________________
२१८
चतुर्थस्तुतिनिर्णय भाग-१ सुलभ बोहियत्ताए कम्मं पकरेंति अरहंताणं वनं वदमाणे जाव विविक्कतवबंभचेराणं देवाणं वन्नं वदमाणे ॥ इति मूलसूत्रम् ॥ अस्य व्याख्या ॥ पंचहीत्यादि सुगमम् । नवरं दुर्लभा बोधिर्जिनधर्मो यस्य स तथा तद्भावस्तत्ता तया दुर्लभबोधिकतया तस्यैव वा कर्म मोहनीयादि प्रकुर्वंति बनंति ॥ अर्हतामवनमश्लाघ्यं वदन यथा । नत्थी अरिहंतत्ती, जाणंतो कीस भुंजए भोए ॥ पाहुं डिय उवजीवइ, समवसरणादिरूपाए ॥१॥ ए माइजिणाणअवन्नो, नच तेनाभूवंस्तत्प्रणीतप्रवचनोपलब्धेर्नापि भोगानुभवनादेर्दोषोऽवश्यवेधशातस्य तीर्थंकरनामादिकर्मणश्व निर्जरणोपायत्वात्तस्य तथा वीतरागत्वेन समवसरणादिषु प्रतिबंधाभावादिति तथा अर्हत्प्रज्ञप्तस्य धर्मस्य श्रुतचारित्ररूपस्य प्राकृत भाषानिबद्धमेतत् ॥ तथा किं चारित्रेण दानमेव श्रेयः इत्यादिकमवन्नं वदन उत्तरं चात्र । प्राकृतभाषात्वं श्रुतस्य न दुष्टं बालादीनां सुखाध्येयत्वेना`पकारित्वात्तथा चारित्रमेव श्रेयो निर्वाणस्यानंतरहेतुत्वादिति आचार्योपाध्यायानामवर्णं वदन् यथा बालोयमित्यादि नच बालत्वादिदोषो बुद्धयादिभि- वृद्धत्वादिति तथा चत्वारो वर्णाः प्रकाराः श्रमणादयो यस्मिन्स तथा स एव स्वार्थिकाण्विधानाच्चातुर्वर्ण्य तस्य संघस्यावर्णं वदन् यथा कोयं संघो यः समवायबलेन पशुसंघ इवामार्गमपि मागों करोतीति नचैतत्साधुज्ञानादिगुणसमुदायात्मकत्वात्तस्य तेन च मार्गस्यैव मार्गीकरणादिति तथा विपक्कं सुपरिनिष्ठितं प्रकर्षपर्यंतमुपगतमित्यर्थः । तपश्च ब्रह्मचर्यं च भवान्तरे येषां, विपक्कं वा उदयागतं तपो ब्रह्मचर्यं तद्धेतुकं देवायुष्कादिकं कर्म येषां ते तथा तेषामवर्णं वदन् न संत्येव देवाः कदाचनाप्युपलभ्यमानत्वात् किंवा तैविटैरिव कामासक्तमनोभिरविरतैस्तथा निर्निमेषैरचेष्टैश्च नियमाणैरिव
तद्धेतुकं देवा कदाचनाप्युपलरचेष्टैच त्रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org