SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ज्योतिस्तमोहरमलोचनगोचरं तज्जिह्वादुरा सदरसं मधुन: प्रवाहम्। दुरे त्वच: पुरकबन्धिपरं प्रपद्ये सारस्वतं किमपि कामदुर्घ रहस्यम् ॥८३।। वसन्त. तवकरकमलस्थां स्फाटिकमक्षमालां नखकिरणविभिन्नां दाडिमबीजबुद्धया। प्रतिकलमनुकर्षन् येन कीरो निषिद्धः स भक्तु मम भूत्यै वाणि ते मन्दहासः ॥८४।। मालिनी. हंसासीना हसन्ती मृदुमधुरकलां वादयन्तीं स्ववीणां, तत्त्वग्रामं समस्तं प्रकटमविकलं सन्नयन्ती विकासम्। मुक्तामालां दधाना गुणिगणमहिता स्तूयमाना सुरेन्द्र, र्वागीशा सुप्रसन्ना निवसतु वदनाम्भोरुहान्तः सदा मे ॥८५॥ स्रग्धरा. ऐन्दवीव विमलाकलाऽनिशं भव्यकैरवविकाशनोद्यता। तन्वतीनयविवेकभारती: भारती जयति विश्ववेदिनः ।। कृतसमस्तजगच्छुभवस्तुता, जितकुवादिगणाऽस्तभवस्तुता। अवतु वः परिपूर्णनभा रती नुमरुते ददती जिनभारती ॥८६॥ अनादिनिधनाऽदीना धनादीनामतिप्रदा । मतिप्रदानमादेयाऽनमा देयाज्जिनेन्द्रवाक् ॥८७॥ शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणान् आलीकेसरलालसा समुदिताऽऽशु भ्रामरीभासिता ।। पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरी भासिता ॥८८॥ शार्दूल. भारति ! द्राग जिनेन्द्राणां नवनौरक्षतारिके। संसाराम्भोनिधा वस्मा-नवनौ रक्षतारिके ॥८९|| कुर्वाणाऽणु पदार्थ दर्शनवशाद् भास्वत्प्रभायात्रपा, मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका। अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां, मानत्याजनकृत् तमोहरतमे!स्तादरिद्रोहिका ॥९०॥ शार्दूल. परमततिमिरोग्रभानुप्रभा भूरि गैर्गभीरा, भृशां विश्ववर्ये निकाय्ये वितीर्यात्परा महति मतिमते हि ते शस्यमानस्य वासं, सदाऽतन्वती तापदानन्दधानस्य साऽमानिनः । जननमृति तरङ्ग निष्पारसंसारनीराकरान्त, निमज्जज्जनोत्तार नौ भारती तीर्थकृत ! महति मतिमतेहितेशस्य मानस्य वासं सदा, तन्वती तापदानं दधानस्य सामानिन: ॥९१।। अर्णवदण्दक जिनेन्द्र ! भङ्गैः प्रसमंगभीराऽऽशु भारती शस्यतमस्तवेन। निर्नाशयन्ती मम शर्म दिश्यात्, शुभाऽरतीशस्य तमस्तवेन ॥९२।। उपजाति. शरदिन्द सुन्दररुचिश्चेतसि सा मे गिरांदेवी। अपहृत्यतमः संततमर्थानखिलान्प्रकाशयतु ।।१३।। सम्यगद्दशामसुमतां निचये चकार, सद्भा रतीरतिवरा मरराजिगे या। दिश्यादवश्यमखिलं मम शर्मजैनी, सदभारती रतिवरामरराजिगेया ॥९४|| वसंत. हन्तिस्मया गुणगणान् परिमोचयन्तीसाभाररतीशमवतां भवतोदमायाः। ज्ञानश्रिये भवतु तत्पऽनोद्यतानां सा भारती शमवतां भवतोदमाया ॥९५|| वसंत. यां द्राग् भवन्ति सुरमन्त्रिसमा नमन्तः, संत्यज्य मोहमधियोऽप्य समानमन्तः । वाग्देवता हतकुवादिकुलाभवर्णात्, सा पातु कुन्दविकसन्मुकुलाभ वर्णा ॥९६।। वसंत. यशो धत्ते न जातारि-शमना विलसन् न या। साऽऽहती भारती दत्तां शमना विलसन्नया ॥१७॥ जिनस्य भारती तमो-वनागसङ्घनाशनीम् । उपेतहेतुमुन्नता-वनागसं घनाशनीम् ।। प्रमाणिका ० वाग्देवी वरदीभूत - पुस्तिकाऽऽपद्मलक्षितौ। अपौऽव्याद् बिभ्रती हस्तौ पुस्तिकापद्मलक्षिती ॥९८।। अनु. श्रुतनिधीशिनि! बुद्धिवनाली दवमनुत्तम सारचिता पदम्। भवभियां मम देवि ! हरादरा दवमनुत्तमसा रचितापदम् ।।९९।। द्रुत. इति सम्पूर्णम्। २१४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004932
Book TitleSachitra Saraswati Prasad
Original Sutra AuthorN/A
AuthorKulchandravijay
PublisherSuparshwanath Upashraya Jain Sangh Walkeshwar Road Mumbai
Publication Year1999
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy