमनुयोज्यम् । 'यः कारयति स करोत्येव' इति न्यायोऽप्यत्र स्मर्तव्यः । तदुक्तं अन्वय-व्यतिरेकाभ्यां ज्ञानगर्भवैराग्यप्रतिपादनावसरे अध्यात्मसारे →
उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये । ज्ञाने कर्मणि वाऽयं चेन्न तदा ज्ञानगर्भता ।। स्वागमेऽन्यागमार्थानां शतस्येव परार्धके । नावतारबुधत्वं चेन्न तदा ज्ञानगर्भता ।। नयेषु स्वार्थसत्येषु मोघेषु परचालने । माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्भता ।। आज्ञयाऽऽगमिकार्थानां यौक्तिकानाञ्च युक्तितः। न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्भता ।। गीतार्थस्यैव वैराग्यं ज्ञानगर्भं ततः स्थितम् । उपचारादगीतार्थस्याप्यभीष्टं तस्य निश्रया ।।
6 (अ.सा.६/३५-३९) इति । स्वाश्रयत्वसम्बन्धेन ज्ञानं गीतार्थे, स्वाश्रयपारतन्त्र्यसम्बन्धेन च तदगीतार्थेऽस्ति । प्रथमसम्बन्धस्य वृत्तिनियामकतया गीतार्थगतस्य ज्ञानस्य मुख्यत्वाद् द्वितीयसम्बन्धस्य च वृत्त्यनियामकत्वाद् गीतार्थपरतन्त्राऽगीतार्थगतस्य ज्ञानस्योपसर्जनत्वम् । ततश्च ज्ञानगर्भवैराग्योपलब्धये समर्थन पूर्वोक्ततत्त्वसंवेदनज्ञान-सर्वसम्पत्करीभिक्षाभ्यां यतितव्यं, तत्राऽसमर्थेन च मुख्यतया गीतार्थगुरुपारतन्त्र्यकृते प्रयतितव्यमित्युपदेशः ।
पञ्जरचालनन्यायेनैतेषां सर्वेषामेव साधुसामग्र्यसम्पादकत्वमवसेयम् । यथैकपञ्जरवर्तिनो नानापक्षिणः प्रत्येकं प्रतिनियतव्यापाराः सन्तः सम्भूयैकं पञ्जरं चालयन्ति तथैवैकसाधुवर्तिनः तत्त्वसंवेदनज्ञान-सर्वसम्पत्करीभिक्षादयः प्रतिस्वं प्रतिनियतव्यापाराः सन्तः सम्भूय साधुत्वं सामग्र्यं नाययतीत्यादिकं यथागममत्रोहनीयम् ।।६/२५।। આત્મજ્ઞાનીની આજ્ઞા પાળવામાં તત્પરતા કેળવવી એ પણ ફળની અપેક્ષાએ જ્ઞાનસ્વરૂપ જ છે.(૨/૨૫)
વિશેષાર્થ :- આ શ્લોકમાં મહત્ત્વની બે વાત જણાવેલ છે. (૧) જો ભવિતવ્યતાનો પરિપાક વગેરેના લીધે જીવનું કલ્યાણ થવાનું હોય અને તે જીવ જ્ઞાની ગુરુની તમામ આજ્ઞા ઉલ્લાસથી પાળે તો દુઃખગર્ભિત વૈરાગ્ય અને મોહગર્ભિત વૈરાગ્ય પણ જ્ઞાનગર્ભિત વૈરાગ્યની પ્રાપ્તિમાં નિમિત્ત બની જાય છે. જ્ઞાની ગુરુપ્રત્યેના સમર્પણભાવથી, તેમની આજ્ઞાના પાલનથી વૈરાગ્યમાંથી દુઃખગર્ભિતપણું અને મોહગર્ભિતપણે ખલાસ થાય છે તથા જ્ઞાનગર્ભિતપણું પ્રગટે છે.
(૨) જ્ઞાનીને સમર્પિત રહે તે પણ ફળની અપેક્ષાએ જ્ઞાની જ છે. આશય એ છે કે જ્ઞાનનું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org