________________
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧
૨૧૯
आयरियउवज्जायाणं अवन्नं वदमाणे चउवन्नसंघस्स अवन्नं वदमाणे विविक्कतवबंभचेराणं देवाणं अवनं वदमाणे पंचहिं ठाणेहिं जीवा सुलभबोहियात्ताए कम्मं पकरेति अरहंताणं वन्नं वदमाणे जाव विविक्कतवबंभचेराणां देवाणं वन्नं वदमाणे ॥ इति मूलसूत्रम् ॥
॥ अस्य व्याख्या ॥ पंचहीत्यादि सुगमम् । नवरं दुर्लभा बोधिर्जिनधर्मो यस्य स तथा तदभावस्तत्ता तया दुर्लभबोधिकतया तस्यैव वा कर्म मोहनीयादि प्रकुर्वति बंध्नंति अर्हतामवण्णमश्लाध्यं वदन् यथा । नत्थी अरिहंतत्ती, जाणतो कीस भुंजए भोए । पाहुंडिय उवजीवइ, समवसणादिरुपाए ॥१॥
एमाइजिणाणअवण्णो, न च ते नाभूवं स्तत्पणीत प्रवचनोपलब्धेर्नापि भोगानुभवनादेर्दोषोऽवश्य- वेधशातस्य तीर्थकरनामादिकर्मणश्च निर्जरणोपायत्वातस्य तथा चीतरागत्वेन समवसरणादिषु प्रतिबंधाभादिति तथा अर्हत्प्रज्ञप्तस्य धर्मस्य श्रुतश्चारित्ररुपस्य प्राकृतभाषानिबद्धमेतत् । तथा किं चारित्रेण दानमेव श्रेयः इत्यादिकमवर्णं वदन् उत्तरं चात्र । प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेनोपकारित्वात्तथा चारित्रमेव श्रेयो निर्वाणस्यानंतरहेतुत्वादिति आचार्योपाध्यानामवर्णं वदन् यथा बालोयमित्यादि न च बातृत्वादिदोषो बुद्धयादिभिर्वृद्धत्वादिति तथा चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन्स तथा स एव स्वार्थिकाण्विधानाच्चातुर्वर्यं तस्य संधस्यावर्णं वदन् यथा कोयं संघो यः समवायबलेन पशुसंघ इवामार्गमपि मार्गीकरोतीति नचैतत्साधु ज्ञानादिगुणसमुदायात्मकत्वात्तस्य तेन च मार्गस्यैव मार्गीकरणादिति तथा विपक्वं ब्रह्मचर्यं सुपरिनिष्ठितं प्रकर्षपर्यंतम्गुपगतमित्यर्थः । तपश्च ब्रह्मचर्यं तदहेतुकं देवायुष्कादिकं कर्म येषां ते तथा तेषामवर्णं वदन् न संत्येव देवाः कदाचनाप्यनुपलभ्यमानत्वात् किंवा तैर्विटैरिव कामासक्त मनोभिरविरतैस्तथा निर्मिमेषैरचेष्टैश्च म्रियमाणैरिव प्रवचनकार्यानुपयोगि- भिश्चेत्यादिकं इहोत्तरं संति देवास्तत्कृतानुग्रहो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org