________________
१२४
चतुर्थस्तुतिनिर्णय भाग-१ ॥१॥ कश्चिच्छुते ते देवाः समाधिबोधिदाने किं समर्था न वा यद्यसमर्थास्तर्हि तत्प्रार्थनस्य वैयर्थ्यं यदि समर्थास्तर्हि दूरभव्याभव्येभ्यः किं न यच्छंति अथैवं मन्यते योग्यानामेवं समर्थानां. योग्यानां तर्हि योग्यतैव प्रमाणं किं तैरजागलस्तनकल्पैः । अत्रोत्तरं सर्वत्र योग्यतैव प्रमाणं परं न वयं विचाराक्षमं नियतिवाद्यादिवदेकांतवादिनः किंतु सर्वनयसमूहात्मकस्याद्वादवा दिन: सामग्री वै जनिकेति वचनात् तथाहि घटनिष्पत्तौ मृदो योग्यतायामपि कुलालचक्रचीवरदवरकदंडादयोऽपि सहकारिकारणमेवमिहापि जीवस्य योग्यतायां सत्यामपि तथातथाप्रत्यूहव्यूहनिराकरणेन देवा अपिसमाधिबोधिदाने समर्थाः स्युर्मेतार्यस्य प्राग्भवमित्रसुर इवेति बलवती तत्प्रार्थना । ननु देवादिषु प्रार्थनाबहुमानादिकरणे कथं न सम्यक्त्वमालिन्यं ? उच्यते नहि ते मोक्षं दास्यंतीति प्रार्थ्यन्ते बहु मन्यते वा किंतु धर्मध्यानकरणे अंतरायं निराकुर्वन्तीति नैवं कश्चिद्दोषः पूर्व श्रुतधरैरप्याचीर्णत्वादाग मोक्तत्वाच्च उक्तं चावश्यकचूर्णो श्रीवज्रस्वामिचरिते तत्थय उब्भासे अन्नोगिरीतं गया तत्थ देवयाए काउस्सग्गो कउ सावि अब्भुठिआ अणुग्गहत्ति आणुन्नायमिति आवश्यक कायोत्सर्गनिर्युक्तावपि ॥ चाउम्मासिअवरिसे, उस्सग्गो खित्त देवआए । परिकअ सिज्झसुराए, करेति चउमासिए वेगे ॥ १ ॥ बृहद्भाष्येपि । पारिअ काउस्सग्गो, परिमिठीणं च कयनमुक्कारो ॥ वेयावच्चगराणं दिज्झ थुई जक्खपमुहाणं ॥ १४४४ ॥ प्रकरण कृत श्रीहरिभद्र सूरयोऽप्याहु: ललितविस्तरायां चतुर्थी स्तुतिर्वैयावच्चगराणमिति । तदेवं प्रार्थनाकरणेऽपि न काचितदयुक्तिरिति सप्तचत्वारिंशगाथार्थः ॥ ४७ ॥
?
(४२) भाषा ॥ तथा सम्यकदृष्टि श्रीअरिहंतके पक्षी देवता और देवी जो है, देवता धरणींद्र अंबिकादियक्ष देउ चित्त समाधि चित्तका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org