________________
मुनिराजकृतायाः]
भूमिका श्रीमन्तः सरिवरा, वाचकमुख्याः सुधीश्वरा गणयः। . मुनयोऽपि च मम वचनं, शृण्वन्तु सदादराः सन्तः ॥८॥ नास्मद्गच्छीयकृतं, नास्मद्गुरुगच्छनामधेयमिह । श्रीजिनशासनभक्तै-रानेयं न खलु मनसि यतः ॥९॥ ये यद्गच्छे सन्तो, ये यद्गुरुनिष्ठया प्रवर्तन्ते । तेषां गीतार्थानां, तन्नामग्रहणमुचितमिह ॥ १०॥ तेनैतत्पठनादौ, लिखनादौ नैव मत्सरः कार्यः। शासनभक्तजनानां, जिनाभिधानस्मृतिः स(सु)टशा(म्) ॥ ११.॥ वृत्तेः सूत्रस्य तथा, कर्तृकवेर्योऽभिधापरावर्तम् । निर्मास्यति तन्मूर्ध्नि, साशाभङ्गपातकं पततु ॥ १२ ॥ विक्रमतोऽष्टापश्चा-शदधिकषोडशशतेषु (१६५८ ) वर्षाणाम् । सूत्रं कृतमष्टनव-त्यधिकेषु ( १६९८ ) गतेषु दृचिरपि ॥ १३ ॥ मतिमान्धादौत्सुक्या-दधिकं न्यूनं च यन्मया लिखितम् । तच्छोधयन्तु विबुधा-धीशाः करुणां विधाय मयि ॥ १४ ॥ अईनामसहस्र-स्तवनं निर्माय यन्मया सुकृतम् । प्राप्तं तेन समग्रे, श्रीसः भवतु कल्याणम् ॥ १५॥ श्रीकीर्तिविजयवाचक-शिष्योपाध्यायविनयविजयाख्यैः। समशोधि वृत्तिरेषा, निधि-निधि-रस-शशि( १६९९ )मिते वर्षे ॥१६॥ एतच्छास्त्रं विबुधै-रधीयमानं च लिख्यमानं च ।
जिनपतिशासनभक्तै-राचन्द्रार्क चिरं जीयात् ॥ १७॥" अत्रत्यषोडशपद्यपरामर्शेन समुपतिष्ठति प्रश्नो यदुत संशोधनककर्मणि कस्मात् जयविजयेति नाम न निरदेशि श्रीदेवविजयैः ?। किं तदानीं ते स्वर्गवासिन आसन् अथवा किम न चेमे श्रीशोभनस्तुतिवृत्तिकाराणां गुरवः । एते तु मुनिश्रीदीप्तिविजयकृतमङ्गलकलशरासकप्रशस्तौ सूचिताः श्रीदेवविजया: श्रीविजयदानसूरीश्वरशिष्यश्रीराजविमलोपाध्यायानां पशिष्याः श्रीमुनिविजयोपाध्यायानां तु शिष्याः इति प्रतिभाति । १ तत्प्रशस्तिगतप्रासङ्गिकपयानि यथा
" श्रीविजयमानसूरीसरू 'तप'गच्छनो सणगार रे तेहने राज्ये रंगे करी रास रच्यो सुविचार रे. पुण्य करो तमे प्राणीआ (२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org