________________
• मोहगर्भवैराग्यस्याऽपायशक्तिसमेतत्वमेव •
४२९ द्वितीयं = मोहाऽन्वितं वैराग्यं भवति । ____एतच्च सन् शक्त्याऽवस्थितो यो ज्वरस्तस्या अनुदयः (?द्भवः) वेलाप्राक्काललक्षणः तत्सन्निभं (=सज्ज्वराऽनुभवसन्निभम) । तेषां भवे द्वेषजनितस्य वैराग्यस्योत्कटत्वेऽपि मिथ्याज्ञानवासनाऽविच्छेदादपायप्रतिपातशक्तिसमन्वितत्वात् ।।२३।। प्रशमवतोऽपि मोहान्वितं = विपर्यासोपेतं वैराग्यं भवति, → मोहो = विण्णाणविवच्चासो - (नि.चू. २६) इति निशीथचूर्णिवचनात् । तदुक्तं अष्टकप्रकरणे → एको नित्यस्तथाऽबद्धः क्षय्यसन्वेह सर्वथा । आत्मेति निश्चयाद् भूयो भवनैर्गुण्यदर्शनात् ।। तत्त्यागायोपशान्तस्य सद्वृत्तस्यापि भावतः । वैराग्यं तद्गतं यत्तन्मोहगर्भमुदाहृतम् ।।
6 (अ.प्र.१०/४-५) इति। तस्य = शक्त्याऽन्तर्निलीनस्य विषमज्वरस्य युगपद्वात-पित्त-श्लेष्मसङ्क्षोभजन्यसन्निपातसमनुविद्धस्य देहादनुत्तारेऽपि कुतोऽपि हेतोः वेलाप्राक्काललक्षणः = नियताऽऽगमनसमयपूर्वकालस्वरूपो योऽनुदयः = अनुद्रेकः तत्सन्निभं = तत्सदृशं अश्वतरीगर्भन्यायेन स्वनाशाय प्रभवति । वडवायां गदर्भादुत्पन्नाऽश्वतरी, तस्या गर्भ उदरात् प्रसूतेः यथा तन्नाशाय भवति तथेदमवसेयमुत्सर्गतः । न च भवनैर्गुण्यदृष्टिजन्यबलवद्वेषात् संसारसुखानिच्छाया उत्कटतया कथं सज्ज्वरानुदयतुल्यतोक्तिः सङ्गच्छते? इति शङ्कनीयम्, भवे द्वेषजनितस्य = संसारनैर्गुण्यदर्शनजद्वेषोत्पादितस्य वैराग्यस्य = मोहगर्भवैराग्यस्य उत्कटत्वेऽपि = बलवत्त्वेऽपि मिथ्याज्ञानवासनाऽविच्छेदात् = मिथ्यात्वोदयसहकृतविषयप्रतिभासज्ञानजन्यकुसंस्कारानुबन्धस्याऽविनष्टत्वात् अपायप्रतिपातशक्तिसमन्वितत्वात् = दुर्गत्यादिलक्षणापाययोगविच्छेदस्वरूपप्रतिपातयोर्या योग्यता तदन्वितत्वात् सज्ज्वरानुदयतुल्यता न विरुध्यते । यथा सन्निपातस्वस्थतायां सत्यामपि भूयःसंक्षोभादधिको मूर्छा-प्रलापाऽङ्गभङ्गादिदुःखपरिणाम उत्तरकाले सम्पद्यते तथैवैकान्ताऽऽग्रहोद्भूतभवनैर्गुण्यदर्शनप्रसूते प्रशमे तथाविधदेवभवैश्वर्यादिसम्पादके सत्यपि पापानुबन्धिपुण्यवशाद् भगवतोऽपि सद्धर्मबीजवपनविधावेकान्तेन खीलीभूतात्मनां कुणिक-ब्रह्मदत्तादीनामिवोपात्तदुरन्तपापप्राग्भाराणामधिकतरो दुर्गतिगमनादिपरम्परालक्षणो दुःखपरिणाम उत्तरकाले सम्पद्यत एव 'गन्धाश्मरजसा स्पृष्टो नष्टो दीपः पुनर्चलेदिति न्यायेन । इदमेवाभिप्रेत्य उपदेशपदे → संमोहसत्थयाए जहाऽहिओ हंत दुक्खपरिणामो । आणाबज्झसमाओ एयारिसओ वि विन्नेओ ।। 6 (उप.पद.१९०) इत्युक्तं श्रीहरिभद्रसूरिवरैः । मोहगर्भवैराग्यान्वितानामुग्रतपश्चर्यादिसत्त्वेऽपि पतनं सम्पद्यते कालान्तरे, દબાયેલ તાવ અંદરમાં હોવા છતાં બહારમાં અપ્રગટ હોય છે. દબાયેલો તાવ બહારમાં પ્રગટ થવાના પૂર્વ કાળે જે અવસ્થામાં રહેલો હોય તેના જેવો આ મોહગર્ભિત વૈરાગ્ય હોય છે. જો કે સંસારની અસારતાનું દર્શન થવાના લીધે તેમને ભોગસુખ પ્રત્યે દ્વેષ હોય છે અને તેના લીધે જ મોહગર્ભિત વૈરાગ્ય પ્રગટેલ હોય છે. તેથી દુઃખગર્ભિત વૈરાગ્યની અપેક્ષાએ મોહગર્ભિત વૈરાગ્ય બળવાન હોય છે. તો પણ આત્મવિષયક ગેરસમજના-વિપર્યાસના સંસ્કાર તેમનામાં ક્ષીણ થયા નથી હોતા. તેથી મોહગર્ભ વૈરાગ્ય દુર્ગતિમાં લઈ જવાની અને પડવાની યોગ્યતા ધરાવે છે. માટે ફરીથી ભોગતૃષ્ણા प्रगट वानी योग्यता परावे छे. तेथी ये तावतुल्य छे. (६/२3) १. मुद्रितप्रतौ ‘भवत्, द्वेषजनि..' इति पाठः । स चाशुद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org