________________
• अविरततपसो महागुणत्वाऽभावः
द्वात्रिंशिका-६/११
दीक्षाविरोधिनी भिक्षा पौरुषघ्नी प्रकीर्तिता । धर्मलाघवमेव स्यात्तया पीनस्य जीवतः ।। ११ ।।
क्षेति । दीक्षाया विरोधिनी ( = दीक्षाविरोधिनी) दीक्षाऽऽवरणकर्मबन्धकारिणी भिक्षा नाभोगवान् वृजिनभीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः । । ” ( षोडशक - १२ / ३) अथवा यो गुरुकुले वसतां प्रचुरसाधुत्वेन मनागनेषणीयभक्तभोजनसम्भवादिदोषोद्भावनतस्तन्निरपेक्षो भवति तस्यानेन व्यवच्छेद उक्तः । सद्गुरूपदेशानपेक्षो हि शास्त्रे निन्द्यते । यदाह “ जे उ तह विवज्जत्था, सम्मं गुरुलाघवं अयाणन्ता । सग्गाहा किरियरया, पवयणखिंसावहा खुद्दा ।।” ( पञ्चाशक - ११ / ३७ ) इत्यादि, 'व्यवस्थित' इह विशब्देन यः कदाचित् गुर्वाज्ञाव्यवस्थितः कदाचिदन्यथा तस्यापि व्यवच्छेदः ।
ये जिनकल्पिक-प्रतिमाकल्पिकादयो गच्छनिर्गतास्तेषां गुर्वाज्ञाविकलानां कथं विवक्षितभिक्षाभाक्त्त्वमिति, उच्यते, तत्कल्पस्यैव गुर्वाज्ञारूपत्वादिति । तस्येतीह दृश्यम्, ततस्तस्य यतेः किंविधस्येत्याह 'सदानारम्भिणः' सदा = सर्वकालं अनारम्भिणः = पृथिव्याद्युपमर्दपरिहारिणः । अनेन पृथिव्यादिषु असंयतस्य व्यवच्छेदः, ध्यानादियोगस्यापि तदीयस्य निष्फलत्वात् । आह च " सम्मद्दिठ्ठिस्स वि अविरयस्स न तवो महागुणो होइ । होइ हु हत्थिण्हाणं, तुंदच्छिययं व तं तस्स ।। " ( सम्यक्त्वप्रकरण-२६९) तुन्दाकर्षणे हि यावद् भ्रमिकाष्ठं दवरकेण मुच्यते तावदेव बध्यत इति । सदाग्रहणेन तु यो विहितसामायिकपौषधतया कदाचिदनारम्भी देशतो यतिस्तस्य व्यवच्छेद उक्तो भिक्षाकत्वेन तस्यागमेऽनभिधानात् ।
४०२
=
ननु य एकादशीं प्रतिमां प्रतिपन्नः श्रमणोपासकस्तस्य प्रतिमाकालावधिकत्वादनारम्भकत्वस्य न तदा तावदाद्या भिक्षा सम्भवति । नापि तदितरभिक्षैतस्य वक्ष्यमाणतत्स्वामिलक्षणायोगादिति काऽस्य भिक्षेति ?, अत्रोच्यते, तस्य श्रमणभूतत्वाभिधानात् तद्भिक्षाया अपि श्रमणभिक्षाकल्पत्वात्तस्यामवस्थायां तस्या आप्तोपदिष्टत्वाच्च सर्वसम्पत्करीकल्पत्वमवसेयम् । न ह्यसर्वसम्पत्करमऽतत्कारणं वा विधेयतया वस्त्वाप्ता उपदिशन्ति, आप्तत्वहानिप्रसङ्गादिति । इह ध्यानादियुक्त इत्यत्रादिशब्देन सदानारम्भित्वस्यावरोधेऽपि भेदेन तदुपादानं हेतुत्वार्थम् । ततश्च सदानारम्भिकत्वाद्धेतोः 'सर्वसम्पत्करी' उक्तनिर्वचना मता तत्त्वविदामिति । सदानारम्भस्य हि वृत्तिर्भिक्षयैवान्यथा त्वारम्भित्वप्रसङ्गात् सा चाऽनारम्भित्वादेव सर्वसम्पत्करी । अत एव साऽतिप्रशस्या । यदाह “ अहो जिणेहिं असावज्जा, वित्ती साहू देसिया | मुक्ख - साहणहेउस्स साहुदेहस्स धारणा ।।” ( दशवैकालिक. ५/१/९२) ← (अष्टक ५ / २ वृत्ति) इति ।।६/१०।।
अवसरसङ्गतिप्राप्तां द्वितीयां भिक्षां निरूपयति- 'दीक्षे 'ति । दीक्षावरणकर्मबन्धकारिणी = चारित्रमोहनीयकर्मबन्धकारिणी भिक्षा पौरुषघ्नी प्रकीर्तिता पूर्वाचार्यैः । अनेन तल्लक्षणमुक्तम् । यद्यपि भिक्षा न दीक्षाविरोधिनी किन्तु भिक्षुकस्य दीक्षाविरोधेन चारित्रमूलोत्तरगुणविराधनात्मकेन . वर्तमानस्य # પૌરુષઘ્ની ભિક્ષા
ગાથાર્થ :- દીક્ષાવિરોધી એવી ભિક્ષા પૌરુષની કહેવાયેલ છે. તગડો હોવા છતાં ભિક્ષા દ્વારા જીવન જીવવાથી ધર્મલાઘવ જ થાય છે. (૬/૧૧)
ટીકાર્થ :- દીક્ષાને આવરે-અટકાવે તેવા કર્મને બંધાવનારી ભિક્ષા પૌરુષઘ્ની ભિક્ષા કહેવાયેલ છે. હૃષ્ટ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org