________________
चतुर्थस्तुतिनिर्णय भाग-१ उस्सग्गो ॥३४॥ व्याख्या :- तत्रादौ चैत्यवंदनं अरिहंत चेइयाणमित्यादि पश्चाच्चत्वारि क्षमाश्रमणानि 'भगवान् सूरि उपाध्याय मुनि' इत्यादिरूपाणि । पुनरपि तत्रैव चैत्यवंदनाः कियंत्य इत्याशंक्याह ॥ पडिकमणे चेइहरे, भोयणसमयंमि तहय संवरणे ॥ पडिकमण सुयण पडिबो, हकालियं सत्तह जइणो ॥६३॥ व्याख्या । साधोः प्रथमा चैत्यवंदना प्रतिक्रमणे रात्रिप्रतिकमणे ॥१॥ द्वितीया चैत्यगृहे जिनभवने ॥२॥ तृतीया भोजनसमये आहारवेलायां ॥३॥ चतुर्थी संवरणे कृतभोजनः साधुः सततं चैत्यवंदनां करोति ॥४॥ तथा पंचमी प्रतिक्रमणे दैवसिकप्रतिक्रमणे ॥५॥ षष्ठी शयने संस्तारककरणसमये ॥६॥ सप्तमी प्रतिबोधकाले निद्रापरित्यागे ॥७॥ एताः सप्त चैत्यवंदनाः यतिनो ज्ञातव्याः, यदाहुः साहूण सत्तवारा, होइ अहोरत्तमष्भयारंमि ॥ गिहिणो पुणचियवंदण, तियपंचसत्तवावारा ॥१॥ पडिकमउ गिहिणो वि हु, सत्तविहं पंचहा उ इयरस्स ॥ होइ जहन्नेण पुणो, तीसु विसंजासु इय तिविहं ॥२॥६३॥ अथ तस्याश्चैत्य वंदनाया जघन्यादयः कियंतो भेदा इत्याशंक्याह ॥ नवकारेण जहन्ना, दंडग थुइ जुयल मष्भिमा नेया ॥ उक्ोस विहिपुव्वग, सक्कस्थय पंचनिम्माया ॥६४॥ व्याख्या ॥ नमस्कारः प्रणामस्तेन जघन्या चैत्यवंदना स नमस्कारः पंचधा एकांगः शिरसो नमने, द्वयंगः करयोर्द्वयोः, व्यंगः त्रयाणां नमने करयोः शिरसस्तथा ॥१॥ च पुनः करयोर्जान्वोः नमने चतुरंगकः, शिरसः करयो र्जान्वोः पंचांगः पंचमो मतः ॥२॥ यद्वा श्लोकादिरुपनमस्कारादिभिर्जघन्या ॥१॥ अतो मध्यमा द्वितीया सा तु स्थापनार्हत्सूत्रदंड-कैस्तुतिरुपेण युगलेन भवति अन्ये तु दंडकानां शक्रस्तवादीनां पंचकं तथा स्तुतियुगलं समया भाषया स्तुतिचतुष्ययं ताभ्यां या वंदना तामाहुः । यद्वा दंडकः शक्रस्तवः स्तुत्योर्युगलं अरिहंतचेइयाणं स्तुतिश्चेति ॥ यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org