________________
• भिक्षया साधुसामग्र्यलाभविचारः .
४०९ अन्येति । अन्येषां = स्वव्यतिरिक्तानां दायकानां अबाधेन = अपीडनेन (=अन्याऽबाधेन) मुख्यया = सर्वसम्पत्कर्या भिक्षया अलिवद् = भ्रमरवद् अकृतमकारितमकल्पितं च पिण्डं गृह्णतः सामग्र्यं = चारित्रसमृद्ध्या पूर्णत्वं भवति। अलिवदित्यनेनाऽनटनप्रतिषेधः, तथा 'सत्यभ्याहृतदोषप्रसङ्गात् । निर्वर्तितं, अकारितं, अन्यैश्च अकल्पितं 'साधवे दास्यामी'ति ।।
तदुक्तं अष्टकप्रकरणे → अकृतोऽकारितश्चान्यैरसङ्कल्पित एव च । यतेः पिण्डः समाख्यातो, विशुद्धः शुद्धिकारकः ।। - (अ.प्र.६/१) इति । तद्वृत्तिस्तु → अकृतः = क्रयण-हनन-पचनैर्भोज्यतया स्वयमनिर्वर्तितः, एवमेव अकारितश्च = अविधापितः, चकारः समुच्चये, अन्यैः कर्मकरादिभिः, असङ्कल्पित एव च = क्रयणादिप्रकारैः ‘साधवे इदं दास्यामी'त्यनभिसन्धितोऽन्यैरेव एवकारेणान्यथाविधपिण्डस्य साधोरग्राह्यतामाह । आह च- “पिण्डं असोहयन्तो, अचरित्ती एत्थ संसओ नत्थि । चारित्तम्मि असन्ते, सव्वा दिक्खा निरत्थिआ ।।” (अज्ञातोञ्छकुलक-५) चकार उक्तसमुच्चये। अकृतादिपदैश्च क्रयणक्रायण-तदनुज्ञान-हनन-घातन-तदनुज्ञान-पचन-पाचन-तदनुज्ञानलक्षणकोटीनवकशुद्धता पिण्डस्योक्तेति । यतेः = पृथिव्यादिसंरक्षणप्रयत्नवतः, पिण्डः = ओदनादिरूपः, उपलक्षणत्वादस्य शय्योपकरणे च, समाख्यातो = विगतरागादिदोषसकलपदार्थसार्थस्वभावाऽवभासनसहसंवेदनेन निर्वाणनगरगमनासमानमार्गायमाणचरणकरणविशुद्धहेतुतयोपलभ्य सम्यगभिहितस्तीर्थंकरैरिति नाऽन्तरायदोषास्तेषाम् । पुनः किंविधः पिण्डः ? इत्याह विशुद्धः = सकलदोषवियुक्तस्तथा विशुद्धत्वादेव शुद्धिकारकः = कर्ममलकलङ्कविकलताकारीति । अथवा कस्मादकृतादिगुणः पिण्डो यतेः समाख्यातः ? इत्याह विशुद्धो = विशुद्ध एव कृतादिदोषरहित एव शुद्धिकारको भवति, नान्यः । विशुद्ध्यर्थी च यतिर्भवप्रपञ्चोपचितकल्मषमलपटलस्येति 6 (अ.प्र. ६/१ वृ.) इत्येवमवगन्तव्या। ____ अलिवदिति । यथा हि मधुकरः कतिपयमकरन्दकणस्वीकरणतः कुसुमक्लमाऽकरणेनाऽऽत्मानमनुप्रीणात्येवमेव मुनिमधुकराः कृत-कारित-सङ्कल्पितादिदोषपरिहारेण स्तोकस्तोकान्न-पानमकरन्दग्रहणतो गृहपतिप्रसूनपीडाऽनापादनेन संयमात्मानमनुपालयन्ति । अनेन य एकत्र सद्मनि भुङ्क्ते तस्य निरासः, एकत्र भोजने हि कथञ्चिदुद्गमदोषपरिहरणप्रयत्नपरस्यापि पुरःकर्म-पश्चात्कर्माऽसंयतचेष्टाकृतदोषप्रसङ्ग इति (अ.प्र.वृ.५/३) अष्टकवृत्तिकृतः ।।
ટીકાર્થ :- સાધુ પોતાનાથી ભિન્ન એવા ભિક્ષાદાતાને તકલીફ ન થાય એ રીતે સર્વસંપન્કરી ભિક્ષાથી ભમરાની જેમ પોતાના નિમિત્તે જાતે નહિ બનાવેલ, પોતાના નિમિત્તે બીજા પાસે નહિ કરાવેલ તેમજ સૂચના વગર જ પોતાના નિમિત્તે બીજા દ્વારા નહિ બનાવાયેલ (=અનનુમોદિત) એવા આહાર આદિને ગ્રહણ કરતા સાધુ ચારિત્રસમૃદ્ધિથી પૂર્ણતાને પામે છે.
ભમરાની જેમ ભિક્ષા ગ્રહણ કરે’ આમ કહેવાથી “ભિક્ષા માટે સાધુ ફરે નહિ આ વાતનો નિષેધ સૂચિત થાય છે. કારણ કે સાધુ ભિક્ષા માટે અલગ-અલગ ઘરે ફરે નહિ તો ઉપાશ્રયમાં શ્રાવકો આહારાદિ લાવે તો “અભ્યાહત” નામનો દોષ સાધુને લાગે છે.
શંકા :- સાધુ ભગવંતને વંદન કરવા માટે આવતા ગૃહસ્થો ઉપાશ્રયમાં ગોચરી લાવે તો તેમાં १. हस्तादर्श 'सेत्य....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org