________________
• उपकारमृतेऽपि पूज्यतः परमानन्दोपलम्भः •
३७१ पूजया परमानन्दमुपकारं विना कथम् । ददाति पूज्य इति चेच्चिन्तामण्यादयो यथा ॥३२॥ पूजयेति । व्यक्तः ।।३२।।
॥ इति भक्तिद्वात्रिंशिका ।।५।। ननु पूजार्थस्नानाद्यविनाभाविकायवधात् कृतकृत्यतया मुक्तिव्यवस्थिततया च जिनस्योपकाराऽसम्भवे कथं पूजया पूज्यः पूजकानां परमानन्दं ददातीत्याशङ्कायामाह- 'पूजयेति । कायवधाऽविनाभाविन्या पूजया सुखानुभवलक्षणं उपकारं विना पूज्यः तीर्थङ्करः कथं = केन प्रकारेण परमानन्दं = सोपाधिकद्रव्यक्षेत्र-काल-भाव-भवाऽनाश्लिष्टसदातनसुखमयं मोक्षं ददाति इति चेत् ?
अत्रोच्यते, यथा चिन्तामण्यादयः उपकारं विनाऽपि स्वेप्सितं ददाति तथाऽयमपीति बोध्यम् । तदुक्तं श्रावकप्रज्ञप्तौ पञ्चाशके च → उवगाराभावमि वि पुज्जाणं पूयगस्स उवगारो । मंतादिसरणजलणाइसेवणे जह तहेहंपि ।। - (श्रा.प्र.३४८, पञ्चा.४/४४) इति । स्तवपरिज्ञायामपि → उवगाराभावे वि हु चिंतामणि-जलणचंदणाईणं । विहिसेवगस्स जायइ तेहिंतो सो पसिद्धमिणं ।। - (स्त.प.१६४) इत्युक्तम् । योगसारेऽपि → चिन्तामण्यादिकल्पस्य स्वयं तस्य प्रभावतः । कृतो द्रव्यस्तवोऽपि स्यात् कल्याणाय तदर्थिनाम् ।। (यो.सा.१/३०) इति गदितम् ।
एतेन देवस्य रागरहितत्वे जलमन्थनन्यायेन वृथैव तत्पूजनादिप्रयास इति निरस्तम् । तदुक्तं अन्यत्राऽपि → क्षीणक्लेशा एते न हि प्रसीदन्ति न स्तवोऽपि वृथा । तत्स्तवभावविशुद्धः प्रयोजनं कर्मविगम इति ।। स्तुत्या अपि भगवन्तः परमगुणोत्कर्षरूपतो ह्येते । दृष्टा ह्यचेतनादपि मन्त्रादिजपादितः सिद्धिः ।। यस्तु स्तुतः प्रसीदति रोषमवश्यं स याति निन्दायाम् । सर्वत्राऽसमचित्तः स्तुत्यो मुख्यः कथं भवति ।। शीतार्दितेषु हि यथा द्वेषं वह्निर्न याति रागं वा । नाह्वयति वा तथापि च तमाश्रिताः स्वेष्टमश्नुवते ।। तद्वत्तीर्थकरान् ये त्रिभुवनभावप्रभावकान् भक्त्या । समुपाश्रिता जनास्ते भवशीतमपास्य यान्ति शिवम् ।।
6 (ललितविस्तरायां उद्धृता इमे श्लोकाः लोगस्स-पृष्ठ-९३) इति । एतेन → रागाद्यभावे जिनेश्वराणां कथं परमानन्ददायकत्वम् ? इत्यपि प्रत्यस्तम्, तदुक्तं अन्यत्रापि → એવા શ્રાવકો માટે ભગવબહુમાનગર્ભિત પુષ્પાદિઆરંભની પ્રવૃત્તિ પણ નિષિદ્ધ કરી ન શકાય. માટે "धनिमित्त मान-समारंभ ४२वो मे अनुयित छ." मे पात व्याली नथी. (५/३१)
ગાથાર્થ - પૂજા દ્વારા ભગવાન ઉપર કોઈ ઉપકાર તો થતો નથી. તેથી પૂજ્ય એવા ભગવાન પરમાનંદ એવા મોક્ષને કઈ રીતે આપે ? આ પ્રશ્નનો જવાબ એમ જાણવો કે જેમ ચિંતામણિ રત્ન વગેરેની પૂજા કરવામાં આવે તો ચિંતામણિ રત્નને કોઈ લાભ થતો નથી. પરંતુ પૂજકને તેનું ફળ અવશ્ય પ્રાપ્ત થાય છે. તેમ કૃતકૃત્ય એવા ભગવાનની પૂજા દ્વારા પ્રભુને કોઈ લાભ થતો ન હોવા છતાં આપણને પરમાનંદની પ્રાપ્તિ થવામાં કોઈ બાધ નથી. (૫/૩૨)
ગાથાર્થ સરળ હોવાને લીધે પ્રસ્તુત ગાથાની ટીકાકાર મહર્ષિએ સંસ્કૃત વ્યાખ્યા કરી નથી. તેથી અમે પણ આ બાબતમાં વિશેષ છણાવટ માટે પ્રયત્ન કરતા નથી. (૫/૩૨).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org