________________
• आत्मपरिणतिशालिज्ञानफलविचारः •
३८५ कर्मणा पूर्वाऽर्जितेन सुख-दुःखयुक् = सुख-दुःखान्वितम् । तदाह -
'पातादिपरतन्त्रस्य तद्दोषादावसंशयम् । अनर्थाद्याप्तियुक्तं चाऽऽत्मपरिणतिमन्मतम्' (अष्टक९/४) ।।४।। स्वस्थवृत्तेस्तृतीयं तु सज्ज्ञानावरणव्ययात् । साधोर्विरत्यवच्छिन्नमविघ्नेन फलप्रदम् ।।५।। विषक्तचित्तः ।। - (शृं.श.४५) इति शृङ्गारशतके भर्तृहरिवचनमपि व्याख्यातम्, 'लोकयात्रां = मोक्षमार्ग' इति तद्वृत्तौ जैननिर्ग्रन्थ-धनसारगणी ।
___ अवशिष्टमाह- पूर्वार्जितेन कर्मणा सुख-दुःखान्वितं = बाह्यसुख-दुःखोपेतम् । अष्टकसंवादमाह 'पातादी'ति । तद्वृत्तिलेशस्त्वेवम् → पातः = अधःपतनमादि यस्योर्ध्वतिर्यगाकर्षणविपरीतशिक्षाश्वोद्वहनादेस्तत्पातादि तेन तस्य वा परतन्त्रः = परायत्तः पातादिपरतन्त्रः, पातादिपरतन्त्र इव ‘पातादिपरतन्त्रः' तस्य विषयकषायादिवशीकृतस्य देहिनः तस्मिन् पातादौ यो दोषोऽङ्गभङ्ग-मरणादिलक्षणः स आदिर्यस्य रुतोत्करमृदुस्पर्शादिगुणस्य स तथा तत्र तदोषादौ, दार्टान्तिके तु कर्मबन्धदुर्गत्यादिदोषे गुणे चाभ्युदयादौ ज्ञेये, असंशयम् = उपलक्षणत्वादविद्यमानसन्देहविपर्ययं विलीनमोहग्रन्थित्वेन यथावन्निश्चयस्वरूपमित्यर्थः, अनर्थोऽपायोऽङ्गभङ्गादिरादिर्यस्य सुखस्पर्शादेरर्थस्य स तथा तस्याऽऽप्तिः = प्राप्तिस्तया युक्तं = अन्वितम् अनर्थाद्याप्तियुक्तम् । इह च यद्यपि पुरुषस्यैवानर्थाद्याप्तियोगस्तथापि ज्ञानाऽव्यतिरिक्तत्वात्तस्य ज्ञानमेवानर्थाद्याप्तियुक्तमुक्तम्, दार्टान्तिके तु अनर्थाद्याप्तिः कर्मबन्धदुगतिगमनपरम्परापवर्गगमनरूपावगन्तव्या, चशब्दो विशेषणान्तरसमुच्चयार्थः, तदेवंविधं ज्ञानम्, आत्मपरिणतिमत् प्रतिपादितनिर्वचनं मतं = अभिमतमध्यात्मतत्त्वविदुषाम् + (अ.९/४ वृत्ति) इति । चारित्रमोहविपाकोदयादिलक्षणप्रतिबन्धनाशायाऽऽत्मपरिणतिमज्ज्ञानं स्वभूमिकोचित-विहित-विशुद्धाचारभगवद्भक्त्यादिसाहाय्यमपेक्षत इत्यवधेयम् । सम्मतश्चायमर्थः परेषामपि । तदुक्तं रामगीतायां → बोधस्सप्रतिबन्धश्चेत् कर्माऽपेक्षोपपद्यते - (रा.गी.९/४४) इति ।।६/४ ।। ___अवसरप्राप्तमन्तिमज्ञानं स्वाम्यादिभेदेन निरूपयति- 'स्वस्थवृत्ते'रिति ।
તથા પૂર્વે ઉપાર્જિત કર્મના લીધે આ જ્ઞાન સુખ-દુઃખથી યુક્ત હોય છે. અષ્ટકજીમાં પણ જણાવેલ છે કે – “ખાડા વગેરેમાં પડી રહેલા જીવને એ સમયે નીચે પડવાથી થનારા દોષ વગેરેનો નિર્ણય ચોક્કસ થયેલ હોવા છતાં હાથ-પગ ભાંગવા વગેરે રૂપ નુકશાનને તે ભોગવે છે. કારણ કે એ પોતાને નીચે પડતો અટકાવી શકતો નથી. આવું જ્ઞાન સમકિતીનું હોય છે. ભોગ સુખથી થનારા નુકશાનનો સમકિતીને નિર્ણય હોવા છતાં કર્મ તથા સત્ત્વહીનતાદિના લીધે ભોગસુખ અને આરંભની પ્રવૃત્તિથી એ બચી શકતો ન હોવાથી અનર્થને પામે છે. આમ આત્મપરિણતિયુક્ત જ્ઞાન અનર્થ વગેરેથી યુક્ત डेवायेद छ.' - (६/४)
- तत्परसंवहन ज्ञान . ગાથાર્થ - સ્વસ્થવૃત્તિવાળા સાધુને સમ્યફજ્ઞાનાવરણના ક્ષયોપશમથી ઉત્પન્ન થયેલ તૃતીય જ્ઞાન હોય છે. તે જ્ઞાન વિરતિથી વિશિષ્ટ હોય છે. તથા વિના વિને ફળને આપે છે. (૬/૫)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org