________________
• कारणतावच्छेदकस्य प्रयोजकत्वनियमः •
=
तस्य ज्ञानाऽज्ञानसाधारण-प्रतिभासत्वप्रयोज्यविषयप्रवृत्त्याद्युपहितत्वेऽपि ज्ञानत्वप्रयोज्यविरतिप्रवृत्त्याद्युपहितत्वाऽभावादिति च । इति अमुना प्रकारेण त्रिधा ज्ञानं प्रकीर्तितम् । तदाहतसम्यग्दृष्टिज्ञाननिवृत्तिः बोध्यते । न च मिथ्यादृष्टेः सम्यग्दृष्टेर्वा ज्ञानादपि प्रवृत्तिर्निवृत्तिश्च जायत एव, इष्टसाधनताज्ञानस्य प्रवर्तकत्वात् अनिष्टसाधनताज्ञानस्य च निवर्तकत्वादिति सम्यक्पदेन नोभयज्ञाननिवृत्तिः बोधयितुं शक्यते, न च मिथ्यादृष्टिबोधस्य सदसदविशेषात् अज्ञानरूपत्वात् ज्ञानत्वविरहोऽप्युद्भावनीयः, पापादौ मिथ्याज्ञानात् निःशङ्कप्रवृत्तेरविरतसम्यग्दृष्टिज्ञानाच्च साशङ्कप्रवृत्तेरुपलम्भेन तयोर्ज्ञानाऽज्ञानसाधारणार्थप्रकाशकत्वप्रयोज्यविषयप्रवृत्त्याद्युपहितत्त्वात् सम्यक्पदमनतिप्रयोजनमिति शङ्कनीयम्, तस्य = अविरतसम्यग्दृष्टिज्ञानस्य उपलक्षणात् मिथ्याज्ञानस्य च ज्ञानाज्ञानसाधारणप्रतिभासत्वप्रयोज्यविषयप्रवृत्त्याद्युपहितत्वेऽपि ज्ञानाज्ञानोभयगतमर्थप्रकाशकत्वलक्षणं यत्प्रतिभासत्वं तत्प्रयोज्येष्टानिष्टविषयप्रवृत्तिनिवृत्तिव्याप्यत्वे सत्यपि ज्ञानत्वप्रयोज्यविरतिप्रवृत्त्याद्युपहितत्वाऽभावात् सम्यग्ज्ञानमात्रनिष्ठज्ञानत्वप्रयोज्यपापविरति पुण्य-संवरादिप्रवृत्त्युत्पत्तिव्याप्यत्वविरहात् ।
अयमाशयः प्राणातिपातादिरूपात् पापात् विरतिः स्वाध्याय - ध्यान - तपश्चरणादौ पुण्यसंवरादिकृत्ये योग्यताद्यनुगता प्रवृत्तिश्च ज्ञानफलमुच्यते । तदुक्तं उपदेशपदे णाणस्स फलं विरती पावे, पुन्नम्मि तह पवित्तीओ जोगत्तादिअणुगया ← (उप.प.गा. ४४८ भा. २ पृ. २४० ) इति पापविरतेः पुण्यप्रवृत्तेश्च ज्ञानत्वप्रयोज्यत्वं सिध्यति, कारणतावच्छेदकस्य प्रयोजकत्वनियमात्, घटस्य दण्डत्वप्रयोज्यत्ववत् । मिथ्याज्ञाने सम्यग्दृष्टिज्ञाने वा ज्ञानत्वप्रयोज्यपापविरति - पुण्यप्रवृत्त्युपधायकत्वं नास्ति, सत्यपि तस्मिन् पापप्रवृत्तेः पुण्यनिवृत्तेश्चोपलम्भात् । तत्त्वसंवेदनज्ञाने तु प्रवृत्त्याद्युपहितत्वेन प्रतिभासत्वप्रयोज्यविषयप्रवृत्त्याद्युपहितत्वेन वा तत्त्ववेदनं नाभिमतं किन्तु सम्यग्ज्ञानमात्रवृत्तिज्ञानत्वप्रयोज्यपापविरति-पुण्यप्रवृत्त्याद्युपहितत्वेनैव तदभिमतम् । अतो मिथ्याज्ञानाऽविरतसम्यग्दृष्टिज्ञानयोर्व्यवच्छेदोऽनाविल एव ।
=
३७९
=
मास्तु कस्यचित् सज्ज्ञान- मिथ्याज्ञानसाधारणत्वेन ज्ञानत्वभ्रम इति प्रतिभासत्वपदनिवेशः । ज्ञानत्वस्य प्रतिभासत्वन्यूनवृत्तित्वं न तु समव्याप्तत्त्वमिति न तयोरैक्यमाशङ्कनीयम् । मिथ्याज्ञाने तु ज्ञानत्वमेव नास्ति। अतः मिथ्यादृष्टिप्रवृत्तेः प्रतिभासत्वप्रयोज्यत्वेऽपि ज्ञानत्वप्रयोज्यत्वविरहात्, परमार्थवेदनाऽभावाच्च नातिप्रसङ्गः । अविरतसम्यग्दृष्टिज्ञाने प्रतिभासत्वं ज्ञानत्वञ्च स्तः । अविरतसम्यग्दृष्टेर्या भोजनपानशयनाऽऽसन-स्नान-कामभोगादिप्रवृत्तिस्तस्याः प्रतिभासत्वप्रयोज्यत्वमेव न तु ज्ञानत्वप्रयोज्यत्वम् । न च प्रतिभासत्वापेक्षया ज्ञानत्वस्याधिकबलत्वादविरतसम्यग्दृशो ज्ञानत्वप्रयोज्यैव प्रवृत्तिरुपहिता स्यान्न तु
For Private & Personal Use Only
= પ્રકાશત્વ
કારણ કે સમકિતીના બોધમાં જ્ઞાન અને અજ્ઞાન-બન્નેમાં સાધારણ ગુણધર્મ = પ્રતિભાસત્વ = બોધત્વ હોવાના લીધે તેનાથી સંપાઘ ઈષ્ટ વિષયમાં પ્રવૃત્તિથી અને અનિષ્ટવિષયનિવૃત્તિથી સમકિતીનું જ્ઞાન યુક્ત હોવા છતાં પણ જ્ઞાનત્વસંપાઘ = સમ્યજ્ઞાનત્વપ્રયોજ્ય પાપવિરતિ વગેરે સ્વરૂપ પ્રવૃત્તિથી યુક્ત ન હોવાના લીધે સમકિતીનો બોધ તત્ત્વસંવેદન જ્ઞાનરૂપ બની શકે નહિ. (અર્થાત્ તત્ત્વનું પરમાર્થનું સમ્યક્ રીતે = સમ્યજ્ઞાનપ્રયોજ્ય વિરતિથી યુક્ત હોવા રૂપે વેદન સમિતીના બોધ દ્વારા ન થઈ શકવાથી તેનો બોધ તત્ત્વસંવેદનસ્વરૂપ બની શકે નહિ.) આ રીતે જ્ઞાનના ત્રણ પ્રકાર જણાવેલ છે. १. मुद्रितप्रतौ ' ...हित्वेऽपि ' इत्यशुद्धः पाठः ।
=
Jain Education International
www.jainelibrary.org