________________
• साधुसामग्र्यविभागन्यूनताशङ्कापरिहारः •
३७५ ॥ अथ साधुसामग्र्यद्वात्रिंशिका ।।६।। जिनभक्तिप्रतिपादनाऽनन्तरं तत्साध्यं 'साधुसामग्र्यमाहज्ञानेन ज्ञानिभावः स्याद भिक्षुभावश्च भिक्षया । वैराग्येण विरक्तत्वं संयतस्य महात्मनः ।।१।।
नयलता ज्ञान-भिक्षा-विरागेभ्यः परमेश्वरभक्तितः । दग्ध्वा कर्माष्टकं योगी यत्पदं याति तद् भजे ।।१।।
पञ्चम्यां द्वात्रिंशिकायां जिनभक्तिप्रतिपादनानन्तरं तत्साध्यं = द्रव्यस्तवलक्षणजिनभक्तिनिरूपितसाध्यताऽऽलिङ्गितं भावस्तवलक्षणं साधुसामग्र्यमाह- 'ज्ञानेनेति । साधुसामग्र्यस्य भगवद्भक्तिसाध्यत्वञ्च परेषामपि सम्मतम् । तदुक्तं नारदपरिव्राजकोपनिषदि → परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि । सर्वेषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ।। - (ना.परि.३/१८) इति । प्रकृते → भक्त्या विना ब्रह्मज्ञानं कदापि न जायते 6 (त्रि.वि.म.८/११) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनमपि योज्यं यथातन्त्रम्। संयतस्य महात्मनः ज्ञानेन = वक्ष्यमाणतृतीयतत्त्वसंवेदनेन ज्ञानिभावः = ज्ञानित्वं स्यात् । अनेन सम्यग्ज्ञानाऽऽराधकत्वमावेदितम्। भिक्षया वक्ष्यमाणप्रथम-सर्वसम्पत्कर्यभिधानया भिक्षुभावः = भिक्षुकत्वं स्यात् । अनेन सम्यक्चारित्राऽऽराधकत्वमुद्योतितम् । भिक्षुभावः तु भिक्षुद्वात्रिंशिकायां (पृ.१८४३१९००) विस्तरेण दर्शयिष्यते । वैराग्येण = वक्ष्यमाणतृतीयज्ञानगर्भवैराग्येण विरक्तत्वं स्यात् । एतेन सम्यग्दर्शनाराधकत्वमाविष्कृतम् । न हि मिथ्यात्वमोहनीयविपाकोदये ज्ञानगर्भवैराग्यसम्भवः । इत्थं रत्नत्रयसमाराधनद्वारा साधोः सामग्र्यमवतिष्ठते ।
ननु व्यवहारभाष्ये तु → चरणकरणस्स सारो भिक्खायरिया तहेव सज्झाओ । एत्थ परितम्ममाणं तं जाणसु मंदसंविग्गं ।। चरणकरणस्स सारो भिक्खायरिया तहेव सज्झाओ । एत्थओ उज्जममाणं तं जाणसु तिव्वसंविग्गं ।।
- (व्य.भा.६/३८-३९) इत्येवमन्वय-व्यतिरेकाभ्यां भिक्षाचर्या-ज्ञानयोरेव साधुसामग्र्यसम्पादकत्वमाविष्कृतम् । न च वैराग्यस्यापि तत्र निवेशः कृत इति चेत् ? मैवम्, वैराग्यसत्त्व एव तयोः सामग्र्यप्रयोजकत्वेन तदुभयग्रहणे वैराग्यस्याऽपि गृहीतत्वादेव न न्यूनत्वम् ।
अथ नारदपरिव्राजकोपनिषदि → भैक्षासनं च मौनित्वं तपो ध्यानं विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ।। 6 (ना.परि.५/३३) इत्येवं, संन्यासगीतायां च → भैक्ष्यं श्रुतञ्च
૪ સાધુસામગ્રય દ્વાચિંશિક પ્રાશ હ પાંચમી બત્રીસીમાં જિનભક્તિનું નિરૂપણ કર્યા બાદ જિનભક્તિસાધ્ય એવી સાધુની સમગ્રતાનું = સંપૂર્ણસાધુતાનું પ્રતિપાદન આ છઠ્ઠી બત્રીસીમાં કરાય છે.
ગાથાર્થ - સંયત એવા મહાત્મા જ્ઞાનથી જ્ઞાની બને, ભિક્ષા દ્વારા ભિક્ષુક બને, વૈરાગ્ય દ્વારા वित बने.(६/१) १. 'सामग्यमाह' इति त्रुटितः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org