SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ४०५ • वृत्तिभिक्षाधिकारिनिवेदनम् • क्रियान्तरेति । क्रियान्तराऽसमर्थत्वेन प्रयुक्ता (=क्रियान्तराऽसमर्थत्वप्रयुक्ता), न तु मोहेन चारित्रशुद्धीच्छया वा वृत्तिसंज्ञिका भिक्षा भवति । इयं च दीनाऽन्धादिषु सम्भवति। यदाह निःस्वाऽन्ध-पङ्गवो ये तु न शक्ता वै क्रियान्तरे । भिक्षामटन्ति वृत्त्यर्थं वृत्तिभिक्षेयमुच्यते ।। नाऽतिदुष्टाऽपि चाऽमीषामेषा स्यान्न ह्यमी तथा । अनुकम्पानिमित्तत्वाद्धर्मलाघवकारिणः ।। अवसरप्राप्तां तृतीयां भिक्षामाह- ‘क्रियान्तरे'ति । क्रियान्तराऽसमर्थत्वेन = भिक्षाव्यतिरिक्तकृषिवाणिज्यादिक्रियाविशेषाऽशक्ततया प्रयुक्ता, न तु मोहेन प्रयुक्ता, मोहप्रयुक्ता पौरुषध्येव स्यात् । न वा चारित्रशुद्धीच्छया प्रयुक्ता वृत्तिसंज्ञिका भिक्षा भवति। सदाऽनारम्भलक्षणचारित्रयोग-क्षेम-संवर्धनसंशोधनादीच्छाप्रयुक्ता भिक्षा तु सर्वसम्पत्कर्येव स्यात् । इयञ्च वृत्तिभिक्षा दीनान्धादिषु सम्भवति । प्रकृतार्थे कारिकायुग्मेन अष्टकसंवादमाह- 'निःस्वेति, 'नातिदुष्टे'ति च । तवृत्तिस्त्वेवम् → निःस्वाऽन्ध-पङ्गवो = निर्धनोपहतनयनचलनबलहीनाः ये = केचन तुशब्दः पुनःशब्दार्थः । तस्य चैवं प्रयोगः, यः प्रव्रज्याविरुद्धवृत्तिस्तस्य पौरुषघ्नी भिक्षा ये पुनर्निःस्वादयः किंविधा वैशब्दस्यैवकारार्थस्य 'नजा'सम्बन्धान्नैव शक्ताः = समर्थाः, क्रियान्तरे = भिक्षाव्यतिरिक्ते कृषिवाणिज्यादिके कर्मविशेषे, ये तु क्रियान्तरसमर्थास्तेषां पौरुषघ्येवेति गर्भार्थः । भिक्ष्यत इति 'भिक्षा' भिक्षणं वा 'भिक्षा', ताम् अटन्ति = भ्रमन्ति। किमर्थमित्याह वृत्तिर्वर्तनं जीविका तस्यै इदं वृत्त्यर्थं, तेषामिति गम्यते, वृत्तिभिक्षा उक्तनिर्वचना इयम् = एषा उच्यते = अभिधीयते इति + (अ.प्र. ५/६ वृ.) । किमियमेषामुचिता अनुचिता वेत्याशङ्कायामाह न = नैव अतिदुष्टा = अत्यन्तदोषवती पौरुषघ्नीव तद्भाजाम्, अपि चेत्यस्यानुक्तसमुच्चयार्थत्वान्नातिप्रशस्या च सर्वसम्पत्करीव तद्भागिनां अमीषां = निःस्वान्धादीनां एषा = अनन्तरोक्ता वृत्तिभिक्षा स्यात् = भवेत् । कुत एतदेवमित्याह न = नैव हिशब्दो यस्मादर्थः अमी = एते निःस्वादयः तथा = तेन प्रकारेण येन पौरुषघ्नीभागिनः धर्मलाघवकारिणः = जिन(?प्र)वचनाऽवर्णहेतवः, कुत इत्याह अनुकम्पानिमित्तत्वात् = स्वविषये जनकरुणायाः कारणत्वात्तेषां, तथाविधबालवदिति । प्रयोगश्चात्र- (ये) धर्मलाघवहेतवो न भवन्ति न तेषां भिक्षादोषोऽस्ति यथा साधूनाम्, धर्मलाघवाऽहेतवश्च तथा निःस्वादयोऽतस्तेषां न दुष्टा भिक्षेति । न चाभ्यां हेतु-दृष्टान्ताभ्यां છે તે વૃત્તિ નામની ભિક્ષા કહેવાય છે. ગરીબ, અંધ વગેરે જીવોમાં આ ભિક્ષા હોય છે. કેટલાક सिद्धपुत्र वगेरेम ५९ मा भिक्षा होय छे. (७/१२) ટીકાર્ય - મોહથી કે ચારિત્રશુદ્ધિની ઈચ્છાથી નહિ પણ ભિક્ષા સિવાયની ધંધો આદિ પ્રવૃત્તિ કરવાનું સામર્થ્ય નહિ હોવાથી જે ભિક્ષા ગ્રહણ કરાય છે તે વૃત્તિ નામની ભિક્ષા થાય છે. ગરીબ, અંધ વ્યક્તિ વગેરેમાં આ વૃત્તિભિક્ષા હોય છે. અષ્ટકજીમાં જણાવેલ છે કે “નિર્ધન, અંધ, પાંગળા વગેરે જે જીવો ધંધા-નોકરી વગેરે પ્રવૃત્તિ કરવામાં સમર્થ નથી તેઓ જીવનનિર્વાહ માટે ભિક્ષાટન કરે છે. આ વૃત્તિભિક્ષા કહેવાય છે. નિર્ધન વગેરે માણસને વૃત્તિભિક્ષા દોષયુક્ત પણ નથી બનતી. કારણ કે નિર્ધન વગેરે જીવો અનુકંપાનું નિમિત્ત હોવાના લીધે પૌરુષષ્મી ભિક્ષા ગ્રહણ કરનારા જીવોની જેમ ધર્મલાઘવ કરનારા બનતા નથી.” Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004939
Book TitleDwatrinshada Dwatrinshika Prakran Part 2
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages372
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy