________________
बृहस्पति ने कहा- जो उत्कृष्ट ज्ञान देवो को भी दुर्लभ है, उसे पाता है। महामाया देवी की कृपा से पुरुष सदा प्राप्त करता है।
७
सरस्वती ने कहा- प्रति दिन पवित्रता के साथ जो इस श्रेष्ठ अष्टक का त्रिकाल पाठ करे उसके कंठ में मैं सदा वास करूँगी - इस में संशय नहीं करना ।
८
। समाप्तम् ।
५५
। श्री सरस्वती स्तोत्रम् । श्री गणेशाय नमः ॥
भवति भवसमुद्रे को विपत्तीन्ऋते त्वद्, भगवति ! वद हिंस्याद्दैन्यदुःखादि हन्त्री । तव चरणसरोजे मुग्धभृंगोऽस्मि देवि !, प्रखरदहनदग्धः संसृतिक्लिन्नकायः नियमितस्मृतरूपां चेतसा ध्यातुमिच्छन्, मधुरवचनयुक्तो नामघोषैकवृत्तिः । कथमपि भववह्रौ शीतलिम्ना प्रसादात्, तव भवति भवामि प्रांगणे बद्धपाणिः अलमिति जनशब्दैर्वारितोऽपि प्रयत्नात्, तव गुणगरिमाणं गातुमिच्छन्नतोऽहम् । प्रतिदिनकृतबुद्धिर्भक्तिरेषा भवत्याः, सुचिरकृतविधाना मोक्षदात्री भवे न्मे यदि भवति प्रसादस्ते हि वा वज्रपातः, तव पदममलान्मे का गति वर्ततेऽन्या । भवपतितजनानांम् जीवनं ते तु भक्तिः, शरणगतमुखात्मानंददिव्यप्रकाशा
वितर मयि विचारं धैर्यपूर्ण क्षमां च, सुजनसहितवासं सर्वदा शुद्धशीलम् । जगदनुभवमायामोहितं नास्तु चेतः, सततविमलप्रज्ञां देहि मे मोक्षमार्गे विहितविविधशब्देवर्णिता शुभ्रवर्णा, श्रवणमधुरनादैर्घोषिता मञ्जुवीणा । धवलवसनशोभा वर्तते दिव्यवेषे, व्यसनकृतविवर्ता पातु मां शारदा सा
विमलमतिप्रकाशं गौरवं सद्गुणानाम्,
Jain Education International
॥१॥
॥२॥
॥३॥
11811
॥५॥
॥६॥
वितरतु निजभक्ते सर्वविद्यावितानम् । सकलसुरसमाजे सात्त्विकं रूपमस्याः, भवतु भवभयान्मे मोचनं ध्यानयोगे कलिमलपतितानां पावनी जाह्नवी सा, भवभयदुरितानाम् नाशनं रामनाम । वरदविबुधमुख्यः स्याद्विधाता तथापि, तव भवति महिम्ना ज्ञानदाने न तुल्याः सहजमृदुलभावो वर्तते देवतानाम्, स्तवनवचनतुष्टो को न प्रीतो भवेच्च । इयमधिककृपाये स्वामिनी मे तु वाचाम्, स्वयमपि मम शब्दै व्र्व्याहरत् स्तोत्रमेतत् ललितधवलपक्षो वाहनं हंसपक्ष, तरलवरमनोज्ञा हस्तविन्यस्तवीणा । करधृतजपमाला वामहस्तस्थवेदा, ललितमधुररूपा पातु मां शारदा सा सुखकर-मृदु-हस्त- स्पर्श संबोधितात्मा, सकलसुजनसंघैरात्मविज्ञानहेतोः । सदयकृतकटाक्षैः हृष्टरोमाचिताङ्गः, गुरुजनसुरवृद्धाश्वासितस्त्वां नमामि इह खलु विविधैर्यद्दीयते भाग्यमास्ते, क्षणिकसुखदमन्ते नष्टप्रायं भवेत्तत् । तव भवति प्रसादो ज्ञानविज्ञानपूर्ण, परमचिरसुखाय प्राप्यते येन सर्गः
कृतनवविधभक्तिः स्तूयसे सर्वदा त्वम्, त्वदितरविषयेषु प्रेरितं नास्तु चेतः 1 भवतु जनहितार्थं शारदीयस्तवो मे, पठनपरजनेभ्यो मुक्तिकल्याणहेतुः
कृतसमुचितकार्यस्तो षिताप्तो विरक्तः, निजकुलजसेवां शांतिपूर्णां समाप्य । समुदितस्थिरबुद्धिस्त्वत्पदं प्राप्तुमिच्छत्, पुनरपि भववह्नौ दद्यमानो न भक्तः भगवति तव स्तोत्रमस्तु सर्वं समक्षम्, यदि किमपि सदोषं वर्ण्यते क्षम्यतां तत् । तव चरणविनीतस्तत्वमेकं हि जाने, न हि त्यजसि प्रसन्ना भक्तमार्तं कदापि
१४१
For Private Personal Use Only
इति श्री अनंतसुत श्री दिवाकरविरचितं सरस्वतीस्तोत्रं संपूर्णम् ॥
11611
11211
11811
॥१०॥
।।११।।
।।१२।।
।।१३।।
।।१४।।
।। १५ ।।
www.jainelibrary.org