________________
४०८
• अष्टकवृत्तिकृद्वचनमीमांसा • द्वात्रिंशिका-६/१३ एतद्व्यतिरिक्तानामसदारम्भाणां च पौरुषघ्येव' । 'तत्त्वं पुनरिह केवलिनो विदन्ती'त्यष्टकवृत्तिकृद्वचनं (अ.प्र.५/८ वृ.) च तेषां नियतभावाऽपरिज्ञानसूचकमित्यवधेयम् ।।१२।। अन्याऽबाधेन सामग्र्यं मुख्यया भिक्षयाऽलिवत् । गृह्णतः पिण्डमकृतमकारितमकल्पितम् ।।१३।। ____एतद्व्यतिरिक्तानां= क्रियान्तराऽसमर्थात्यन्तावद्यभीरुव्यतिरिक्तानां सिद्धपुत्रादीनां असदारम्भाणाञ्च यतिगृहस्थानां पौरुषघ्न्येव भिक्षा, स्वपराक्रमबाधकत्वात् । यतित्वेऽपि चेदसदारम्भः, पौरुषघ्येव भिक्षा । चेत् संवेग-मार्गपक्षपात-दीक्षार्थितादि, संविग्नपाक्षिक-सिद्धपुत्रादीनां सर्वसम्पत्कर्येव भिक्षेति व्यवस्थाऽत्रा ।
ननु सिद्धपुत्रादीन् प्रत्यष्टकवृत्तिकारेण तु → एतेषां भिक्षाकाणां कतमा भिक्षा । तत्र न तावत्सर्वसम्पत्करी तेषामयतित्वात् । नापि पौरुषघ्नी त्यक्तप्रव्रज्यत्वेन प्रव्रज्याविरोधवर्तित्वाभावात् । नापि वृत्तिभिक्षा क्रियान्तरकरणसमर्थत्वात् । भिक्षान्तरस्य चानभिधानादिति । अत्रोच्यते- वृत्तिभिक्षेति सम्भावयामो निःस्वत्वात्तेषां क्रियान्तरकरणाऽसामर्थ्याच्च । उत्प्रव्रजितो हि प्रायः क्रियान्तरकरणाऽसमर्थो भवति, पौरुषघ्नी वाऽसौ, यतो न प्रव्रज्याप्रतिपन्नस्यैव सा, क्रियान्तरकरणसमर्थस्य अन्यस्याप्यशोभनारम्भस्य तस्या इष्टत्वात्पौरुषहननलक्षणान्वर्थयोगाच्च । अथवा तेषामत्यन्ताऽवद्यभीरूणां संवेगातिशयवतां पुनः प्रव्रज्यां प्रति प्रतिबद्धमानसानां सर्वसम्पत्करीभिक्षाया बीजकल्पाऽसौ स्यात् । तत्त्वं पुनरिह केवलिनो विदन्तीति । - (अ.प्र.५/८ वृ.) इत्युक्तमित्याशङ्कायामाह- 'तत्त्वं पुनरिह केवलिनो विदन्तीति अष्टकवृत्तिकृद्वचनं तु तेषां = सिद्धपुत्रादीनां नियतभावाऽपरिज्ञानसूचकं = प्रतिनियतमनःपरिणामाज्ञानद्योतकम् । 'छद्मस्थैः तन्नियतप-रिणामो ज्ञातुं न शक्यत' इति सूचनपरमष्टकवृत्तिकृद्वचनमवगन्तव्यम् ।
__केचित्तु 'तेषां = अष्टकवृत्तिकृतां नियतभावाऽपरिज्ञानसूचकं = क्रियान्तराऽसमर्थ-मुमुक्षु-तद्व्यतिरिक्तरूपेण त्रिविधानां सिद्धपुत्रादीनां या भिक्षास्तत्सम्बन्धी यः प्रतिनियतविभागः तद्विषयकाऽनवबोधद्योतकमि'त्यपि व्याख्यानयन्ति । तच्चिन्त्यम् ।।६/१२।।
सर्वसम्पत्कर्या साधुः कथं सामग्र्यमश्नुते ? इत्याशङ्कायामाह- ‘अन्येति । अकृतं = स्वयमભિક્ષા જ કહેવાય. આ સિવાયના ઉત્પવ્રજિત અને મલિનારંભી જીવોની ભિક્ષા પૌરુષષ્મી જ બને. કેમ કે હૃષ્ટ-પુષ્ટ દેહવાળા તેવા જીવોની ભિક્ષા તેમના પુરુષાર્થને-પરાક્રમને હણનારી જ બને છે.
આ રીતે સારૂપિક, સિદ્ધપુત્ર, સંવિગ્નપાક્ષિક વગેરે જીવોની ભિક્ષાનો વિભાગ સ્પષ્ટ હોવા છતાં પણ “અહીં તત્ત્વ = પરમાર્થ તો કેવલી ભગવંતો જાણે” એવું અદકજીના વૃત્તિકાર આચાર્ય ભગવંતે જણાવેલ છે તે “પ્રવ્રજ્યાભ્રષ્ટ જીવોના મનનો નિયત પરિણામ જાણી શકાતો નથી. આ બાબત સૂચવે छ- मेम ध्यानमा २५g. (६/१२)
જ સર્વસંપરી ભિક્ષાથી સાધુપણું પૂર્ણ જ સર્વસંપન્કરી ભિક્ષાથી સાધુપણું સંપૂર્ણ કઈ રીતે બને ? એ વાતને ગ્રંથકારશ્રી જણાવે છે કે -
ગાથાર્થ - બીજાને પીડા ન થાય તે રીતે ભમરાની જેમ અકૃત, અકારિત અને અકલ્પિત એવા પિંડને મુખ્ય ભિક્ષાથી ગ્રહણ કરતા સાધુનું સંયમ પૂર્ણ થાય છે. (૬/૧૩) १. मुद्रितप्रतौ 'पौरुषघ्नयेव' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org