________________
२४४
चतुर्थस्तुतिनिर्णय भाग-१
अथ निकट उपकारी गणिवर्य श्रीमन्मणिविजयजी महाराजकी किंचित्
गुरुप्रशस्ति लिखते है.
॥ अनुष्टुब् वृत्तम् ॥ तपागच्छे जगद्वंद्ये, जज्ञिरे बुद्धिशालिनः ।। श्रीमन्मणिविजयाख्या, गुरवः संयमे रताः ॥१॥
यस्य धर्मोपदेशेन, निर्मलेन कति जनाः ।। सम्यक्त्वं लेभिरे साधुः, धर्मं च लेभिरे कति ॥२॥
तेषां पट्टांबरे चंद्रा, भूरिशिष्यप्रशिष्यकाः ।। श्रीमद्बुद्धिविजयाख्या, बभूवुर्बुद्धिसागराः ॥३॥ निःसंगा निर्ममाः क्षांता, ये च पांचालनीवृति ।। ढुंढकाख्यं मतं हित्वा, जाताः संवेगभाजनम् ।।४।। ___तच्छिष्येण मयानंदविजयेन सविस्तरः ।। ग्रंथोऽयं गुफितः सम्यक्, चतुर्थस्तुतिनिर्णयः ।।५।।
बुद्धिमांद्यवशात् किंचित्, यदशुद्धमलेखि तत् ।।
मात्सS संपरित्यज्य, शोधयध्वं मनीषिणः ॥६॥ इति न्यायाभोनिधि - श्रीमद् - आत्मारामजी (आनंदविजयजी) महाराजविरचितः चतुर्थस्तुतिनिर्णयः ॥
॥ समाप्तमिदम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org