________________
३७२
• जिनोपकाराऽयोगेऽपि तदुपासनातः फलसिद्धिः • द्वात्रिंशिका-५/३२ चिन्तामणिरयणादिहिं जहा उ भव्वा समीहियं वत्थु । पावंति तह जिणेहिं तेसिं रागादभावेऽपि ।। वत्थुसहावो एसो अउव्वचिन्तामणी महाभागो । थोऊणं तित्थयरे पाविज्जइ बोहिलाभोत्ति ।। भत्तीए जिणवराणं खिज्जन्ती पुव्वसंचिया कम्मा । गुणपगरिसबहुमाणो कम्मवणदवाणलो जेण ।।
6 (ललितविस्तरायां एता गाथा उद्धृता पृ.९७) ।
एतेन भगवतः चिन्तामणिकल्पत्वे कस्मान्न सर्वेषां समो लाभ इति निरस्तम्, तत्तत्कर्मोच्छेदानुकूलजिनभक्त्यादितारतम्येन फललाभतारतम्योपपत्तेः।
ततश्च सुष्ठुक्तं भक्तामरस्तोत्रवृत्तौ → समीहितं यन्न लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम । दिवाऽप्युलूको यदि नाऽवलोकते तदाऽपराधः कथमंशुमालिनः ?।। 6 (भक्ता.४१/पृ.११३) इति ।
वस्तुतस्तु तदुपकारात् न फललाभ किन्तु तदुपासनात एव, चिन्तामण्यनलौषधादिजन्यफललाभवदिति व्यक्तं समरादित्यकथायाम् (स.क.भव.९ प्रान्ते) । एवमेव तत्प्रद्वेषतो न तस्य हानिरपि तु स्वस्यैवेत्यपि दृश्यम् । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → भवाऽभवनिमित्तं च जगतोऽनाशयं परम् । विद्वेषेज्यादियोगेन ततः तद्भावसिद्धितः ।। (ब्र.सि. २९) इति ।
→ न पूजयाऽर्थस्त्वयि वीतरागे न निन्दया नाथ ! विवान्तवैरे । तथापि ते पुण्यगुणस्मृतिर्नः पुनातु चित्तं दुरिताऽञ्जनेभ्यः।। (बृ.स्व.स्तो ५७) इति बृहत्स्वयम्भूस्तोत्रवचनं, → रागवज्जियोऽवि सेवयजणकप्परुक्खो - (ष.खं.५/४/२६ वृ.) इति च षट्खण्डागमवचनमप्यत्रानुसन्धेयमिति शम् ।।५/३२॥
प्रतिष्ठागर्भिता भक्तिः द्वि-त्रि-पञ्चाऽष्टभेदतः ।
दर्शिता भूमिभेदेनाऽऽदरतः क्रियतां वरा ।।१।। इति मुनियशोविजयविरचितायां नयलतायां भक्तिद्वात्रिंशिकाविवरणम् ।।५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org