________________
११८
चतुर्थस्तुतिनिर्णय भाग - १
तिनकी थुइ कहनी यह उपचार करिये हैं, अन्य कोइ उपचार तहां संभवे नही है और हमने अन्य कोइ श्रवणभी नही करा है. तब तो यह सिद्ध हुआ के चैत्यवंदनामें सम्यक्दृष्टि देवताका कायोत्सर्ग करणा, और तिनकी थुइ साधु, साध्वी, श्रावक, श्राविकाकों अवश्यमेव कहनी चाहिये; अन्यथा अपर उपचार तो तिनका कोइ है नही. तिस वास्ते तिनका साक्षी होनाभी सिद्ध नही होवेगा, चूर्णिकार तैसेही व्याख्यान करणेसें निश्चय करते है, सो पाठ यह है "देवसक्खियं" इति सूत्र प्रामाण्यात् ॥
( ३९ ) तथा ३०४ के पत्रेका पाठ ॥ तथा प्रवचनसुराः सम्यग्दृष्टयो देवास्तेषां स्मरणार्थं वैयावृत्यकरेत्यादि विशेषणद्वारेणोपबृंहणार्थं क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणप्रशंसया प्रोत्साहनार्थमित्यर्थः । यद्वा तत्कर्तव्यानां वैयावृत्त्यादीनां प्रमादादिना श्लथीभूतानां प्रवृत्त्यर्थमश्लथीभूता नतु स्थैर्याय च स्मरणात् ज्ञापनात् तदर्थं सारणार्थं वा प्रवचनप्रभावनादौ हितकार्ये प्रेरणार्थक उत्सर्गः कायोत्सर्गः चरम इति शेषः इत्येतानि निमित्तानि प्रयोजनानि फलानीति यावदष्टौ चैत्यवंदना या भवतीति शेषः । इह च यद्यपि वैयावृत्त्यकरादयः स्वस्मरणाद्यर्थं क्रियमाणं कायोत्सर्गं न जानते, . तथापि तद्विषयकायोत्सर्गात् वसुदेवहिंडयुक्तस्य तत्कर्तुः श्रीगुप्तश्रेष्ठिन इव विघ्नोपशमादिषु शुभसिद्धिर्भवत्येव आप्तोपदिष्टत्वेनाव्यभिचारत्वात् यथा स्तंभनीयाभिः परिज्ञाने आप्तोपदेशेन स्तंभनादिकर्म्म कर्तुः स्तंभनाद्यभीष्टफलसिद्धिः । उक्तं च चूर्णौ तेसिमविन्नाणे विहु, तव्वि सउस्सग्गओ फलं होइ । विघ्घज्ज य पुन्नवं धाइ कारणं संतताए णति झापयति चैतदिदमेव कायोत्सर्गप्रवर्तकं वेयावच्चगराणमित्यादि सूत्रम् अन्यथाभीष्टफलसिद्धयादौ प्रवर्तकत्वायोगात् उक्तं च ललितविस्तरायां तदपरिज्ञानेऽप्यस्मात्तच्छुभ- सिद्वाविदमेव वचनं ज्ञापकमिति श्रीगुप्त श्रेष्ठिकथां त्वियम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org