________________
• आद्यवैराग्यद्वयस्य कथञ्चिदुपादेयत्वम् •
द्वात्रिंशिका-६/२५
सामग्र्यमिति । अनेनैव ज्ञानाऽन्वितवैराग्येणैव सामग्र्यं सर्वथा दुःखोच्छेदलक्षणं स्यात्, 'ज्ञानसहितवैराग्यस्यापायशक्तिप्रतिबन्धकत्वात् । द्वयोस्तु = दुःख-मोहाऽन्वितवैराग्ययोः स्वोपमर्दतः स्वविनाशद्वारा अत्र = ज्ञानान्वितवैराग्ये अङ्गत्वं = उपकारकत्वं कदाचित् = शुभोदयदशायां स्यात्, गुणवतः पारतन्त्र्यं = आज्ञावशवृत्तित्वं ततः (= गुणवत्पारतन्त्र्यतः ), ज्ञानवत्पारतन्त्र्यस्याऽपि
साधुसामग्र्योपधायकं वैराग्यमेतेषां कतमत् ? इत्याशङ्कायामाह - 'सामग्र्यमिति । ज्ञानसहितवैराग्यस्य = ‘सर्वं वाक्यं सावधारणं, स्वेष्टतोऽवधारणम्' इति न्यायाभ्यां आत्मगोचरसम्यग्ज्ञानानुविद्धस्यैव विषयवैतृष्ण्यादिलक्षणस्य विरक्तभावस्य अपायशक्तिप्रतिबन्धकत्वात् सकलदुःखकारणीभूतक्लिष्टकर्मानुबन्धशक्तिविच्छेदकारित्वात्, न तु आर्त्तध्यानसहितस्य मोहान्वितस्य वा वैराग्यस्य ।
केचित्तु 'वैराग्यनिष्ठाऽपायशक्तिः सर्वथा दुःखोच्छेदस्य प्रतिबन्धिका, ज्ञानञ्चापायशक्तिप्रतिबन्धकम् । अतः ज्ञानविशिष्टवैराग्ये सति अत्यन्तदुःखोच्छेदप्रतिबन्धिकाया अपायशक्तेः वैराग्यनिष्ठायाः प्रच्यवेन प्रतिबन्धकाभावस्य सत्त्वात् अत्यन्तदुःखोच्छेदसामग्री सम्पद्यते । अतो ज्ञानविशिष्टवैराग्यस्यात्यन्तदुःखोच्छेदहेतुत्वमनाविलमिति वदन्ति । तेषामपूर्वमेव तर्ककौशलम् एवं सति वैराग्यस्य विशेषणविनिर्मुक्तस्य दुःखकारणताव्यवहारापत्तेः, मोक्षप्रतिबन्धकतापत्तेश्च । वैराग्यनिष्ठापायशक्तिविघटकत्वे तु ज्ञानस्य वैराग्योत्कटताऽऽधायकत्वव्यवहारोच्छेदापत्तेः, एककार्यकारित्वविरहेण आत्मज्ञान-वैराग्ययोः मोक्षं प्रति समुच्चितकारणताव्यवहारापलापापाताच्चेति दिक् ।
४३२
=
=
Jain Education International
=
द्वयोस्तु इति ।
=
तर्हि तयोः किमेकान्तेन हेयत्वमेवानेकान्तवादिनामभिमतम् ? इत्याशङ्कायामाह दुःखमोहान्वितवैराग्ययोः स्वविनाशद्वारा ज्ञानान्वितवैराग्ये उपकारकत्वं शुभोदयदशायां पुण्यविपाको दयकाले निजभवितव्यतापरिपाकादिप्रयोज्यात्मकल्याणलाभावस्थायां वा स्यात् । प्रतियोगिनोऽपि स्वध्वंसं प्रति कारणत्वात् दुःखमोहान्वितवैराग्यध्वंसयोः दुःख - मोहगर्भवैराग्यजन्यत्वं सिद्धम् । अतः तद्द्वारेणाSs - द्वितीयवैराग्ययोः तृतीयवैराग्यं प्रत्युपयोगित्वं सम्भवति तदानीम् । तदुक्तं अध्यात्मसारे ज्ञानगर्भमिहाऽऽदेयं द्वयोस्तु स्वोपमर्दतः । उपयोगः कदाचित् स्यात्, निजाध्यात्मप्रसादतः ।। ← (अ.सा.६/ ४४) इति । ‘कुतो निमित्तादिदं सम्भवतीत्याशङ्कायामाह - गुणवत आज्ञावशवृत्तित्वं, ततः । अत्रात्मज्ञानवत्पारवश्यतो दुःखगर्भितत्वमेव मोहान्वितत्वमेव वा वैराग्यनिष्ठं प्रच्यावयितुमभिप्रेतम्, विशेषणध्वंसप्रयुक्तस्यैव विशिष्टाभावस्य प्रकृते फलसाधकत्वादित्याशयेनाह ज्ञानवत्पारतन्त्र्यस्यापि फलतो ज्ञानગુણવાનની પરતંત્રતાથી પોતાના અભાવ દ્વારા જ્ઞાનગર્ભિત વૈરાગ્યની પ્રાપ્તિમાં ઉપકારી બને છે. (૬/૨૫) ટીકાર્થ :- સાધુજીવનની સંપૂર્ણતા એટલે સર્વ પ્રકારે દુઃખનો ઉચ્છેદ થવો. જ્ઞાનગર્ભિત વૈરાગ્ય દ્વારા જ તે થઈ શકે. કારણ કે આત્મજ્ઞાનગર્ભિત વૈરાગ્ય કર્મના મલિન અનુબંધોની શક્તિનો અવરોધક છે. ક્યારેક કલ્યાણનો ઉદય થવાનો હોય તો તેવી અવસ્થામાં ગુણવાનને સમર્પિત થવાના કારણે દુઃખગર્ભિત વૈરાગ્ય અને મોહગર્ભિત વૈરાગ્ય પોતાના અભાવ દ્વારા જ્ઞાનગર્ભિત વૈરાગ્યની પ્રાપ્તિમાં ઉપકારી થાય છે. ગુણવાનને સમર્પિત થવાનો મતલબ છે ગુણવાન જ્ઞાની ગુરુની આજ્ઞાને આધીન રહેવું. १. हस्तादर्शे 'ज्ञानहित...' इति त्रुटितः पाठः ।
For Private & Personal Use Only
--
www.jainelibrary.org