________________
૨૦૫
શ્રીચતુર્થસ્તુતિનિર્ણય ભાગ-૧ प्रतीतार्था ॥ न केवलं श्रावका एतेषामित्थं कुर्वंति यतयोऽपि कायोत्सर्गादिकमेतेषां कुर्वंतीत्याह । विग्यविधायणहेडं, जइणो वि कुणंति हंदि उस्सग्गं । खित्ताइ देवयाए सुयकेवलिणा जउ भणियं १००१ व्याख्या । विघ्नविधातनहेतोरुपद्रवविनाशार्थं यतयोपि साधवोपि न कवेलं श्रावकादय इत्यपिशब्दार्थः । कुर्वति विदधति हंदीति कोमलामंत्रणे उत्सर्ग कायोत्सर्ग क्षेत्रादिदेवताया आदिशब्दाद्भवनदेवतादिपरिग्रहः श्रुतके वलिना चतुर्दशपूर्वधारिणा यतो यस्माद्भणितं गदितमिति गाथार्थः । तदेवाह चाउम्मासियवरिसे । उस्सग्गो खित्तदेवयाए य । पक्खियसेज्जसूराए, करिति चउमासिए वेगे ॥१००२।। गतार्थाः । ननु यदि चतुर्मासिकादिभणितमिदं किमिति सांप्रतं नित्यं क्रियत इत्याह । संपइ निच्चं कीइ संनिज्जा भावउ विसिद्धाउ । वेयावच्चगराणं, इच्चाइ वि बहुयकालाउ ॥१००३॥ व्याख्या ॥
सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात् सांनिध्यभावस्तस्थ कारणाद्विशिष्टा- दतिशायिनो वैयावृत्यकराणां प्रतीतानामित्याद्यपि न केवलं कायोत्सर्गादीत्यपेरर्थः । आदिग्रहणात्संतिकराणमित्यादि दृश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थः । इत्थं स्थिते किं कर्त्तव्यमित्याह।
विग्धविधायमहेउं, चेईहररक्खणाय निच्चंति ॥
कुज्जा पुयाईयं, पयाणं धम्मवं किंचि ॥१००४॥ व्याख्या :- विजविघातनहेतोरुपसर्गनिवारकत्वेन आत्मनः इति
शेषः ॥ चैत्यगृहरक्षणाच्च देवभवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपिशब्दार्थः । कुर्याद् विदध्यात् पूजादिकमादिशब्दाकायोत्सर्गा दिका एतेषां ब्रह्मशांत्यादीनां धर्मवान् धार्मिकः । अयमभिप्रायः । यदि मोक्षार्थमेतेषां पूजादि क्रियते ततो दुष्टं विघ्नादिवारणार्थ त्वदुष्टं तदति किंचेत्यभ्युच्चय इति गाथार्थः । अभ्युच्चयमेवाह मिच्छत्तगुणजुयाणं, निवाइयाणं करेमि पूयाइं ॥ इह लोय कए सम्मत्त गुण जुयाणं नउण मूढा ॥१००५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org