________________
४०६
• सिद्धपुत्रादिस्वरूपमीमांसा • द्वात्रिंशिका-६/१२ (अ.५/६-७) तथा सिद्धपुत्रादिष्वपि केषुचिद् वृत्तिभिक्षा सम्भवति, आदिना सारूपिकग्रहः, दीनादिपदाऽव्यपदेश्यत्वाच्चैषां पृथगुक्तिः । श्रूयन्ते चोत्प्रव्रजिता अमी जिनागमे 'भिक्षुकाः, यतो व्यवहारचूामुक्तं- “२जो अणुसासिओ ण पडिनियत्तो सो सारूविअत्तणेण वा सिद्धपुत्तत्तणेण वा अच्छिउं कंचि कालं । "सारूविओ णाम सिरमुंडो अरजोहरणो अलाउएहिं भिक्खं हिंडइ अभज्जो । सिद्धपुत्तो णाम सबालओ भिक्खं हिंडइ वा ण वा वराडएहिं वेंटलिअं करेइ लट्ठिं वा धरेतित्ति" (व्य.सू.चू. ) । निःस्वादीनां सर्वसम्पत्करी प्राप्नोतीति वाच्यम्, अयतित्वेन तेभ्यस्तस्या निवर्तितत्वात् । सर्वसम्पत्करी हि यतित्वेन व्याप्ता। अतो यतित्वं निवर्तमानं तां निवर्तयति (अ.प्र.५/७ वृ.) इति । ___अत्रैवाधिकार्यन्तरसमुच्चयार्थमाह- 'तथेति । सिद्धपुत्रादिषु 'पिण्डमुत्सृज्य करं लेढीति न्यायविषयभूतेषु । तल्लक्षणञ्चैवम् “मुण्डः सशिखाकः सभार्याको गृहस्थविशेषः सिद्धपुत्रः उच्यते । आदिना = ‘सिद्धपुत्रादिषु' इतिपदगतेन आदिशब्देन सारूपिकग्रहः । समानं रूपं = सरूपं, तेन चरतीति सारूपिकः” (व्य.सू.भा.वृ.४/१३५) इति व्यवहारसूत्रभाष्यवृत्तौ श्रीमलयगिरिसूरिः । व्यवहारसूत्रभाष्यवृत्ती एवाग्रे → सारूपिकः = शिरोमुण्डो रजोहरणरहितोऽलाबुपात्रेण भिक्षामटति सभार्योऽभार्यो वा । सिद्धपुत्रो नाम सकेशो भिक्षामटति वा न वा, वराटकैः विण्टलकं करोति यष्टिं धारयति । (व्य.भाष्य. ३६७१ मलय.) सारूपिकसिद्धपुत्रो नाम मुण्डितशिखो रजोहरणरहितोऽलाबुपात्रेण भिक्षामटन् सभार्यो वा (व्य.भा. ३६५६ मलय.) इत्येवं मलयगिरिसूरिभिः सारूपिक-सिद्धपुत्र-सारूपिकसिद्धपुत्रलक्षणानि दर्शितानि । 'मुण्डितशिराः शुक्लवासःपरिधायी कच्छामबध्नानो भिक्षा हिण्डमानः सारूपिक उच्यते' ( ) इत्यन्यत्रोक्तम् । दीनादिपदाऽव्यपदेश्यत्वात् = दीनान्धादिशब्दाऽसङ्ग्राह्यत्वात् एषां = सिद्धपुत्रादीनां गाथायां पृथगुक्तिः = स्वतन्त्रोल्लेखोऽकारि ग्रन्थकृता। तत्स्वरूपमाह- श्रूयन्त इत्यादिना । सुगमम् ।
તેમ જ કેટલાક સિદ્ધપુત્ર, સારૂપિક વગેરેમાં પણ આ વૃત્તિભિક્ષા સંભવે છે. દિનાદિ શબ્દથી સિદ્ધપુત્ર વગેરેનો ઉલ્લેખ થવો શક્ય ન હોવાથી મૂળ ગાથામાં સિદ્ધપુત્ર વગેરેનો સ્વતંત્ર ઉલ્લેખ કરવામાં આવેલ છે. દીક્ષા છોડવા છતાં પણ અમુક જીવો ભિક્ષા દ્વારા જીવનનિર્વાહ કરનારા હોય છે – એવું જિનાગમમાં સંભળાય છે. કારણ કે વ્યવહારસૂત્રચૂર્ણિમાં જણાવેલ છે કે “જેને ઘણી રીતે સમજાવવા છતાં પણ સાંસારિક વૃત્તિથી જે પાછો ફરતો નથી તે સારૂપિક તરીકે અથવા સિદ્ધપુત્ર તરીકે થોડો સમય રહે. જેણે માથું મૂંડાવેલ હોય, રજોહરણ ધારણ ન કરે, તુંબડાના પાત્ર દ્વારા ભિક્ષાટન કરે અને પત્નીરહિત હોય તે સારૂપિક કહેવાય. સિદ્ધપુત્ર એટલે જે પુત્રયુક્ત હોય, ભિક્ષા માટે નીકળે અથવા ન નીકળે, કોડી-વાટકી વગેરે દ્વારા વૅટલિકા = દેવતા આહાન વગેરે કરે અથવા લાકડી ધારણ કરે છે. બધા જ સિદ્ધપુત્ર કે સારૂપિકની ભિક્ષા વૃત્તિભિક્ષા નથી કહેવાતી. પરંતુ તેમાંના કેટલાકની જ ભિક્ષા વૃત્તિભિક્ષા १. हस्तादर्श 'भिक्षाका' इति पाठः। २. योऽनुशिष्टो न प्रतिनिवृत्तः सापकत्वेन वा सिद्धपुत्रत्वेन वा स्थित्वा कञ्चित्कालं, सावपिको नाम मण्डशिरा अरजोहरणः अलाबकैः भिक्षां हिण्डेऽभार्यश्च। सिद्धपुत्रो नाम सबालः भिक्षा हिण्डते वा न वा वराटकैः वेण्टलिकां करोति यष्टिं वा धारयति इति । ३. मुद्रितप्रतौ 'अच्छउ' इत्यशुद्धः पाठः। ४. हस्तादर्श 'सारवि..' इत्यशुद्धः पाठः। ५. मुद्रितप्रतौ 'अलाउयाहिं' इति पाठः। ६. मुद्रितप्रतौ 'वेठलिअं' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org