________________
स्तुतिचतुर्विशतिकायाः
[श्रीशोभन शशि-रस-रस-ख( १६६० )मितेऽब्दे मासे माघे तिथौ च मासमिते । शुक्ले गुरुगुरुभयुते राजन्वदमहमदावादे ॥३॥ जीर्ण पाण्डवचरितं शत्रुञ्जयनाममहिमकं च तथा । शास्त्रं च नलचरित्रं विलोक्य भावार्थमधिगम्य ॥ ४॥ सुगमत्वाद गद्यमयं पाण्डवचरित्रं चकार विस्तरतः। स्वस्य परेषामपि वा सुखावबोधं ललितवचनं च ॥५॥-कुलकम् छावस्थ्याद् यत् किंश्चिद् व्याकरणागमविरुद्धरचितमिह । गीतास्तच्छोध्यं परोपकारैकबुद्धिधनैः॥६॥ वाचकशिरोऽवतंसाः श्रीमन्तः श्रीशान्तिचन्द्रगुरुचन्द्राः। तच्छिष्यरत्नचन्द्रैर्विबुधैः संशोधितं स्वधिया ॥७॥ सूर्याचन्द्रमसौ यावद् , यावत् सप्त कुलाचलाः।
श्रीमत्तपागणस्ताव-दयं जयतु पुस्तकः ॥८॥" अनेन निर्धार्यते श्रीदेवविजयगुरुनाम राजविजय इति । एवं सत्यपि राजविजयनामधारिणो विजयराजाभिधानेभ्यो भिन्ना इति मन्तव्यमस्थानीयं, यतः सूरिपदमाप्त्यनन्तरं उत्तरपदस्य पूर्वनिपातः प्रायो भवति यथा विजयदानमूरिनाम्नि ।
श्रीदेवविजयानां कृतिततियथा
__ ग्रन्थनाम ग्रन्थानम् रचयासमय: रामचरित्रं (गद्यम् ) ५००० १६५२ अमुद्रितम् पाण्डवचरित्रं (गद्यम् ) ९५०० १६६० मुद्रितम्
१ अस्य प्रथमसर्गस्य प्रान्तेऽयमुल्लेख:
" इति श्रीमत्तपागच्छे भट्टारकरीहीरविजयसूरिविजयराज्ये आचार्यश्रीविजयसेनसूरियौवराज्ये पं०श्रीदेवविजयगणिविरचिते गयबन्धे श्रीरामचरित्रे राक्षसवंश-वानरवंशोत्पत्ति-रावण-कुम्भकर्ण-विभीषणजन्मवर्णनो नाम प्रथमः सर्गः।"
दशमान्ते तु यथा
" इति श्रीमत्तपा० श्रीरामचरित्रे श्रीरामनिर्वाणगमनो नाम दशमः सर्गः । समाप्तं चेदं रामायणम्। श्री इदं रामायणं प्रायेण श्रीहेमाचार्यकृतं रामायणं उपजीव्य मया कृतमिति संस्कृतभाषयैव लिखितं सत्यपि प्राकृतपयबन्धचरित्रे तथापि संस्कृतपद्यबन्धचरित्रे मया आत्मविश्वात्मविदार्थ कर्मक्षयार्थ च गद्यबन्धेन कृतमिाते । स्वस्ति [ सत्य ] श्रीमत्तपागच्छे भट्टारकयुगप्रधानश्रीविजयदानसूरिशिष्यश्रीराजविजयसूरिशिष्यपण्डितश्रीदेवविजयगणिभिर्विरीचतं समाप्तं चेदं रामायणम् । छ । संवत् १६५२ वर्षे आश्विनमासे कृष्णपक्षे दशम्यां तिथौ गुरुपुष्ययोगे श्रीमनमरुस्थल्या ज्येष्ठस्थित्यां स्थितेन पं० श्रीदेवविजयेन श्रीमालपुरे नगरे श्रीमदकब्बरराज्ये विरचितं श्रीरामायणम् ।
प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । सम्यग्गणन( नाद् ! ) ज्ञेयं, श्लोकपञ्चसहस्रकम् ॥ १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org