________________
३८०
• त्रिविधज्ञानानां मत्यादिविशेषरूपता • द्वात्रिंशिका-६/२ विषयप्रतिभासं चाऽऽत्मपरिणतिमत्तथा। तत्त्वसंवेदनं चैव ज्ञानमाहुर्महर्षयः।। (अ.९/२) ।।२।। प्रतिभासत्वप्रयोज्येति शङ्कनीयम्, चारित्रमोहोदयजनितान्तरायलक्षणस्य प्रतिबन्धकस्य सत्त्वादविरतसम्यग्दृक्प्रवृत्तेः तथाविधकर्मोदयसहकृतप्रतिभासत्वप्रयोज्यत्वाभ्युपगमात् ।।
__ वस्तुतस्तु प्रवृत्तिहेतुता तत्तदर्थज्ञानानां तद्विषयकवीर्यान्तरायकर्मक्षयोपशमजनकत्वेनैव। एतेन इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाऽजनकेऽप्यलसस्याप्रवृत्तिरुपपादिता, विध्यर्थज्ञानेऽपि तत्राऽऽलस्यदोषप्रतिबन्धेन वीर्यान्तरायकर्मक्षयोपशमाऽनिष्पत्तेः । इत्थमेव चाविरतसम्यग्दृष्ट्यादेः शक्यविरत्यादौ प्रवृत्त्यभावोपपत्तिः; तत्र तस्य बलवदनिष्टहेतुताज्ञाने बलवद्वेषे वाभ्युपगम्यमाने सम्यक्त्वक्षतिरेव, विपर्ययस्य मिथ्यात्वलक्षणत्वात् । अत एव श्रद्धालोः शक्यविरत्याद्यभावोपपत्तये चारित्रमोहनीयं कर्म कल्प्यते इति (अ.स.ता.परि.१ पृ.५२/पं.४) व्यक्तं अष्टसहस्रीतात्पर्यविवरणे । इत्थमविरतसम्यग्दृष्टेरात्मपरिणामवदपराभिधानं तत्त्ववेदनमेवास्ति न तु तत्त्वसंवेदनाभिधानं तृतीयज्ञानमिति स्थितम् ।
केचित्तु विषयप्रवृत्तिपदेन पञ्चेन्द्रियविषयप्रतियोगिकी प्रवृत्तिः, विरतिप्रवृत्तिपदेन च पापविरतिप्रतियोगिकी प्रवृत्तिरिति व्याख्यानयन्ति । तच्चिन्त्यम् ।
ज्ञानत्रैविध्यकीर्तनसंवादरूपेण अष्टकश्लोकमाह- 'विषयप्रतिभासमिति। तद्वृत्तिस्त्वेवम् → 'विषयः' = श्रोत्रादीन्द्रियज्ञानगोचरः शब्दादिः, तस्यैव न पुनस्तत्प्रवृत्तौ तज्जन्यस्यात्मनोऽर्थानर्थसद्भावस्य, 'प्रतिभासः' प्रतिभासनं = परिच्छेदो यत्र तत् विषयप्रतिभासम्, ऐहिकाऽऽमुष्मिकेषु छाद्यस्थिकज्ञानविषयेष्वर्थेषु प्रवृत्तावात्मनस्तात्त्विकार्थानर्थप्रतिभासशून्यमित्यर्थः, ज्ञानमाहुरिति सम्बन्धः। चशब्द उत्तरज्ञानविशेषापेक्षया समुच्चयार्थः, इदं च मिथ्यादृशां भवतीति । तथा आत्मनो जीवस्य, परिणतिरनुष्ठानविशेषसम्पाद्यः परिणामविशेषः, सैव ज्ञेयतया यस्मिन्नस्ति ज्ञाने न पुनस्तदनुरूपप्रवृत्तिनिवृत्ती अपि, तद् आत्मपरिणतिमत् तथेति समुच्चये, इदं चाविरतसम्यग्दृष्टीनां भवतीति । तत्त्वं परमार्थः, तत्सम्यग् वेद्यते ज्ञायते येन तत् तत्त्वसंवेदनम् हेयोपादेयार्थनिवृत्तिप्रवृत्तिसम्पादकमित्यर्थः, चशब्दः समुच्चये, एवकारोऽवधारणे, तस्य चैवं प्रयोगः, तत्त्वसंवेदनमेव च नोक्तव्यतिरिक्तम्, इदं च(तु) विशुद्धचारित्रिणां स्यात् । ज्ञानं = बोधं आहुः = ब्रुवते, महर्षयः = महामुनयः । एते च त्रयोऽपि ज्ञानभेदा मत्यादिविशेषा एवेति + (अ.प्र. ९/१ वृ.) ।।६/२।।
અષ્ટક પ્રકરણમાં શ્રીહરિભદ્રસૂરિજી મહારાજે પણ જણાવેલ છે કે – “વિષયપ્રતિભાસ, આત્મપરિણતિયુક્ત અને તત્ત્વસંવેદન- આમ ત્રણ પ્રકારે જ્ઞાન છે” એમ મહર્ષિઓ કહે છે. ૯ (૬૨)
વિશેષાર્થ - મિથ્યાદષ્ટિને ઘડાનો બોધ ઘડા રૂપે જ હોય છે. તથા વ્યવહારથી તેમાં ઈષ્ટત્વ, અનિષ્ટત્વ વગેરે ગુણ ધર્મોનું ભાન પણ તેને રુચિ મુજબ થતું હોય છે. તેથી સ્ત્રી, ધન, ભોજન વગેરે વિષયમાં ઉપાદેયત્વનું ભાન કરાવી તેમાં તે જ્ઞાનથી પ્રવૃત્તિ થતી હોય છે. તથા ઝેર, સાપ, વાઘ વગેરે વિષયમાં હેયત્વનું ભાન કરાવી તેનાથી નિવૃત્તિ પણ તે જ્ઞાન કરાવે જ છે. પરંતુ આત્માને વાસ્તવમાં બાહ્ય વિષયો લાભકારી છે કે નુકશાનકારક ? તેનું ભાન મિથ્યાત્વીના જ્ઞાન દ્વારા થતું ન હોવાથી તે જ્ઞાન વિષયપ્રતિભાસ જ્ઞાન કહેવાય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org