________________
॥४२॥
॥५२॥
॥४३॥
॥५३॥
॥४४॥
॥५४॥
॥४५॥
॥५५॥
॥४६॥
पराग स्तस्यायं हरनयनहव्यासनतं, धनुः पौष्पं पूर्वं भवतु भवभंगाय भवताम् शिर: कंठादीनां प्रभवपदमासाद्य बहुशः, समाकीर्णाः वर्णाः कथमपि न मान्ति स्म भुवने। श्रवः कूपेपालिश्रवणशरणीभूयवचनः, प्रवाहा गच्छन्ति त्वदधरसुधासिंधुजनिता: स्मितस्मेरोल्लास-प्रसृमरकपोलद्वयगुरुः प्रभाभारै र्भग्नावरुणशशिनौ निर्मलरुची। चलत्ताराकारभ्रमजनकमुक्तापरिवृतौ, तरां दोलायेते घनकनकताडंकमिषत: त्वदीये यद्भालस्थलविमलचंद्रस्य तमसा, गृहीत(ता)॰ बिम्बे धनुरतनुसज्जीकृतमिदं। भ्रुवो युग्मं तस्माद् ध्रुवमखिलविश्वस्यजयिनी, महासिद्धि स्तस्याप्यजनि वितनो विस्मयपदम् सह स्पर्द्धा चक्रे त्वदलककलापैरथमिथः, कलापै मायूरैस्तवरुचिकलापेन विजितैः। अपूजि त्वत्केशग्रथितकुसुमैस्तेष्वपि च ते, र्ददे वार्द्ध चन्द्रं करकृतमनादृत्य नितराम् शिरोजा राजन्ते तव शिरसि लावण्यसरसि, जलानां जंबाला:किमथ करवाला: स्मरपतेः । चमर्योऽधःपुच्छै र्निजचमरबालत्वजनितं, ब्रुवाणा शापल्यं कथमथ बुधस्तेनतुलयेत् शिरोजव्यानद्धप्रगुणमणिमंदारलतिका, प्रसूनव्यामिश्रच्छविरजनिवेणी शबलिता। तमोवा वाहिन्या: कुसुमविशिष्यद्रुततमं, विलीनं वा शंके तवनव मुखेन्दो रुदयनात् विशंके निःशंके चिकुरनिकरंबद्युतितति, प्रवाहानां मार्ग समसृजत सीमंतशिखतः। विधिः किं वा नंगो रतिमधुसखोनेन सुपथा, जगज्जेतुं गन्ता कचकुसुम-मंदारगहने भुवौ नीलः शंख स्तवजननि ! शंखौ मुखकरौ, महापद्म: पद्यो नयनयुगमुद्दिश्यमकरः । मुकुन्दः कुन्दो वा दशनततिरंही तु कमठो, वपुर्व!जालं तव नव निधीनां प्रतिनिधि: गदायाव्याघातै जनयसि भयं वैरिमनसां, त्रिशूलेन प्रोता स्त्रिभुवनजनद्वेषि जनना: । परानंदीभूय स्वमनसि ममोन्मेषितदृशो:, सुधीभूय स्वाद्यं जननि ! तवरुपं विलसिताम्
कथंचिद् वाकौश्चत् कविभिरनुभूता भगवती, कवित्वे वक्तृत्वे किल कमलवासातदपरैः । न चास्माभिस्तावत् परिचितचिदानंदलहरी, परीरंभस्यूता ध्वनिपथमती तां परिचिता स्वतन्त्रा ते शक्तिः स्मरहरजटाजूटतटिनी, तरंग व्यासंगामलकमललीला लसवती। सहार्थालंकारै नवनव महाशास्त्रकरणे; पराधीना तेषां भवतु भवती नाधिवसति यदग्र ग्रावाणो गिरिगिरिषु गुवीं निजगिरं, गुणन्तु ब्रह्मांडोदरविवरकुक्षिभरतया। तदन्य वैदग्ध्यं तवनवसुधासिंधुलहरी, परिस्यूतं वाचं पदललितलीला विलसितम् त्वमम्बा त्वं तात स्त्वमसि परमं मित्रमधिकः, सखा त्वं भ्राता त्वं भगिनि वरबंधु स्त्वमसि मे। यश: ख्याति लक्ष्मी: परमतमविद्या त्वमपरां, किमद्वैतब्रह्मत्वमिव मम चित्तेऽधि वससि नृलोके लोकेषु ध्वनिजननिभाषात्मकतया, दिवि स्वर्गेहानां स्फुटमुकुटमाणिक्यमणिभिः । नभस्ताराकारद्युमणिरमणीयं त्वदनुभि जगद्व्याप्तं दिव्यै मणिभिरिव पर्याप्तमभित: जगन्मात: प्रात: समुदितसहस्रांशुकिरण, रुणांगीमानंगी जपति सुभगाद्याभिरभितः । तदा लोकादेव स्मरशरभरक्षोभितदृशां, वशीकारः साक्षादमरतरुणीनां प्रभवति पराविद्या विद्या त्वमसि वरदानप्रणयिनी, चिदाकाराशक्तिसकलभुवनव्यापकतया। परानंदस्यंदामृतरससुधांभोधिलहरी, सदा नंदा वेद्या जगति जयति ब्रह्मपरमा अहो पूर्वं रम्यं नववदनपद्मं स्मितशित,प्रभा नित्योद्भिन्नं विधुरितरवीन्दुद्युतिभरं । चिदानंदामोदस्वरस-मकरंदैकरसिकं, मदीयं दृग्द्वंद्वं भ्रमर इव तत्रैव रमतात् कलानां पारीणात् कविजनधुरीणा: नृपतिभिः, सदामान्या धन्या गुणगणमणिवातनिधयः । स्मरन्त्येके केचित् सकलजनश्रृंगारलहरी, मिव पृथ्वी बीजस्फुरितरुचिरूपां तव तनुम् नचार्काचां वाचां तव जननि ! गम्यास्तुतिरिति,
॥५६॥
॥४७॥
॥५७॥
॥४८॥
॥५८।।
॥४९॥
॥५९॥
॥५०॥
।।६०॥
॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org