________________
३८६
• व्यवहारतः चारित्रस्वरूपप्रकाशनम् • द्वात्रिंशिका-६/५ स्वस्थेति। स्वस्था = अनाकूला वृत्तिः कायादिव्यापाररूपा यस्य तस्य (=स्वस्थवृत्तेः) साधोः'तु तृतीयं विरतिः = सदसत्प्रवृत्तिनिवृत्त्यात्मिका तया अवच्छिन्नं = उपहितं (=विरत्यवच्छिन्नं) अविघ्नेन = विघ्नाऽभावेन फलप्रदम् । तदाह
स्वस्थवृत्तेः प्रशान्तस्य तद्धेयत्वादिनिश्चयम् ।।
तत्त्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ।। (अष्टक ९/६) इदं च सज्जास्वस्थवृत्तेः साधोः तृतीयं = तत्त्वसंवेदनाभिधानं ज्ञानं स्यात् । अनेन स्वाम्युपदर्शितः । विरतिः = सदसत्प्रवृत्ति-निवृत्त्यात्मिका, तदुक्तं बृहद्रव्यसङ्ग्रहे → असुहादो विणिवित्ती, सुहे पवित्ती य जाण चारित्तं । वद-समिदि-गुत्तिरूवं ववहारनया दु जिणभणियं ।। - (बृ.द्र.सं. ४५) इति । तया = विरत्या उपहितं = स्वोत्पत्त्यव्यवहितपूर्वक्षणवृत्तित्वसम्बन्धेन विशिष्टं तत्त्वसंवेदनं ज्ञानं विघ्नाभावेन = अक्षेपेण फलप्रदं = मोक्षकारणम् । तस्यैव संसारमूलभूतकामबन्धननाशकत्वात् । तदुक्तं अध्यात्मगीतायां → भवमूलं तु कामोऽस्ति ज्ञानात् कामो विनश्यति । आत्मज्ञानं विना कामबन्धनं न विनश्यति ।। - (अध्या.गी.३३३) इति ।
प्रकृते ग्रन्थकृद् अष्टकसंवादमाह- 'स्वस्थे'ति । तद्वृत्तिस्त्वेवम् → स्वस्था = अनाकुला वृत्तिः = वचन-कायव्यापाररूपं वर्तनं यस्य स तथा तस्य = स्वस्थवृत्तेः । एतदेव कुतः ? इत्याह प्रशान्तस्य = रागद्वेषाद्युपशमप्रकर्षवतः, तत्त्वसंवेदनं भवतीति क्रिया । किम्भूतमित्याह तेषां = ज्ञेयवस्तुतत्त्वानां हेयत्वादि = त्यजनीयत्वादि आदिशब्दादुपादेयत्वोपेक्षणीयत्वपरिग्रहः तत्र निश्चयो = निर्णयो यस्य तत् = तद्धेयत्वादिनिश्चयम् इति । अथवा यदिति शेषस्ततश्च स्वस्थवृत्तेः प्रशान्तस्य पुंसो यत् ज्ञानं तत्तत्त्वसंवेदनमिति योगः तत्त्वसंवेदनं उक्तनिर्वचनं सम्यक् = समीचीनतया यथाशक्ति = पुरुषसंहननादिसामर्थ्यानुसारतः फलप्रदं = स्वप्रयोजनप्रसाधकम्, ज्ञानस्य चानन्तरं फलं विरतिः परम्पराफलं त्वपवर्गः (अ.प्र.९/ वृ.) - इति । ज्ञानस्य फलं व्यवहारतः तत्त्वरुचिः निश्चयतश्चाऽतत्त्वविरतिरित्यस्माकं प्रतिभाति ।
मुजादिषीकोद्धरणन्यायादत्रात्मतत्त्वसंवेदनं विशदतरमवसेयम् । यथा मुजाभिधानात् तृणविशेषाद् इषीका = गर्भस्थं कोमलतरं तृणं युक्त्या बहिरावरकत्वेन स्थितानां स्थूलपत्राणां विभजनलक्षणेनोपायेन समुध्रियते तथाऽऽत्माप्यत्रौदारिकादिशरीरादिभ्यो धीरैः पृथक्कृतो विशदतरमनुभूयते । ग्रन्थकृदेतस्य कारणमाह- सज्ज्ञानावरणस्य क्षयोपशमात् प्रादुर्भवति । अष्टकसंवादमाह- 'सज्ज्ञानावरणापायमिति । “सत्
ટીકાર્ય :- જેની મન-વચન-કાયાની પ્રવૃત્તિ સ્વસ્થ છે તેવા મહાત્માને તત્ત્વસંવેદન નામનું તૃતીય જ્ઞાન હોય છે. સમ્પ્રવૃત્તિ અને અસતુનિવૃત્તિરૂપ = હિંસાદિથી નિવૃત્તિ સ્વરૂપ વિરતિથી તે જ્ઞાન વિશિષ્ટ હોય છે. તેમ જ વિઘ્ન વિના તે જ્ઞાન ફળદાયી છે. અષ્ટકજીમાં જણાવેલ છે કે “સ્વસ્થવૃત્તિવાળા પ્રશાન્ત મહાત્માને વિષયગત હેયત્વ આદિ ગુણધર્મોના નિશ્ચયવાળું તત્ત્વસંવેદનશાન હોય છે. તે શક્તિ મુજબ ફળને આપનાર હોય છે.” આ જ્ઞાન સત્ જ્ઞાનાવરણ કર્મના ક્ષયોપશમથી ઉત્પન્ન થાય છે. અષ્ટકજીમાં પણ “તૃતીય જ્ઞાન १. मुद्रितप्रतौ 'तु' पदं नास्ति । २. मुद्रितप्रतौ 'अपहितं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org