SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ४१८ • सूतकादिविचारः . द्वात्रिंशिका-६/१७ चैवम् → सम्भवति च = सम्भाव्यते पुनः एषोऽपि = स्वोचितारम्भोऽपि, न केवलं धर्मार्थमेवारम्भः, केषाञ्चित् शिष्टानां गेहेषु, कुत इत्याह - सूतकादिभावेऽपि = जातमृतकप्रभृतिकदाननिषेधहेतुसद्भावेऽपि, आस्तां सूतकाद्यभावे । अविशेषस्य निर्विशेषस्य पाकारम्भस्य यावतः सूतकाद्यभावे सूतकादावपि तावत एव उपलम्भो दर्शनमविशेषोपलम्भस्तस्मात् । अयमभिप्रायः यदि हि धर्मार्थमेव सर्वशिष्टानामारम्भोऽभविष्यत्तदा दानानवसरेऽसौ नाभविष्यदल्पतरो वाऽभविष्यत् । न चैवं केषाञ्चिद् गृहेषूपलभ्यते । अतः सम्भवति स्वोचितारम्भोऽपीति । अथ सम्भवतु स्वोचितारम्भः, न तु तत्र लाभः सम्भवति इति चेन्नैवं, कुत इत्याह - तत्रापि = स्वोचितारम्भेऽपि, आस्तां धर्मार्थारम्भे, तथा = तेन प्रकारेणौचित्यलक्षणेन, लाभसिद्धेः = संविभागावाप्तेः दृष्टत्वादिति । दृश्यन्ते हि स्वार्थोपकल्पितादपि ग्रासादिकं यतये यच्छन्तः इति गाथार्थः - (पञ्चा. १३/३८ वृ.)। → एवंविहेसु पायं धम्मट्ठा णेव होइ आरंभो । गिहिसु परिणाममेत्तं संतं पि य णेव दुटुं ति।। (पञ्चा. १३/३९) इति। तद्व्याख्या चैवम् → एवंविधेषु उक्तप्रकारेषु अतिनैपुण्याभावेन सूतकादिभावे तदभावे च निर्विशेषतयोपलभ्यमानपाकारम्भेष्वित्यर्थः गृहिष्विति योगः प्रायो = बाहुल्येन धर्मार्थं = श्रमणादिदानप्रभवपुण्यनिमित्तं नैव भवति = स्यात् आरम्भः = पाकप्रवृत्तिः गृहिषु = शिष्टगृहस्थेषु । ननु दानपरिणामाभाव एवं शिष्टानां प्राप्त इत्याह परिणामः = ‘तदेवास्माकमन्नादि भूयात् यत्साधुषु संविभज्यत' इत्येवंरूपः पाककालेऽध्यवसायः स एव साधुदानार्थाधिकपाकक्रियाविकलः परिणाममात्रम् । तत्पुनः सदपि = विद्यमानमपि, आस्तामविद्यमानम् । चशब्द: पुनरर्थः, स च योजित एव नैव दुष्टं = न साधुग्राह्यपिण्डदूषकं, पिण्डदोषे तु तस्यानधिकृतत्वात् । इतिशब्दः समाप्तौ इति गाथार्थः - (पञ्चा.१३/३९ वृ.) । दानपरिणाममात्रं न दुष्टमित्युक्तम् । अथ तस्यैवादुष्टतासाधनार्थमाह → तहकि-रियाभावाओ सद्धामेत्ताओ कुसलजोगाओ। असुहकिरियादिरहियं तं हंदुचितं तदण्णं व ।। - (पञ्चा. १४/४०) इति । तद्व्याख्या → तथाक्रियाभावात्तथाविधायाः श्रमणाद्यर्थारम्भरूपाया असत्क्रियाया असद्भावात् । तदुचितमिति योगः । तथाविधक्रियारहितमपि श्रद्धाविकलमनुचितमेव स्यादित्यत आह-'सद्धामेत्ताओ त्ति' अन्तर्भूतभावप्रत्ययं चेदं । तत्र श्रद्धा = रुचिः, सैव सामान्यभावे श्रद्धामात्रं, तद्भावस्तत्त्वं तस्मात् = श्रद्धामात्रत्वादधिकृतदानपरिणामस्य । तथा श्रद्धामात्रमपि यत् कुशलं तदेवोचितं स्यादित्यत आह - 'कुसलजोगाओ त्ति' इदमप्यन्तर्भूतभावप्रत्ययमेवेति । अतः कुशलयोगत्वात् = प्रशस्तमनोव्यापारत्वादस्य। इति त्रयो हेतवः। अथ प्रतिज्ञामाह- 'तं हंदुचितं ति' तदधिकृतं पाककाले गृहिणां दानपरिणाममात्रं । हंदीत्युपप्रदर्शने । उचितं = सङ्गतं, न दुष्टमित्यर्थः । कथम्भूतं સુપાત્રદાનનો તેવો સંકલ્પ શુભ ભાવસ્વરૂપ હોવાથી ગૃહસ્થ કે સંયમી માટે દોષકારક નથી. તેમ છતાં તેવા સંકલ્પને કર્મબંધકારક માનવામાં આવે તો તો શ્રાવકો સાધુ ભગવંતને વંદનાદિ કરે છે તેનાથી પણ કર્મબંધ વગેરે દોષ માનવા પડશે. કેમ કે ત્યાં પણ વાયુકાયાદિની હિંસા તો છે જ. પણ તેવું માનવામાં આવતું નથી. શ્રી ભગવતીસૂત્રમાં શુભયોગને આશ્રયીને અનારંભ બતાવવામાં આવેલ છે. માટે તેવી સુપાત્રદાનની ભાવના-સંકલ્પ સ્વ-પર માટે દોષકારક નથી. એટલું નક્કી થાય છે. (૬/૧૭) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy