________________
४०१
• भिक्षाशुद्धित्रैविध्यमीमांसा नादिचिकीर्षाद्वाराऽध्ययनादिपरिणामान्विततया स्वहेतुमुखेनौपचारिकी हेतुशुद्धिरपि तत्राऽनाविला । एवं शुद्धोञ्छकृते मुक्तगुरुकुलवासानामप्यध्ययनादिसमन्वितानां सदानारम्भिणां गुर्वादरादितो भिक्षाया हेतुतः स्वरूपतश्च सर्वसम्पत्करीत्वेऽपि नाऽनुबन्धतः सर्वसम्पत्करीत्वं यद्वा गुरुकुलवासनिमित्तकप्रस्थानद्वारा गुर्वाज्ञावस्थानपरिणामोपेततया हेतुमुखेनानुबन्धशुद्धिरपि तत्राऽनपलपनीया ।
पूर्वोक्तचिन्ता-भावनाज्ञानशून्यानां केवलश्रुतज्ञानपरायणानां गुर्वाज्ञाव्यवस्थितानां सदानारम्भिणां मेधाविनां बालमुनीनां स्वरूपतोऽनुबन्धतश्च सर्वसम्पत्करीभिक्षोपजीविनां भिक्षायां हेतुतः स्वरूपतश्च हेतुशुद्धिरवसातव्या, तादृशां जडानां भिक्षायां हेतुशुद्धिः स्वरूपतोऽवगन्तव्या; तादृशामेव गीतार्थानां पादलिप्ताचार्यादिसदृशानां बालमुनीनां त्रिविधशुद्धियुक्तायां सर्वसम्पत्करीभिक्षायां या हेतुशुद्धिः सा हेतुतः स्वरूपतोऽनुबन्धतश्च विज्ञेया । एवं यथायथं स्वरूपतो हेतुतोऽनुबन्धतश्च गुर्वाज्ञाव्यवस्थितत्वव्यङ्ग्याऽनुबन्धशुद्धिः सदानारम्भितासूचिता स्वरूपशुद्धिश्च त्रिविधपरीक्षाभिः सोदाहरणं परीक्षणीयेति ।
या स्वरूपतोऽनुबन्धप्रभृतित्रितयशुद्धिः सा कषपरीक्षोत्तीर्णा, या हेतुतोऽनुबन्धप्रमुखशुद्धिः सा छेदपरीक्षोत्तीर्णा, या चानुबन्धतोऽप्यनुबन्धमुख्यत्रयशुद्धिः सा तापपरीक्षोत्तीर्णा मन्तव्या । “सामाइयमाइयं सुयनाणं जाव बिंदुसाराओ । तस्स वि सारो चरणं” ← (वि. आ.भा. ११२६) इति विशेषावश्यकभाष्यवचनात् चारित्रस्यैव श्रुतत्वावच्छिन्नसारत्वात् शास्त्रस्वर्णशोधनकारिणीभिः कषादिपरीक्षाभिश्चारित्राङ्गभूतभिक्षाशुद्धिपरीक्षणमपि युज्यत एव । प्रकृते अद्वैतभावनाभैक्षमभक्ष्यं द्वैतभावनम् । गुरुशास्त्रोक्तभावेन भिक्षोर्भेक्षं विधीयते ।। ( मैत्रे. २/१० ) इति मैत्रेय्युपनिषद्वचनमपि शुद्धसङ्ग्रह - व्यवहारनयानुवेधेन यथातन्त्रमनुयोज्यं नयविशारदैः ।
=
‘यतिर्ध्यानादियुक्त...’ इत्यादिना या अष्टकप्रकरणकारिकोपदर्शिता तद्वृत्तिः श्रीजिनेश्वरसूरिकृता सोपयोगित्वादुपदर्श्यते । तथाहि यतिः साधुः तस्य सर्वसम्पत्करी भिक्षा मते 'ति क्रिया, भिक्षेति प्रकृतम्। अनेन च व्यवच्छेदफलत्वाद्वचनस्य गृहस्थस्य व्यवच्छेदः कृतः । यतिश्च द्रव्ययतिरपि स्यात् । अतस्तद्व्यवच्छेदायाह- ध्यानादियुक्त इति । तत्र ध्यानं भवशतसमुपचितकर्मवनगहनज्वलनकल्पमखिलतपःप्रकारमान्तरतपःक्रियारूपं धर्मध्यानं शुक्लध्यानं च, आदिशब्दात् निखिलपारलौकिकाद्यनुष्ठानप्रकाशनप्रदीपकल्पज्ञानपरिग्रहः, अतस्तेन ध्यानादिना युक्तो = युतो यः स तथा अनेन च तपःक्रियाज्ञानयुक्तत्वविशेषणेन केवलक्रियाकारिणः क्रियाशून्यज्ञानवतश्च व्यवच्छेद उक्तः, केवलयोस्तयोरनर्थकत्वात्। यदाह “हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासन्तो पङ्गुलो दड्ढो, धावमाणो उ अंधओ” ।। (आवश्यकनिर्युक्ति १०१ ) इति । उभय(युक्त)स्यैवार्थप्रसाधकत्वात् । यदाह “संजोगसिद्धीइ फलं वयन्ति न हु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविठ्ठा” (आवश्यकनिर्युक्ति १०२ ) इति । 'य' इति सामान्योऽनिर्दिष्टनामा ध्यानादियुक्त इतिविशेषणसामर्थ्यात्तथाविधविशिष्टज्ञानविकलानां माषतुषादिचारित्रिणां मा भूत्सर्वसम्पत्करभिक्षाप्रतिषेध इत्यत आह 'गुर्वाज्ञायां व्यवस्थितः' गुरोः गुरुगुणोपेताचार्यस्याज्ञा वचनं तस्यां विशेषेणाऽवस्थितः । एष हि गुरुज्ञानत एव ज्ञानवान् ज्ञानफलसिद्धेः । यदाह “यो निरनुबन्धदोषात्, श्राद्धोऽ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
-