________________
३७६
• साधूनां नित्योपवासित्वविधानम् •
ज्ञानेनेति । व्यक्तः || १ || विषयप्रतिभासाऽऽख्यं तथाऽऽत्मपरिणामवत् । तत्त्वसंवेदनं चेति त्रिधा ज्ञानं प्रकीर्त्तितम् ||२|| मौनित्वं तपो ध्यानं विशेषतः । सम्यक् च ज्ञान-वैराग्यं धर्मोऽयं भिक्षुके मतः ।। ← (सं.गी. ६ / ९०) इत्येवं निरूपणात् मौनेन मौनित्वं तपसा तपस्वित्वं ध्यानेन च ध्यानित्वमत्राऽसङ्गृहीतमिति साधुसामग्र्यानुपपत्तिरिति चेत् ?
अत्रोच्यते, मौनित्व- तपो ध्यानानां यथाक्रमं वैराग्य- भिक्षा - ज्ञानान्तर्गततया वैराग्यादिग्रहणे तेषामपि सत्त्वसिद्धेर्न साधुसामग्र्यव्याहतिः । न चैवं सति दृढवैराग्याद् बोधो भवति ← ( महो. ४ / २६) इति महोपनिषद्वचनाद् वैराग्यग्रहणेनैव ज्ञानस्य गृहीतत्वसम्भवात्तदग्रहणप्रसङ्ग इति शङ्कनीयम्, प्रव्रज्यायां ज्ञानप्राधान्यदर्शनाय तद्ग्रहणात्, कारणस्य कार्यजनकत्वाऽवश्यम्भावविरहाच्च । न च तथापि भिक्षाव्यापकता कथं तपस इति शङ्कनीयम्, तत्त्वतस्तस्यास्तपोरूपत्वात्तत्राऽन्तर्भावात्तस्य । तदुक्तं आदित्यपुराणे → उपवाससमा भिक्षा प्रोक्ता वै ब्रह्मचारिणाम् ← ( आ. पु. १७/१६) इति । अज्ञातोञ्छकुलकेऽपि निरवज्जाऽऽहारेणं साहूणं निच्चमेव उपवासो ← ( अज्ञा. कु. १५ ) इत्युक्तम् ।
उप = सह उपावृत्तदोषस्य सतो गुणैराहारगृद्ध्यादित्यागरूपैर्वासो हि तत्त्वत उपवास उच्यते । तदुक्तं श्रीहरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चयाऽपराभिधाने ब्रह्मप्रकरणे उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह । उपवासः स विज्ञेयो न शरीरविशोषणम् ।। ← ( ब्र.प्र. २४१ ) इति । अन्यत्रापि → अकृताऽकारिणं शुद्धमाहारं धर्महेतवे । अश्नतोऽपि मुनेर्नित्योपवासफलमुच्यते ।। ← ( अज्ञातोञ्छकुलकवृत्ति) इत्युक्तम् । आहारतृष्णां विना निर्दोषभिक्षाग्रहणे दिगम्बराणामप्युपवासः सम्मतः । प्रसिद्धचायमर्थः प्रवचनसारे अण्णं भिक्खमणेसणमध ते समणा अणाहारा ← ( प्र . सार . ३ / २७ ) इत्यत्र । प्रकृते ‘उपवासात् परं भैक्षं' (व.स्मृ.१०/६) इति वशिष्ठस्मृतिवचनं, नक्ताद् वरश्चोपवास उपवासादयाचितः । अयाचिताद् वरं भैक्षं तस्माद् भैक्षेण वर्तयेत् ।। ← ( सं . उप. २ / ६२ ) इति च संन्यासोपनिषद्वचनं यथातन्त्रमनुयोज्यं गुरुकुलवासपरायणैः ।।६/१।
→ पढमं नाणं तओ दया ← ( द. वै. ४/१० ) इति दशवैकालिकसूत्रवचनात्, → ज्ञानधनानां हि साधूनां किमन्यद् वित्तं स्यात् ? ← (सू.कृ.चू. १/१४) इति सूत्रकृताङ्गचूर्णिवचनात्, → आगमबलिया समणा निग्गंथा ← ( व्य. सू. १०/३ ) इति व्यवहारसूत्रवचनात् → आगमहीणो समणो णेवप्पाणं परं वियाणादि ← (प्र.सार . ३/३२) इति प्रवचनसारवचनाच्चाऽभ्यर्हिततया अवसरसङ्गतिप्राप्तं ज्ञानमादौ निरूपयति- 'विषये 'ति ।
द्वात्रिंशिका - ६/२
ગાથા સરળ હોવાથી તેની જ્ઞાનનું નિરૂપણ કરવા માટે गाथार्थ ::- ज्ञानना भए। अझर ज्ञान भने ( 3 ) तत्त्वसंवेद्दन ज्ञान.
Jain Education International
# ત્રિવિધ જ્ઞાન મીમાંસા *
સંસ્કૃત વ્યાખ્યા ગ્રન્થકારશ્રીએ કરેલ નથી. (૬/૧) ગ્રન્થકારશ્રી જણાવે છે કે →
हेवायेस छे. (१) विषयप्रतिभास ज्ञान, (२) आत्मपरिशाभयुक्त (९/२)
For Private & Personal Use Only
www.jainelibrary.org