________________
३८४ • प्रतिबन्धद्वैविध्यप्रज्ञापनम् •
द्वात्रिंशिका-६/४ ९/५) श्रद्धावत् = वस्तुगुणदोषपरिज्ञानपूर्वकचारित्रेच्छान्वितं प्रतिबन्धेऽपि चारित्रमोहोदयजनितान्तरायलक्षणे सति, दमाह 'ज्ञानावरणेति । → तथाविधप्रवृत्त्यादिव्यङ्ग्यं सदनुबन्धि च । ज्ञानावरणह्रासोत्थं प्रायो वैराग्यकारणम् ।। - (अ.प्र.९/५) इति सम्पूर्णा कारिका । क्रियानयाऽऽनुगुण्येनाह श्रद्धावत् = वस्तुगुणदोषपरिज्ञानपूर्वकचारित्रेच्छान्वितं, चारित्रमोहोदयजनितान्तरायलक्षणे प्रतिबन्धे सत्यपि । ज्ञाननयाऽऽनुगुण्येन त्वित्थं ज्ञेयं 'प्रतिबन्धे = ज्ञानावरणोदयजन्यविधाते सति अपि 'तमेव सच्चं...' इत्येवं पूर्वोक्त(पृ.९३)वचनात् श्रद्धावत्' इति । तदुक्तं → भिन्ने तु इतो णाणं जहऽक्ख-रयणेसु तग्गयं चेव | पडिबंधम्मि वि सद्धादिभावतो सम्मरूवं तु ।। - (उप.प.३७४) इति उपदेशपदगाथाया वृत्तौ श्रीमुनिचन्द्रसूरिभिः → भिन्ने तु = विघटिते तु पुनः ग्रन्थौ इतः = ग्रन्थिभेदादनन्तरमेव ज्ञानं विशदविमर्शवशोपलब्धविशुद्धतत्त्वतया शुद्धबोधरूपं विजृम्भते । दृष्टान्तमाह यथाऽक्षरत्नयोर्विषये तस्यैव शिशोरशिशुभावप्राप्तौ तद्गतं चैवाक्षरत्नविभागगोचरमेव ।
ननु भिन्नग्रन्थीनां केषाञ्चिद् माषतुषसदृशानां न किञ्चिद् ज्ञानविजृम्भणमुपलभ्यते इत्याशझ्याहप्रतिबन्धेऽपि = तथाविधज्ञानावरणोदयाद् विघातेऽपि श्रद्धादिभावतः = ‘तमेव सच्चं णिसंकं जं जिणेहिं पवेइयं' (आचाराग-५/५/१६२) इत्यादेः श्रद्धानस्य, आदिशब्दात् गीतार्थप्रज्ञापनीयत्वस्य च भावात् तुच्छमपि ज्ञानं, सम्यग्रूपमेव, परिपूर्णलाभहेतुत्वात् । यथाहि शुक्लपक्षक्षपापतेरतितुच्छोऽपि प्रतिपत्तिथावुज्ज्वलतालाभस्सम्यगेव, परिपूर्णतदुज्ज्वलभावलाभस्याचिरादेव सम्पत्तिनिमित्तत्वात् तथा प्रकृतज्ञानमपि क्रमेण केवलज्ञानाऽविकलकारणभावापन्नमेव वर्तते 6 (उप.प.३७४ वृत्तिः) इति । इयञ्च श्रद्धैव हि निजविशुद्धात्मस्वरूपदर्शनकारणीभूतात्मपरिणामवज्ज्ञानप्राणभूता वर्तते । प्रकृते → श्रद्धया प्राप्यते धर्मः श्रद्धया ब्रह्मदर्शनम् - (म.गी. १/२७) इति महावीरगीतावचनमपि स्मर्तव्यम् ।
सौगतानामपि सम्मतमिदम् । तदुक्तं सुत्तनिपाते → सद्धाय तरती ओघं (सु.नि.१/१०/ ४) इति । ___अष्टकवृत्तिकृत्तु → प्रतिबन्धेऽपि = सदनुष्ठानव्याघातेऽपि - (अ.प्र.९/५ वृ.) इत्येवं क्रियानयाऽऽनुगुण्येनोक्तवान् ।
अथाविरतसम्यग्दृष्टिज्ञानं → प्रारब्धकर्मभोगस्तु भुज्यते गृहि-साधुभिः । विना भोगं न मुच्यन्ते इन्द्राद्या अपि जानतः ।। 6 (अध्या.गी.९८) इति अध्यात्मगीताद्यनुसारेण प्रबलावश्यवेद्यचारित्रमोहोदयादिन्द्रियानुकूलप्रवृत्त्या मोक्षनिमित्तं कथं स्यात् ? उच्यते, संसारविषवृक्षमूलभूताशुभतरानुबन्धविच्छेदानियमेन तस्य मोक्षाङ्गत्वात्; → जमिणं असप्पवित्तीए दव्वओ संगयं पि नियमेण । होति फलंगं असुहाणुबंधवोच्छेयभावाओ ।। 6 (उप.प.३७५) इति उपदेशपदवचनमत्रानुसन्धेयम् । एतेन → यथाऽऽतुरः पथ्यमरोचमानं जिजीविषुः भेषजमाददीत । तथा यियासुर्भुवि लोकयात्रां भुञ्जीत भोगानઅવિરત સમક્તિીને ચારિત્રમોહનીય કર્મના ઉદયના લીધે ચારિત્રનો અંતરાય હોવા છતાં પણ સંસારના દોષ અને સંયમના ગુણનું ભાન હોવાથી ચારિત્રની ઈચ્છાથી તે જ્ઞાન યુક્ત હોય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org