________________
• सदानारम्भिताया आद्यभिक्षालक्षणे विशेषणोपलक्षणमीमांसा • ३९९ लक्षणाऽननुगमाऽऽपत्तेः । द्रव्यसर्वसम्पत्करीमुपेक्ष्य भावसर्वसम्पत्करीलक्षणमेव वा कृतमिदमिति यथातन्त्रं भावनीयम् ।।१०।। निरुक्तविशेषणास्तित्वाभिप्रायेण 'यतिर्ध्यानादियुक्त' इत्यादिवचनाङ्गीकारे, गच्छनिर्गतत्वेन गुर्वाज्ञाविकलत्वाज्जिनकल्पिकादेः नियमतः सदानारम्भकत्वविरहेण च यतिकल्पश्राद्धस्य सर्वसम्पत्करीभिक्षाभाजनत्वं न स्यात् । न च फलतो गुर्वाज्ञाव्यवस्थितत्वस्याऽप्येतस्या लक्षणान्तरत्वात् जिनकल्पिकादिभिक्षायां नाव्याप्तिः, सर्वसम्पत्कर-तत्कारणान्यतरविधानपरायणाप्तोपदेशानुवर्तित्वस्याऽप्येतस्याः स्वतन्त्रलक्षणत्वात्साधुकल्पश्राद्धभिक्षायामपि नाऽव्याप्तिरिति शङ्कनीयम्, एवं हि कक्षीकारे लक्षणाननुगमापत्तेः = सर्वसम्पत्करीभिक्षाया अनुगतलक्षणस्योच्छेदापत्तेः । तथा चैकेनैव लक्षणेन सर्वसम्पत्करीभिक्षात्वावच्छिन्नाऽसङ्ग्रहादव्याप्तिर्दुर्निवारैव ।
ननु चरमा प्रतिमा प्रतिपन्नस्य श्राद्धस्य श्रमणभूतत्वाभिधानात् प्रधानद्रव्यसाधुत्वसिद्धिवत् तद्भिक्षाया अपि श्रमणभिक्षाकल्पत्वात् प्रधानद्रव्यसर्वसम्पत्करीत्वं सिध्यति । भावश्रमणभिक्षायास्तु भावसर्वसम्पत्करीत्वमिति कथमनयोः हेतु-हेतुमतोरेकलक्षणं स्यात् ? अतोऽत्रानुगतलक्षणाऽसिद्धिर्न दूषणम्, अपि तु भूषणमेवेत्याशङ्कायां कल्पान्तरमाह- द्रव्यसर्वसम्पत्करी = भावसर्वसम्पत्करीकारणतया प्रधानद्रव्यसर्वसम्पत्करी भिक्षां उपेक्ष्य भावतः स्थविरकल्पिकसम्बन्धिनी भिक्षामुद्दिश्य भावसर्वसम्पत्करीलक्षणमेव वा कृतं श्रीहरिभद्रसूरिभिरष्टकप्रकरणे ‘यतिर्ध्यानादियुक्त' इत्यादिना । न च जिनकल्पिकभिक्षाया असमहादव्याप्तिरिति शङ्कनीयम्, जिनकल्पस्य श्रीहरिभद्रसूरिसमये विच्छिन्नत्वेन अन्यकारणेन वा तद्भिक्षाया प्रकृतलक्षणाऽलक्ष्यत्वात् । एतेन तीर्थकरभिक्षापि व्याख्याता; तस्याः प्रकृतलक्षणाऽलक्ष्यत्वात् । ततश्च स्वरूपत एव यतित्व-ध्यानादियुक्तत्वादीनामेतल्लक्षणे निवेशोऽभिमतः । यतित्वविरहादेवान्तिमप्रतिमाप्रतिपन्नश्राद्धस्य भिक्षाया व्यवच्छेदः । न चैवमपवादतो यतनया स्वल्पतरदोषोपेतपिण्डग्रहणेऽव्याप्तिराशङ्कनीया, स्थविरकल्पसम्बन्धिनीमौत्सर्गिकी भावसर्वसम्पत्करीभिक्षामेवोद्दिश्यैतल्लक्षणप्रणयनात् । न ह्यष्टकप्रकरणमपवादपदप्रदर्शनपरमित्यभ्युपगम्यते कैश्चित् । न चैवं लक्षणाननुगमो वक्तव्यः, लक्ष्यभेदे लक्षणभेदस्य न्याय्यत्वाद् इति यथातन्त्रं = जिनप्रवचनसिद्धान्तजातमनतिक्रम्य भावनीयं गम्भीरबुद्ध्या तत्त्वमेतत् । ___ इदमत्रास्माकमाभाति- ‘यतिर्ध्यानादियुक्त' इत्यादौ यतेः ध्यानादियुक्ततया हेतुशुद्धिरावेदिता, गुर्वाज्ञाव्यवस्थितत्वेनानुबन्धशुद्धिरुपदर्शिता, सदाऽनारम्भितया च स्वरूपतः शुद्धिरुक्ता । इत्थं हेतुस्वरूपानुबन्धशुद्धियुक्ततया यतेः सर्वसम्पत्करी भिक्षाऽभिमता । इयञ्च नैश्चयिकी सर्वसम्पत्करी भिक्षा, निश्चयस्य हेतुस्वरूपानुबन्धशुद्धिपरिपूर्णत्वात्, अन्यतरवैकल्येऽपि तदप्रवर्तनात् । ततश्च द्वाचફલતઃ બેમાંથી કોઈ પણ રીતે સદાઅનારંભિતા રહેલ હોય તેને સર્વસંપન્કરી ભિક્ષા કહેવાય. આવું માનવામાં લક્ષણમાં અનનગમ દોષ નહિ આવે.
અથવા એમ માનવું જોઈએ કે શ્રીહરિભદ્રસૂરિજી મહારાજે દ્રવ્યસર્વસંપરી ભિક્ષાની ઉપેક્ષા કરીને ભાવ સર્વસંપન્કરી ભિક્ષાનું જ આ લક્ષણ બનાવેલું છે. - આ રીતે કોઈ પણ શાસ્ત્રવચનનો વિરોધ न थाय ते शत विया२९॥ ४२वी. (६/१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org