________________
४२२
• सातिशयज्ञानकारणानां चतुर्विधत्वम्
द्वात्रिंशिका-६/१८
पदमवाप्नोति, पञ्चत्वं न स पश्यति, ततोऽमृतत्वमश्नुते ← (गो.चं. ३) इत्युक्तं तदपि निरस्तम्, मोक्षं प्रति अन्वय-व्यतिरेकव्यभिचारोपलम्भादेव । मोक्षस्य ह्येवं सुलभत्वेऽद्यावधि सकलसंसारोच्छेदापत्तिरपि दुर्निवारैव । एतेन भस्मधारणादेव मुक्तिर्भवति ← (बृ. जा. ७/२) इति बृहज्जाबालोपनिषत्कृतः भस्मस्नाने रतं शान्तं ये नमन्ति दिने दिने ते सर्वपापनिर्मुक्ता नरा यान्ति शिवं पुरम् ।। ← (शि. २८) इति शिवोपनिषत्कृतश्चाऽप्यनाप्ततोपदर्शिताऽवसेया, सर्वथैव कार्याननुरूपकारणोपदर्शनात् । एतेन → उत्तानपत्रपूजां च यः कुर्यान्मम मस्तके । इह लोकेऽखिलं सौख्यं प्राप्नोत्यन्ते पुरे मम ।। तिष्ठत्येव महावीरः पुनर्जन्मविवर्जितः । ← (बि. १५-१६ ) इति बिल्वोपनिषद्वचनमपि प्रत्याख्यातम्, अन्वयव्यतिरेकव्यभिचारोपलम्भेनाऽनाप्तकृतत्वादित्यधिकं क्लेशहानोपायद्वात्रिंशिकायां ( २५/३२, भा.६, पृ.१७७८) वक्ष्यामः ।
नन्वेवमेकान्तसुखरूपमोक्षस्य दुःखसेवनात्मकसंयमानुष्ठानाऽसाध्यत्वापत्तिरिति चेत् ? मैवम्, दुःखसेवनात्मिकायाः चिकित्सायाः सकाशात् सुखात्मकाऽऽरोग्यलाभवत् प्रव्रज्याप्रवृत्तितोऽपि परमानन्दमयमोक्षसिद्धौ बाधकाऽभावात्, कार्यसदृशस्यैव कारणत्वमित्येकान्ताऽनभ्युपगमात्, कर्मक्षयहेतुभूतायाः तथाविधात्मपरिणामाऽनपायिन्याः संयमानुष्ठानाऽविनाभाविन्या वेदनायाः पुण्योदयजन्यत्वात् परमार्थतः संयमानुष्ठानस्य सुखरूपत्वाच्च । तदुक्तं पञ्चवस्तुके तम्हा निरभिस्संगा धम्मज्झाणंमि मुणिअतत्ताणं । तह कम्मक्ख वियणा पुन्ना उ निधिट्ठा ।। ← (पं.व. २०३ ) इति । ण य दुक्करं तु अहिगारिणो इहं अहिगयं अणुट्ठाणं । भवदुक्खभया णाणी मोक्खत्थी किं ण करेइ ? ।। ← (उ. प. ९२०) इति उपदेशपदवचनात् परमार्थतोऽदुष्करत्वमेव संयमानुष्ठानस्याऽधिकारिणं प्रति । व्यवहारतो दुष्करत्वेऽपि संयमानुष्ठानस्य सुखरूपता तु सीहत्ताते णामं एगे णिक्खंते सीहत्ताते विहरइ ← (स्था.४/३) इति, समुदं तरामीतेगे समुद्दं तरइ ← ( स्था. ४/४ ) इति च स्थानाङ्गसूत्रविषयीभूतानां यतीनां स्वानुभवसिद्धैव । यथा चैतत्तत्वं तथा दीक्षाद्वात्रिंशिकायां (द्वाद्वा.२८/११, भा. ७, पृ. १९१७) दर्शयिष्यामः ।
वस्तुतो निर्दोषभिक्षाटनादिरूपस्य यतिधर्मस्य न दुष्करता किन्तु क्षमादिलक्षणस्य दशविधस्य यतिधर्मस्यैव सा । किन्तु छत्रिन्यायेन साहचर्यात् सा तत्रोपचर्यते । यथा सपरिवारे छत्रविभूषिते राज्ञि गच्छति लोके ‘छत्रिणो यान्ती'ति प्रयोगात् छत्र्यछत्रिसमुदाये छत्रिशब्दो वर्तते तथाऽत्र भाव्यम् ।
इदञ्चावधेयम्- क्षमादाविव पिण्डविशुद्धौ यत्नकरण एव केवलज्ञाननिष्पत्तिसम्भवः । तदुक्तं स्थानाङ्गसूत्रे चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पज्जिउका समुपज्जेज्जा । तं जहा ( १ ) इत्थीकहं, भत्तकहं, देसकहं, रायकहं नो कहेत्ता भवति, (२) विवेगेण विसग्गेण सम्ममप्पाणं भावेत्ता भवति, (३) पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरितता भवति, (४) फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्मं गवेसिया भवति । इच्चेएहिं चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पज्जेज्जा ← ( स्था. ४/२/२८४ ) इति । शिष्टं स्पष्टमेव ।।६/१८ ।।
•
વિશેષાર્થ :- ‘એક રૂપિયામાં તમને દશ લીટર પેટ્રોલ અપાવું' આવું કોઈ બોલે તો તેનો વિશ્વાસ થઈ शकतो नथी. ते 'जातां पीतां-भो मभ रतां - सा रतां डरतां अंते मोक्ष भजी ४शे.' खावुं जोसनार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org