________________
स्तुतिचतुर्विंशत्तिकायाः
[ श्रीशोमनउमे 'सुबोधिकाभिधा स्वोपज्ञा तवृत्तिश्च निरमायि इति सन्देहदोलारूढं वर्तते यतः तवृत्तिप्रतिपारम्भे उल्लेखोऽयम्
___ " भट्टारकपुरन्दरभट्टारकश्री ५ श्रीविजयाणं(न)दसूरिचरणेभ्यो नमः । श्रीविजयराजसरिगुरुभ्यो नमः । वाचकमुख्य वाचकश्री ५ श्रीमुनिविजयगणिगुरुभ्यो नमः । वाचकावरवाचकश्रीकल्याणविजयगणिगुरुभ्यो नमः"। इदमुक्तं भवति यदुतात्र श्रीविजयराजमूरिश्रीमनिविजयगणि-श्रीकल्याणविजयगणीतिनामानः त्रयोऽपि महाशया गुरुरूपेण निर्दिष्टाः । परन्तु एतेषु श्रीमुनिविजयगणयः श्रीदेवविजयगणीनां दीक्षागुरवः, श्रीकल्याणविजयगणयस्तु विद्यागुरव इति ज्ञायते श्रीअर्हन्नामसहस्रवृत्तेः प्रशस्तिगततृतीयपद्यप्रेक्षणेन, परन्तु नावगम्यते किमर्थं श्रीविजयराजमूरीणां गुरुरूपेण निर्देशः । सा प्रशस्तिस्तु यथा
" श्रीविजयसेनसूरी-वरपट्टप्रभावका अभवन् । वरविजयपक्षपतयः, सूरिश्रीविजयतिलकाख्याः ॥१॥ तत्पट्टेऽतिप्रकटे, पूर्वगिरौ दिनपतिप्रतिमविभवाः । विजयन्ते यतिपतयः, श्रीविजयाण(न)न्दसूरीन्द्राः ॥२॥ दीक्षाया मम गुरवः, श्रीमन्मुनिविजयवाचका आसन् । विद्यायास्तु श्रीमद्-वाचककल्याणविजयाताः ॥३॥ एतेषां गुरुराजां, प्रसादमासाथ दशशतमितानाम् । अईनाना वृत्ति-विनिर्मिता देवविजयेन ॥४॥ एकमपि नामधेयं, तीर्थकृतोऽनवगताभिधेयमपि । जप्तं श्रुतमिष्टकरं, किं पुनरधिकानि सार्थानि ? ॥ ५॥ तेनार्थसहितनाम-स्मरणं तीशितुर्महाफलदम् । अर्हत्सहस्रनाम्नां, सूत्रं वृत्तिर्मया विहिते ॥ ६ ॥ जिनशासनभक्तानां, मनीषिणां चरणपप्ररेणुसमः । एका विज्ञप्तिमहं, कुर्वे विनयं विधाय पुरः ॥ ७॥
१ आनन्दकाव्यमहोदधेः सप्तमस्य मौक्तिकस्य प्रस्तावनायां ( ११९तमे पृष्ठे ) अहजिनसहस्र(अशुद्धमभिधानमिदं)कारः श्रीजयविजयानां गुरव इति उदलेखि, परन्तु श्रीमुनिविजयगणीनां श्रीजयविजयनामानः प्रशिष्या आसन इत्युल्लेखामावे श्रीदेवविजयानां श्रीराजविजयसूरिभिः सह विनेयविनयिमावघठनामिकयुक्तिवैकल्ये च सति एतन्मतं विचारासहमिति मे मतिः ।
२ प्रवर्तकश्रीकान्तिविजयमुनिपुङ्गवसत्का प्रतिरियम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org