SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ४०७ • अनुकम्पानिमित्तविचारः . केषुचिदित्यनेन ये उत्प्रव्रजितत्वेन क्रियान्तराऽसमर्थास्ते गृह्यन्ते । येषां पुनरत्यन्तावद्यभीरूणां संवेगाऽतिशयेन प्रव्रज्यां प्रति प्रतिबद्धमेव मानसं तेषामाद्यैव भिक्षा । निशीथचूां तु तत्स्वरूपम् → वत्थदंडधारी कच्छं णो बंधति, भारिया से णत्थि, भिक्खं हिंडइ वा ण वा एरिसो सारूवी । सिद्धपुत्तोऽवि एरिसो चेव । णवरं सिरं मुंडं सिहं च धरेति, भारिया से भवति वा ण वा 6 (नि.भा.४५८७ भाग-३ पृ.५४१ चू.) इत्थमावेदितम् । तत्रैव चाने → बाहिरभिंतरकरणवज्जितो सारूवी। मुंडो सुक्किल्लवासधारी, कच्छं ण बंधति, अबंभचारी, अभज्जगो भिक्खं हिंडइ । जो पुण मुंडी ससिहो सुक्कंबरधरो सभज्जगो सो सिद्धपुत्तो (नि.भा. ५५४८ चू.भाग.३) इत्थमुक्तम् । तत्रैव चाग्रे → सारूविगो पुण सुक्किल्लवत्थपरिहिओ मुंडमसिहं धरेइ, अभज्जगो पत्तादिसु भिक्खं हिंडइ । अण्णे भण्णंति-पच्छाकडा सिद्धपुत्ता चेव, जे असिहा ते सारूविगा - (नि.भा.६२६६ चू.) इत्थमुक्तम्। ___ सारूपिकस्वरूपञ्च व्यवहारसूत्रभाष्ये → असिहो ससिहं गिहत्थो, रयहरवज्जो उ होइ सारूवी । धारेइ निसिज्जं तु एगं ओलंबगं चेव ।। (व्य.भा.उ.४/गा.१३५) इत्येवमावेदितम् । 'सारूपिक एकां निषद्यामेकनिषद्योपेतं रजोहरणं, अवलम्बकं = दण्डकं, उपलक्षणमेतत् पात्रादिकञ्च धारयति शिरश्च मुण्डयतीति तवृत्तौ श्रीमलयगिरिसूरिः । गच्छाचारप्रकीर्णकवृत्तौ → मुण्डितशिराः शुक्लवासपरिधायी कच्छां न बध्नाति अभार्याको भिक्षां हिण्डमानः = सारूपिकः । शुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः = सिद्धपुत्रः - (ग.गा.८० वृत्ति) इत्युक्तम् । → मुंडसिरोया सुक्किल्लवत्थधरो न वि यच्छं । हिंडइ न वा अभज्जो सारूवी एरिसो होइ ।। ( () इति चान्यत्र । सिद्धपुत्रस्वरूपमप्यन्यत्र → सभज्जो अभज्जो वा णियमा सुक्कंबरधरो खुरमुंडो ससिहो असिहो वा णियमा अडंडगो अपत्तगो य सिद्धपुत्तो होइ ।। 6 ( ) इत्थमावेदितम् । → सारूविगो = सिद्धपुत्तो - (नि.चू. ५८६) इति तु निशीथचूर्णिकृदुक्तिः → सारूपिकः = सिद्धपुत्रः - (बृ.क.भा. ४९३९ वृत्ति) इति बृहत्कल्पभाष्यवृत्तिकृदुक्तिश्च तयोरुत्प्रवजितत्वलक्षणसामान्यधर्मापेक्षया बोद्धव्या । अत एव प्रथमोद्देशे च बृहत्कल्पभाष्यवृत्ती एव → सारूपिकाः नाम श्वेतवाससः क्षुरमुण्डितशिरसो भिक्षाऽनुपजीविनः पश्चात्कृतविशेषाः - (बृ.क.भा.१११८ वृ.) इत्युक्तम् । तद्भिक्षामाह- ये उत्प्रव्रजितत्वेन = बाल्यकाले दीक्षां गृहीत्वा युवावस्थायां तत्परित्यागेन क्रियान्तरासमर्थाः = वाणिज्य-कृष्यादिक्रियायामशक्ता अनिष्णाता वा ते एव वृत्तिभिक्षायां गृह्यन्ते । येषां पुनः सिद्धपुत्रादीनां संविग्नपाक्षिकादीनां वा अत्यन्तावद्यभीरूणां = अतिशयेन पृथिव्याधुपमर्दाऽसहिष्णूनां संवेगातिशयेन प्रव्रज्यां प्रति प्रतिबद्धमेव मानसं तेषां आद्यैव = सर्वसम्पत्कर्येव भिक्षा । કહેવાય છે. આમ કહેવા દ્વારા એવું સૂચિત થાય છે કે જે સિદ્ધપુત્ર વગેરે બાલદીક્ષિત હોવા વગેરેના કારણે ધંધો વગેરે કરવાની આવડત વગરના હોવાથી ભિક્ષા સિવાય બીજી કોઈ પણ પ્રવૃત્તિ દ્વારા ભોજન મેળવવા સમર્થ ન હોય તેવાની જ ભિક્ષા વૃત્તિભિક્ષા કહી શકાય. પરંતુ જેઓ ચારિત્રાચારથી ભ્રષ્ટ હોવા છતાંય અત્યંત પાપભીરુ છે તથા ઝળહળતા સંવેગના લીધે દીક્ષા તરફ જ જેઓનું મન વળેલું છે તેવા સંવિગ્નપાક્ષિક વગેરે જીવોની ભિક્ષા તો સર્વસંપન્કરી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy