________________
त्रिविधशुद्धीनां बलाधिकत्वविचारः
द्वात्रिंशिका - ६/१०
त्वारिंशद्दोषमुक्तपिण्डग्रहणेऽपि ध्यानादियुक्तत्वादिविरहे नैव नैश्चयिकी सर्वसम्पत्करी भिक्षा सम्भवति । तदुक्तं पञ्चाशके दर्शनशुद्धिप्रकरणे च सेसकिरियाठियाणं एसो पुण तत्तओ ओ ← (पञ्चा. १३/ ३०, द.शु. २२५) इति । " एष पुनः = विशुद्धपिण्डः पुनः, तत्त्वतः = परमार्थवृत्त्या शेषक्रियास्थितानां पिण्डविशुद्धयपेक्षया शेषक्रिया प्रत्युपेक्षणा-स्वाध्यायादिका तस्यां ये स्थिताः आश्रितास्ते तथा तेषां, न तु तद्विकलानां उक्तदोषपरिहारमात्रादेव, मूलाभावे उत्तरस्याकिञ्चित्करत्वादिति भावः ज्ञेयः इति पञ्चाशकवृत्तिकारः । बलाधिकत्वन्तु स्वरूप शुद्ध्यपेक्षया हेतुशुद्धेः, हेतुशुद्धयपेक्षया चानुबन्धशुद्धेरेवावगन्तव्यम्। विशुद्धसम्यग्दर्शनादिप्रसूतानां साधर्मिकनिमन्त्रणादीनामप्यनुबन्धशुद्ध्याधायकत्वमेव ।
=
= ज्ञातव्यः'
इदमेवाभिप्रेत्य दशवैकालिकसूत्रे तहेव असणं पाणगं वा, विविहं खाइम साइमं लभित्ता । छंदिय साहम्मिआण भुंजे, भुच्चा सज्झायरए य जे स भिक्खू ।। ← (द. वै.अ. १० / गा. ९) इत्युक्तमिति । त्यक्तगुरुकुलवासानामध्ययनादिशून्यानां स्वच्छन्दयतीनां निर्दोषभिक्षायां केवलं स्वरूपतः सर्वसम्पत्करीत्वम् । स्वाध्याय-प्रत्युपेक्षणादियुक्तस्य गुर्वाज्ञाव्यवस्थितस्याऽपि कथञ्चिदाऽऽहारलोलुपतया सकम्पं सदोषपिण्डग्रहणे स्वरूपतोऽसर्वसम्पत्करीत्वेऽप्यनुबन्ध-हेतुतः सर्वसम्पत्करीत्वमेव । जिनकल्पिकादिभिक्षायामनुबन्धतः स्वरूपतश्च सर्वसम्पत्करीत्वेऽपि न व्यवहारनयेनानुबन्धतः सर्वसम्पत्करीत्वं यद्वा ज्ञानद्वारा गुर्वाज्ञाव्यवस्थिततया फलमुखेन नैश्चयिकानुबन्धशुद्धिरपि तत्रावसेया ।
४००
•
यद्वा 'आणाए जिणवराणं न हु बलियतरा उ आयरियआणा ← (नि.भा ५४७२ ) इति निशीथभाष्यवचनाद् गुर्वाज्ञातोऽपि बलीयस्या जिनाज्ञया प्रवर्तनात् 'सहस्रे शतं प्रविष्टमेवे 'ति न्यायेन तत्र साक्षादपि पारमार्थिकानुबन्धशुद्धिरव्याहतैव ।
=
जिनकल्पादेर्गुर्वाज्ञारूपत्वमते तु साक्षादेव तात्त्विकाऽनुबन्धशुद्धिः तत्राऽव्याहता । एतेन गुर्वाज्ञयैव चातुर्मासादिकृतेऽन्यत्र स्थितानामध्ययनाद्यन्वितानां सदानारम्भिणां यतीनामपि भिक्षा व्याख्याता । एवमपवादतः पञ्चकपरिहाण्यादियतनया सदोषपिण्डं गृह्णतां गुरुकुलावस्थितानामध्ययनादिशीलानामनगाराणां भिक्षाया अनुबन्धतो हेतुतश्च सर्वसम्पत्करीत्वेऽपि न स्वरूपतः सर्वसम्पत्करीत्वं यद्वा शास्त्रोक्तयतनाद्वारा सदानारम्भपरिणामव्यवस्थिततया स्वहेतुमुखेन स्वरूपशुद्धिरपि तत्राऽव्याहता । एवं ज्वरादिग्रस्तदशायामपि निर्दोषभिक्षाग्राहिणां गुरुकुलस्थितानामध्ययनादिशीलानामपि ज्वराद्युपहतसामर्थ्यतयाऽध्ययनादिविकलानां भिक्षायाः स्वरूपतोऽ ऽनुबन्धतश्च सर्वसम्पत्करीत्वेऽपि न हेतुतः सर्वसम्पत्करीत्वं यद्वाऽध्यय
Jain Education International
વિશેષાર્થ :– ઉપાધ્યાયજી મહારાજે છેલ્લે અથવા કહીને જે જણાવ્યું કે ‘અષ્ટકજીમાં દ્રવ્ય સર્વસંપત્ઝરી ભિક્ષાને લક્ષ્યમાં રાખ્યા વિના કેવળ ભાવ સર્વસંપત્કરી ભિક્ષાનું લક્ષણ બતાવેલ છે' એનો આશય એ છે કે ૧૧ મી ડિમા વહન કરનાર શ્રાવકની ભિક્ષા ભાવસર્વસંપત્કરી ભિક્ષાનું કારણ હોવાથી દ્રવ્યસર્વસંપત્કરી ભિક્ષા છે. કેમ કે ભાવનું કારણ હોય તે દ્રવ્ય કહેવાય છે. અહીં દ્રવ્ય શબ્દ યોગ્યતા અર્થમાં જાણવો. અનુપયોગ કે અયોગ્યતા અર્થમાં નહિ. પ્રસ્તુત દ્રવ્ય સર્વસંપત્કરી ભિક્ષા ઉપરોક્ત લક્ષણનું લક્ષ્ય જ ન હોવાથી અવ્યાપ્તિ દોષ લક્ષણમાં નહિ આવે. ઉપરોક્ત લક્ષણનું લક્ષ્ય કેવળ ભાવ सर्वसंपत्डरी लिक्षा छे. (६/१०)
For Private & Personal Use Only
www.jainelibrary.org